प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.2.1.7 TS 6.2.1.7
-ग्निश्च॒ वा ए॒तौ सोम॑श्च क॒था सोमा॑याऽऽ*ति॒थ्यं क्रि॒यते॒ नाग्नय॒ इति॒ यद॒ग्नाव॒ग्निं म॑थि॒त्वा प्र॒हर॑ति॒ तेनै॒वाग्नय॑ आति॒थ्यं क्रि॑य॒ते ऽथो॒ खल्वा॑हुर॒ग्निः सर्वा॑ दे॒वता॒ इति॒ यद्ध॒विरा॒साद्या॒ग्निं मन्थ॑ति ह॒व्यायै॒वाऽऽ*स॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयति ॥
पदपाठः (Word-by-word)
अ॒ग्निः । च॒ । वै । ए॒तौ । सोमः॑ । च॒ । क॒था । सोमा॑य । आ॒ति॒थ्यम् । क्रि॒यते᳚ । न । अ॒ग्नये᳚ । इति॑ । यत् । अ॒ग्नौ । अ॒ग्निम् । म॒थि॒त्वा । प्र॒हर॒तीति॑ प्र - हर॑ति । तेन॑ । ए॒व । अ॒ग्नये᳚ । आ॒ति॒थ्यम् । क्रि॒य॒ते॒ । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । अ॒ग्निः । सर्वाः᳚ । दे॒वताः᳚ । इति॑ । यत् । ह॒विः । आ॒साद्येत्या᳚ - साद्य॑ । अ॒ग्निम् । मन्थ॑ति । ह॒व्याय॑ । ए॒व । आस॑न्ना॒येत्या - स॒न्ना॒य॒ । सर्वाः᳚ । दे॒वताः᳚ । ज॒न॒य॒ति॒ ॥
पदसंख्या: 41