प्रा॒ण-स्त्रि॒वृत॑मे॒व प्रा॒णम॑भिपू॒र्वं ॅय॒ज्ञ्स्य॑ शी॒र्॒.षन् द॑धाति प्र॒जाप॑ते॒र्वा ए॒तानि॒ पक्ष्मा॑णि॒ यद॑श्ववा॒ला ऐ᳚क्ष॒वी ति॒रश्ची॒ यदाश्व॑वालः प्रस्त॒रो भव॑त्यैक्ष॒वी ति॒रश्ची᳚ प्र॒जाप॑तेरे॒व तच्चक्षुः॒ संभ॑रति दे॒वा वै या आहु॑ती॒रजु॑हवु॒स्ता असु॑रा नि॒ष्काव॑माद॒न् ते दे॒वाः का᳚र्ष्म॒र्य॑मपश्यन् कर्म॒ण्यो॑ वै कर्मै॑नेन कुर्वी॒तेति॒ ते का᳚र्ष्मर्य॒मया᳚न् परि॒धीन॑- [ ]
पदपाठः (Word-by-word)
प्रा॒ण इति॑ प्र -अ॒नः । त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् । ए॒व । प्रा॒णमिति॑ प्र -अ॒नम् । अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् । य॒ज्ञ्स्य॑ । शी॒र्॒.षन्न् । द॒धा॒ति॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । वै । ए॒तानि॑ । पक्ष्मा॑णि । यत् । अ॒श्व॒वा॒ला इत्य॑श्व - वा॒लाः । ऐ॒क्ष॒वी इति॑ । ति॒रश्ची॒ इति॑ । यत् । आश्व॑वाल॒ इत्याश्व॑ - वा॒लः॒ । प्र॒स्त॒र इति॑ प्र - स्त॒रः । भव॑ति । ऐ॒क्ष॒वी इति॑ । ति॒रश्ची॒ इति॑ । प्र॒जाप॑ते॒रिति॑ प्र॒जा -प॒तेः॒ । ए॒व । तत् । चक्षुः॑ । समिति॑ । भ॒र॒ति॒ । दे॒वाः । वै । याः । आहु॑ती॒रित्या - हु॒तीः॒ । अजु॑हवुः । ताः । असु॑राः । नि॒ष्काव᳚म् । आ॒द॒न्न् । ते । दे॒वाः । का॒र्ष्म॒र्य᳚म् । अ॒प॒श्य॒न्न् । क॒र्म॒ण्यः॑ । वै । कर्म॑ । ए॒ने॒न॒ । कु॒र्वी॒त॒ । इति॑ । ते । का॒र्ष्म॒र्य॒मया॒निति॑ कार्ष्मर्य - मयान्॑ । प॒रि॒धीनिति॑ परि - धीन् ।