प॒शुभ्यो॒ नान्तरे॑ति॒ त्वे राय॒ इति॒ यज॑मानाय॒ प्र य॑च्छति॒ यज॑मान ए॒व र॒यिं द॑धाति॒ तोते॒ राय॒ इति॒ पत्नि॑या अ॒र्द्धो वा ए॒ष आ॒त्मनो॒ यत् पत्नी॒ यथा॑ गृ॒हेषु॑ निध॒त्ते ता॒दृगे॒व तत् त्वष्टी॑मती ते सपे॒येत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृद्-रू॒पमे॒व प॒शुषु॑ दधात्य॒स्मै वै लो॒काय॒ गार्.ह॑पत्य॒ आ धी॑यते॒ ( ) ऽमुष्मा॑ आहव॒नीयो॒ यद्-गार्.ह॑पत्य उप॒वपे॑द॒स्मिन् ॅलो॒के प॑श॒मान्थ् स्या॒द्-यदा॑हव॒नीये॒ ऽमुष्मि॑न् ॅलो॒के प॑शु॒मान्थ् स्या॑दु॒भयो॒रुप॑ वपत्यु॒भयो॑रे॒वैनं॑ ॅलो॒कयोः᳚ पशु॒मन्तं॑ करोति ॥
पदपाठः (Word-by-word)
प॒शुभ्य॒ इति॑ प॒शु - भ्यः॒ । न । अ॒न्तः । ए॒ति॒ । त्वे इति॑ । रायः॑ । इति॑ । यज॑मानाय । प्रेति॑ । य॒च्छ॒ति॒ । यज॑माने । ए॒व । र॒यिम् । द॒धा॒ति॒ । तोते᳚ । रायः॑ । इति॑ । पत्नि॑यै । अ॒द्र्धः । वै । ए॒षः । आ॒त्मनः॑ । यत् । पत्नी᳚ । यथा᳚ । गृ॒हेषु॑ । नि॒ध॒त्त इति॑ नि - ध॒त्ते । ता॒दृक् । ए॒व । तत् । त्वष्टी॑मती । ते॒ । स॒पे॒य॒ । इति॑ । आ॒ह॒ । त्वष्टा᳚ । वै । प॒शू॒नाम् । मि॒थु॒नाना᳚म् । रू॒प॒कृदिति॑ रूप - कृत् । रू॒पम् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ । अ॒स्मै । वै । लो॒काय॑ । गार्.ह॑पत्य॒ इति॒ गार्.ह॑ - प॒त्यः॒ । एति॑ । धी॒य॒ते॒ ( ) । अ॒मुष्मै᳚ । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ । यत् । गार्.ह॑पत्य॒ इति॒ गार्.ह॑- प॒त्ये॒ । उ॒प॒वपे॒दित्यु॑प - वपे᳚त् । अ॒स्मिन्न् । लो॒के । प॒शु॒मानिति॑ पशु - मान् । स्या॒त् । यत् । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीये᳚ । अ॒मुष्मिन्न्॑ । लो॒के । प॒शु॒मानिति॑ पशु - मान् । स्या॒त् । उ॒भयोः᳚ । उपेति॑ । व॒प॒ति॒ । उ॒भयोः᳚ । ए॒व । ए॒न॒म् । लो॒कयोः᳚ । प॒शु॒मन्त॒मिति॑ पशु - मन्त᳚म् । क॒रो॒ति॒ ॥