प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.1.8.3 TS 6.1.8.3
-त्या॑ह॒ यदे॒वास्यै॑ प॒दाद्-घृ॒तमपी᳚ड्यत॒ तस्मा॑दे॒वमा॑ह॒ यद॑द्ध्व॒र्युर॑न॒ग्नावाहु॑तिं जुहु॒याद॒न्धो᳚ऽद्ध्व॒र्युः स्या॒द्-रक्षाꣳ॑सि य॒ज्ञ्ꣳ ह॑न्यु॒र्॒.हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो᳚ऽद्ध्व॒र्यु र्भव॑ति॒ न य॒ज्ञ्ꣳ रक्षाꣳ॑सि घ्नन्ति॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञ्ꣳ रक्षाꣳ॑सि जिघाꣳसन्ति॒ परि॑लिखितꣳ॒॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्या - [ ]
पदपाठः (Word-by-word)
इति॑ । आ॒ह॒ । यत् । ए॒व । अ॒स्यै॒ । प॒दात् । घृ॒तम् । अपी᳚ड्यत । तस्मा᳚त् । ए॒वम् । आ॒ह॒ । यत् । अ॒द्ध्व॒र्युः । अ॒न॒ग्नौ । आहु॑ति॒मित्या - हु॒ति॒म् । जु॒हु॒यात् । अ॒न्धः । अ॒द्ध्व॒र्युः । स्या॒त् । रक्षाꣳ॑सि । य॒ज्ञ्म् । ह॒न्युः॒ । हिर॑ण्यम् । उ॒पास्येत्यु॑प - अस्य॑ । जु॒हो॒ति॒ । अ॒ग्नि॒वतीत्य॑ग्नि - वति॑ । ए॒व । जु॒हो॒ति॒ । न । अ॒न्धः । अ॒द्ध्व॒र्युः । भव॑ति । न । य॒ज्ञ्म् । रक्षाꣳ॑सि । घ्न॒न्ति॒ । काण्डे॑काण्ड॒ इति॒ काण्डे᳚ - का॒ण्डे॒ । वै । क्रि॒यमा॑णे । य॒ज्ञ्म् । रक्षाꣳ॑सि । जि॒घाꣳ॒॒स॒न्ति॒ । परि॑लिखित॒मिति॒ परि॑ - लि॒खि॒त॒म् । रक्षः॑ । परि॑लिखिता॒ इति॒ परि॑ - लि॒खि॒ताः॒ । अरा॑तयः । इति॑ । आ॒ह॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
पदसंख्या: 50