ए॒वैतेन॑ करोत्य॒ग्नये᳚ त्वा रायस्पोष॒दाव्न्ने॒ विष्ण॑वे॒ त्वेत्या॑हानु॒ष्टुभ॑ ए॒वैतेन॑ करोति श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒ पञ्च॒ कृत्वो॑ गृह्णाति॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाव॑ रुन्धे ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ् स॒त्याद्-गा॑यत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियत॒ इति॒ यदे॒वादः सोम॒मा- [ ]
पदपाठः (Word-by-word)
ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । अ॒ग्नये᳚ । त्वा॒ । रा॒य॒स्पो॒ष॒दाव्न्न॒ इति॑ रायस्पोष - दाव्न्ने᳚ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ । अ॒नु॒ष्टुभ॒ इत्य॑नु - स्तुभे᳚ । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । श्ये॒नाय॑ । त्वा॒ । सो॒म॒भृत॒ इति॑ सोम - भृते᳚ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ । गा॒य॒त्रि॒यै । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । पञ्च॑ । कृत्वः॑ । गृ॒ह्णा॒ति॒ । पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । प॒ङ्क्तिः । पाङ्क्तः॑ । य॒ज्ञ्ः । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्धे॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । कस्मा᳚त् । स॒त्यात् । गा॒य॒त्रि॒यै । उ॒भ॒यतः॑ । आ॒ति॒थ्यस्य॑ । क्रि॒य॒ते॒ । इति॑ । यत् । ए॒व । अ॒दः । सोम᳚म् । एति॑ ।