ऽह॑र॒त् तस्मा᳚द्-गायत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियते पु॒रस्ता᳚च्चो॒ परि॑ष्टाच्च॒ शिरो॒ वा ए॒तद् य॒ज्ञ्स्य॒ यदा॑ति॒थ्यं नव॑कपालः पुरो॒डाशो॑ भवति॒ तस्मा᳚न्नव॒धा शिरो॒ विष्यू॑तं॒ नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता॒ स्तोमे॑न॒ संमि॑ता॒स्तेज॑स्त्रि॒वृत् तेज॑ ए॒व य॒ज्ञ्स्य॑ शी॒र्॒.षन् द॑धाति॒ नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता᳚ प्रा॒णेन॒ संमि॑तास्त्रि॒वृद्वै- [ ]
पदपाठः (Word-by-word)
अह॑रत् । तस्मा᳚त् । गा॒य॒त्रि॒यै । उ॒भ॒यतः॑ । आ॒ति॒थ्यस्य॑ । क्रि॒य॒ते॒ । पु॒रस्ता᳚त् । च॒ । उ॒परि॑ष्टात् । च॒ । शिरः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । आ॒ति॒थ्यम् । नव॑कपाल॒ इति॒ नव॑ - क॒पा॒लः॒ । पु॒रो॒डाशः॑ । भ॒व॒ति॒ । तस्मा᳚त् । न॒व॒धेति॑ नव - धा । शिरः॑ । विष्यू॑त॒मिति॒ वि - स्यू॒त॒म् । नव॑कपाल॒ इति॒ नव॑ - क॒पा॒लः॒ । पु॒रो॒डाशः॑ । भ॒व॒ति॒ । ते । त्रयः॑ । त्रि॒क॒पा॒ला इति॑ त्रि - क॒पा॒लाः । त्रि॒वृतेति॑ त्रि - वृता᳚ । स्तोमे॑न । संमि॑ता॒ इति॒ सं - मि॒ताः॒ । तेजः॑ । त्रि॒वृदिति॑ त्रि - वृत् । तेजः॑ । ए॒व । य॒ज्ञ्स्य॑ । शी॒र्॒.षन्न् । द॒धा॒ति॒ । नव॑कपाल॒ इति॒ नव॑-क॒पा॒लः॒ । पु॒रो॒डाशः॑ । भ॒व॒ति॒ । ते । त्रयः॑ । त्रि॒क॒पा॒ला इति॑ त्रि - क॒पा॒लाः । त्रि॒वृतेति॑ त्रि-वृता᳚ । प्रा॒णेनेति॑ प्र-अ॒नेन॑ । संमि॑ता॒ इति॒ सं-मि॒ताः॒ । त्रि॒वृदिति॑ त्रि - वृत् । वै ।