इ॒दम॒हꣳ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व द्वेष्टि॒ यश्चैनं॒ द्वेष्टि॒ तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति प॒शवो॒ वै सो॑म॒क्रय॑ण्यै प॒दं ॅया॑वत्त्मू॒तꣳ सं ॅव॑पति प॒शूने॒वाव॑ रुन्धे॒ऽस्मे राय॒ इति॒ सं ॅव॑पत्या॒त्मान॑-मे॒वाद्ध्व॒र्युः - [ ]
पदपाठः (Word-by-word)
इ॒दम् । अ॒हम् । रक्ष॑सः । ग्री॒वाः । अपीति॑ । कृ॒न्ता॒मि॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । इति॑ । आ॒ह॒ । द्वौ । वाव । पुरु॑षौ । यम् । च॒ । ए॒व । द्वेष्टि॑ । यः । च॒ । ए॒न॒म् । द्वेष्टि॑ । तयोः᳚ । ए॒व । अन॑न्तराय॒मित्यन॑न्तः - आ॒य॒म् । ग्री॒वाः । कृ॒न्त॒ति॒ । प॒शवः॑ । वै । सो॒म॒क्रय॑ण्या॒ इति॑ सोम - क्रय॑ण्यै । प॒दम् । या॒वत्त्मू॒तमिति॑ यावत् - त्मू॒तम् । समिति॑ । व॒प॒ति॒ । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । अ॒स्मे इति॑ । रायः॑ । इति॑ । समिति॑ । व॒प॒ति॒ । आ॒त्मान᳚म् । ए॒व । अ॒द्ध्व॒र्युः ।