मेख॑ला॒ भव॒त्यूर्ज॑मे॒वाव॑ रुन्धे मद्ध्य॒तः संन॑ह्यति मद्ध्य॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा᳚न्मद्ध्य॒त ऊ॒र्जा भु॑ञ्जत ऊ॒र्द्ध्वं ॅवै पुरु॑षस्य॒ नाभ्यै॒ मेद्ध्य॑-मवा॒चीन॑-ममे॒द्ध्यं ॅयन्म॑द्ध्य॒तः स॒नंह्य॑ति॒ मेद्ध्यं॑ चै॒वास्या॑मे॒द्ध्यं च॒ व्याव॑र्तय॒तीन्द्रो॑ वृ॒त्राय॒ वज्रं॒ प्राह॑र॒थ् स त्रे॒धा व्य॑भव॒थ् स्फ्यस्तृती॑यꣳ॒॒ रथ॒स्तृती॑यं॒ ॅयूप॒स्तृती॑यं॒ - [ ]
पदपाठः (Word-by-word)
मेख॑ला । भव॑ति । ऊर्ज᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । म॒द्ध्य॒तः । समिति॑ । न॒ह्य॒ति॒ । म॒द्ध्य॒तः । ए॒व । अ॒स्मै॒ । ऊर्ज᳚म् । द॒धा॒ति॒ । तस्मा᳚त् । म॒द्ध्य॒तः । ऊ॒र्जा । भु॒ञ्ज॒ते॒ । ऊ॒द्र्ध्वम् । वै । पुरु॑षस्य । नाभ्यै᳚ । मेद्ध्य᳚म् । अ॒वा॒चीन᳚म् । अ॒मे॒द्ध्यम् । यत् । म॒द्ध्य॒तः । स॒न्नह्य॒तीति॑ सं - नह्य॑ति । मेद्ध्य᳚म् । च॒ । ए॒व । अ॒स्य॒ । अ॒मे॒द्ध्यम् । च॒ । व्याव॑र्तय॒तीति॑ वि-आव॑र्तयति । इन्द्रः॑ । वृ॒त्राय॑ । वज्र᳚म् । प्रेति॑ । अ॒ह॒र॒त् । सः । त्रे॒धा । वीति॑ । अ॒भ॒व॒त् । स्फ्यः । तृती॑यम् । रथः॑ । तृती॑यम् । यूपः॑ । तृती॑यम् ।