अथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाव॑ रुन्धे॒ पथ्याꣳ॑ स्व॒स्तिम॑यज॒न् प्राची॑मे॒व तया॒ दिशं॒ प्राजा॑नन्न॒ग्निना॑ दक्षि॒णा सोमे॑न प्र॒तीचीꣳ॑ सवि॒त्रोदी॑ची॒-मदि॑त्यो॒र्द्ध्वां पथ्याꣳ॑ स्व॒स्तिं ॅय॑जति॒ प्राची॑मे॒व तया॒ दिशं॒ प्र जा॑नाति॒ पथ्याꣳ॑ स्व॒स्तिमि॒ष्ट्वाऽग्नीषोमौ॑ यजति॒ चक्षु॑षी॒ वा ए॒ते य॒ज्ञ्स्य॒ यद॒ग्नीषोमौ॒ ताभ्या॑मे॒वानु॑ पश्य - [ ]
पदपाठः (Word-by-word)
अथो॒ इति॑ । पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । प॒ङ्क्तिः । पाङ्क्तः॑ । य॒ज्ञ्ः । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्धे॒ । पथ्या᳚म् । स्व॒स्तिम् । अ॒य॒ज॒न्न् । प्राची᳚म् । ए॒व । तया᳚ । दिश᳚म् । प्रेति॑ । अ॒जा॒न॒न्न् । अ॒ग्निना᳚ । द॒क्षि॒णा । सोमे॑न । प्र॒तीची᳚म् । स॒वि॒त्रा । उदी॑चीम् । अदि॑त्या । ऊ॒द्र्ध्वाम् । पथ्या᳚म् । स्व॒स्तिम् । य॒ज॒ति॒ । प्राची᳚म् । ए॒व । तया᳚ । दिश᳚म् । प्रेति॑ । जा॒ना॒ति॒ । पथ्या᳚म् । स्व॒स्तिम् । इ॒ष्ट्वा । अ॒ग्नीषोमा॒वित्य॒ग्नी-सोमौ᳚ । य॒ज॒ति॒ । चक्षु॑षी॒ इति॑ । वै । ए॒ते इति॑ । य॒ज्ञ्स्य॑ । यत् । अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । ताभ्या᳚म् । ए॒व । अन्विति॑ । प॒श्य॒ति॒ ।