ॅव्याच॑ष्टे॒ बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्व॒त्वित्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒-र्ब्रह्म॑णै॒वास्मै॑ प॒शूनव॑ रुन्धे रु॒द्रो वसु॑भि॒रा चि॑के॒त्वित्या॒हाऽऽ*वृ॑त्त्यै पृथि॒व्यास्त्वा॑ मू॒र्द्धन्ना जि॑घर्मि देव॒यज॑न॒ इत्या॑ह पृथि॒व्या ह्ये॑ष मू॒र्द्धा यद्-दे॑व॒यज॑न॒मिडा॑याः प॒द इत्या॒हेडा॑यै॒ ह्ये॑तत् प॒दं ॅयथ् सो॑म॒क्रय॑ण्यै घृ॒तव॑ति॒ स्वाहे - [ ]
पदपाठः (Word-by-word)
व्याच॑ष्ट॒ इति॑ वि-आच॑ष्टे । बृह॒स्पतिः॑ । त्वा॒ । सु॒म्ने । र॒ण्व॒तु॒ । इति॑ । आ॒ह॒ । ब्रह्म॑ । वै । दे॒वाना᳚म् । बृह॒स्पतिः॑ । ब्रह्म॑णा । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्धे॒ । रु॒द्रः । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । एति॑ । चि॒के॒तु॒ । इति॑ । आ॒ह॒ । आवृ॑त्त्या॒ इत्या - वृ॒त्त्यै॒ । पृ॒थि॒व्याः । त्वा॒ । मू॒द्र्धन्न् । एति॑ । जि॒घ॒र्मि॒ । दे॒व॒यज॑न॒ इति॑ देव-यज॑ने । इति॑ । आ॒ह॒ । पृ॒थि॒व्याः । हि । ए॒षः । मू॒द्र्धा । यत् । दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । इडा॑याः । प॒दे । इति॑ । आ॒ह॒ । इडा॑यै । हि । ए॒तत् । प॒दम् । यत् । सो॒म॒क्रय॑ण्या॒ इति॑ सोम - क्रय॑ण्यै । घृ॒तव॒तीति॑ घृ॒त-व॒ति॒ । स्वाहा᳚ ।