जु॑होति य॒ज्ञ्स्योद्य॑त्या अनु॒ष्टुप्-छन्द॑सा॒-मुद॑यच्छ॒दित्या॑-हु॒स्तस्मा॑दनु॒ष्टुभा॑ जुहोति य॒ज्ञ्स्योद्य॑त्यै॒ द्वाद॑श वाथ्सब॒न्धान्युद॑यच्छ॒-न्नित्या॑हु॒-स्तस्मा᳚द्- द्वाद॒शभि॑-र्वाथ्सबन्ध॒विदो॑ दीक्षयन्ति॒ सा वा ए॒षर्ग॑नु॒ष्टुग्-वाग॑नु॒ष्टुग्-यदे॒तय॒र्चा दी॒क्षय॑ति वा॒चैवैनꣳ॒॒ सर्व॑या दीक्षयति॒ विश्वे॑ दे॒वस्य॑ ने॒तुरित्या॑ह सावि॒त्र्ये॑तेन॒ मर्तो॑ वृणीत स॒ख्य - [ ]
पदपाठः (Word-by-word)
जु॒हो॒ति॒ । य॒ज्ञ्स्य॑ । उद्य॑त्या॒ इत्युत् - य॒त्यै॒ । अ॒नु॒ष्टुबित्य॑नु - स्तुप् । छन्द॑साम् । उदिति॑ । अ॒य॒च्छ॒त् । इति॑ । आ॒हुः॒ । तस्मा᳚त् । अ॒नु॒ष्टुभेत्य॑नु - स्तुभा᳚ । जु॒हो॒ति॒ । य॒ज्ञ्स्य॑ । उद्य॑त्या॒ इत्युत् - य॒त्यै॒ । द्वाद॑श । वा॒थ्स॒ब॒न्धानीति॑ वाथ्स - ब॒न्धानि॑ । उदिति॑ । अ॒य॒च्छ॒न्न् । इति॑ । आ॒हुः॒ । तस्मा᳚त् । द्वा॒द॒शभि॒रिति॑ द्वाद॒श-भिः॒ । आ॒थ्स॒ब॒न्ध॒विद॒ इति॑ वाथ्सबन्ध - विदः॑ । दी॒क्ष॒य॒न्ति॒ । सा । वै । ए॒षा । ऋक् । अ॒नु॒ष्टुगित्य॑नु - स्तुक् । वाक् । अ॒नु॒ष्टुगित्य॑नु - स्तुक् । यत् । ए॒तया᳚ । ऋ॒चा । दी॒क्षय॑ति । वा॒चा । ए॒व । ए॒न॒म् । सर्व॑या । दी॒क्ष॒य॒ति॒ । विश्वे᳚ । दे॒वस्य॑ । ने॒तुः । इति॑ । आ॒ह॒ । सा॒वि॒त्री । ए॒तेन॑ । मर्तः॑ । वृ॒णी॒त॒ । स॒ख्यम् ।