वासः॒ सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिः॒ सम॑र्द्धयति प॒शवो॒ वै सोमः॑ प्रा॒णाय॒ त्वेत्युप॑ नह्यति प्रा॒णमे॒व प॒शुषु॑ दधाति व्या॒नाय॒ त्वेत्यनु॑ शृन्थति व्या॒नमे॒व प॒शुषु॑ दधाति॒ तस्मा᳚थ् स्व॒पन्तं॑ प्रा॒णा न ज॑हति ॥
पदपाठः (Word-by-word)
वासः॑ । सर्वा॑भिः । ए॒व । ए॒न॒म् । दे॒वता॑भिः । समिति॑ । अ॒द्र्ध॒य॒ति॒ । प॒शवः॑ । वै । सोमः॑ । प्रा॒णायेति॑ प्र - अ॒नाय॑ । त्वा॒ । इति॑ । उपेति॑ । न॒ह्य॒ति॒ । प्रा॒णमिति॑ प्र - अ॒नम् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ । व्या॒नायेति॑ वि - अ॒नाय॑ । त्वा॒ । इति॑ । अन्विति॑ । शृ॒न्थ॒ति॒ । व्या॒नमिति॑ वि - अ॒नम् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ । तस्मा᳚त् । स्व॒पन्त᳚म् । प्रा॒णा इति॑ प्र - अ॒नाः । न । ज॒ह॒ति॒ ॥