प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.2.10.1 TS 6.2.10.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्यभ्रि॒मा द॑त्ते॒ प्रसू᳚त्या अ॒श्विनो᳚ र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्तां᳚ पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै॒ वज्र॑ इव॒ वा ए॒षा यदभ्रि॒रभ्रि॑रसि॒ नारि॑र॒सीत्या॑ह॒ शान्त्यै॒ काण्डे॑ काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञ्ꣳ रक्षाꣳ॑सि जिघाꣳसन्ति॒ परि॑लिखितꣳ॒॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्या- [ ]
पदपाठः (Word-by-word)
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र -स॒वे । इति॑ । अभ्रि᳚म् । एति॑ । द॒त्ते॒ । प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ । अ॒श्विनोः᳚ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । इति॑ । आ॒ह॒ । अ॒श्विनौ᳚ । हि । दे॒वाना᳚म् । अ॒द्ध्व॒र्यू इति॑ । आस्ता᳚म् । पू॒ष्णः । हस्ता᳚भ्याम् । इति॑ । आ॒ह॒ । यत्यै᳚ । वज्रः॑ । इ॒व॒ । वै । ए॒षा । यत् । अभ्रिः॑ । अभ्रिः॑ । अ॒सि॒ । नारिः॑ । अ॒सि॒ । इति॑ । आ॒ह॒ । शान्त्यै᳚ । काण्डे॑काण्ड॒ इति॒ काण्डे᳚ - का॒ण्डे॒ । वै । क्रि॒यमा॑णे । य॒ज्ञ्म् । रक्षाꣳ॑सि । जि॒घाꣳ॒॒स॒न्ति॒ । परि॑लिखित॒मिति॒ परि॑ - लि॒खि॒त॒म् । रक्षः॑ । परि॑लिखिता॒ इति॒ परि॑ - लि॒खि॒ताः॒ । अरा॑तयः । इति॑ । आ॒ह॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

अभ्र्यादानं विधत्ते —

“देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादत्ते प्रसूत्या अश्विनोबार्हुम्यामित्याहाश्विनौ हि देवातामध्वर्यू आस्तां पूष्णो हस्ताभ्यामित्याह यत्यै” [सं. का. ६ प्र. २ अ. १०) इति।

नारिशब्दप्रयोजनमाह —

“वज्र इव वा एषा यदभ्रिरभ्रिरसि नारिरसीत्याह शान्त्यै” (सं. का. ६ प्र. २ अ. १०) इति।

परिलिखितमिति। कल्पः — “तयौदुम्बर्या अवटं परिलिखति परिलिखितरक्षः परिलिखिता अरातय इदमह रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपि कृन्तामीति” इति।

परिलेखनप्रयोजनमाह —

“काण्डेकाण्डे वै क्रियमाणे यज्ञ रक्षासि जिघासन्ति परिलिखित रक्षः परिलिखिता अरातय इत्याह रक्षसामपहत्या इदमह रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि तयोरेवानन्तरायं ग्रीवाः कृन्तति” (सं. का. ६ प्र. २ अ. १०) इति।

औदुम्बरीभागानां(णां) लोकत्रयात्मकत्वं मन्त्रेणाभिप्रेतमित्याह —

“दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेत्याहैभ्य एवैनां लोकेभ्यः प्रोक्षति” (सं. का. ६ प्र. २ अ. १०) इति।

अग्रमारभ्य मूलपर्यन्तं प्रोक्षणं विधत्ते —

“परस्तादर्वाचीं प्रोक्षति तस्मात्परस्तादर्वाचीं मनुष्या उर्जमुप जीवन्ति” (सं. का. ६ प्र. २ अ. १०) इति।

ऊर्ध्ववर्तिनो मुख्या(खा)दारभ्यार्वाचीमुदरावसानम्।

अवनयनं विधत्ते —

“क्रूरमिव वा एतत्करोति यत्खनत्यपोऽव नयति शान्त्यै” (सं. का. ६ प्र. २ अ. १०) इति।

पूर्वोक्तास्वप्सु यवप्रस्कन्दनं विधत्ते —

“यवमतीरव नयत्यूर्ग्वै यव ऊर्गुदुम्बर ऊर्जैवोर्ज समर्थयति” (सं. का. ६ प्र. २ अ. १०) इति।

औदुम्बर्या निखातभागादूध्वर्भागे प्रमाणं विधत्ते —

“यजमानेन संमितौदुम्बरी भवति यावानेव यजमानस्तावतीमेवास्मिन्नूर्जं दधाति” (सं. का. ६ प्र. २ अ. १०) इति।

यजमानस्य यावत्पर्याप्तं तावदन्नं भवतीत्यर्थः।

विधत्ते —

“पितृणा सदनमसीति बर्हिरव स्तृणाति पितृदेवत्यं ह्येतद्यन्निखातम्” ( सं. का. ६ प्र. २ अ. १०) इति।

निखातस्य पितरो देवतेत्यर्थवादान्तरादवगन्तव्यम्।

उच्छ्रयणं विधत्ते —

“यद्बर्हिरनवस्तीर्य मिनुयात्पितृदेवत्या निखाता स्याद्बर्हिरवस्तीर्य मिनोत्यस्यामेवैनां मिनोत्यथो स्वारुहमेवैनां करोति” [सं. का. ६ प्र. २ अ. १०] इति।

यदि बर्हिरस्तीर्त्वा प्रथमत एव तामुच्छ्रयेत्तदा पितृणां निखातं मनुष्याणामूर्ध्वं निखातादित्ययं विभागो न स्यात्किंतु कृत्स्ना पितृदेवत्यैव स्थापिता भवेत्। बर्हिषः पृथिवीजन्यत्वेन तत्पृथिव्यामेव कृतं भवति। किंच स्वसंबद्धामेवैनां करोतीति नोक्तदोषः।

मन्त्रे दिवमित्यादिपदानामुपयोगमाह —

“उद्दिव स्तभानाऽन्तरिक्षं पृणेत्याहैषां लोकानां विधृत्यै” (सं. का. ६ प्र. २ अ. १०) इति।

इतरपरित्यागेन द्युतानस्वीकारकारणमाह —

‘द्युतानस्त्वा मारुतो मिनोत्वित्याह द्युतानो ह स्म वै मारुतो देवानामौदुम्बरीं मिनोति तेनैवैनां मिनोति’ [सं. का. ६ प्र. २ अ. १०] इति।

मन्त्रस्य स्पष्टार्थतां दर्शयति —

‘ब्रह्मवनिं त्वा क्षत्रवनिमित्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. २ अ. १०) इति।

विधत्ते —

“घृतेन द्यावापृथिवी आ पृणेथामित्यौदुम्बर्यां जुहोति द्यावापृथिवी एव रसेनानक्ति” (सं. का. ६ प्र. २ अ. १०) इति।

अग्रे हुतस्याऽऽज्यस्य मूलपर्यन्तातां विधत्ते —

‘आन्तमन्वनस्रावयत्यान्तमेव यजमानं तेजसाऽनक्ति’ (सं. का. ६ प्र. २ अ. १०) इति।

यजमानस्य शिर आरभ्य पादपर्यन्तं तेजः संपादितं भवति।

विधत्ते —

‘एन्द्रमसीति छदिरधि नि दधात्यैन्द्र हि देवतया सदो विश्वजनस्य छायेत्याह विश्वजनस्य ह्येषा छाया यत्सदः’ (सं. का. ६ प्र. २ अ. १०) इति।

इन्द्रस्य सदोऽसीत्ययं मन्त्र उपेक्षितः।

सदस्थानां कामनाभेदेन च्छदिषां संख्यां विधत्ते —

‘नवछदि तेजस्कामस्य मिनुयात्त्रिवृता स्तोमेन संमितं तेजस्त्रिवृत्तेजस्व्येव भवत्येकादशछदीन्द्रियकामस्यैकादशाक्षरा त्रिष्टुगिन्द्रियं त्रिष्टुगिन्द्रियाव्येव भवति पञ्चदशछदि भ्रातृव्यवतः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै सप्तदशछदि प्रजा-

कामस्य सप्तदशः प्रजापतिः प्रजापतेराप्त्यै एकविशतिछदि प्रतिष्ठाकामस्यैकविंशः स्तोमानां प्रतिष्ठा प्रतिष्ठित्यै’ (सं. का. ६ प्र. २ अ. १०) इति।

नवसंख्याकानि च्छदींषि यस्य सदसस्तन्नवछदि मिनुयात्कुर्यात्। त्रिवृत्पञ्चदशसप्तदशैकविंशशब्दैः साम्न आवृत्तिभेदेन निष्पन्ना स्तोमा उच्यन्ते। त्रिवृत्स्तोमे सामावृत्त्यभावेऽपि ऋचां नवत्वात्संख्यासाम्यम्। प्रजापतिमुखादग्निना सहोत्पन्नत्वात्त्रिवृतस्तेजस्त्वम्। वीर्यवतः प्रजापतिबाहुत उत्पन्नतया पञ्चदशस्य वज्रत्वम्। आ श्रावयेत्यादिमन्त्राक्षराणां संख्यया समत्वात्सप्तदशस्य प्रजापतित्वम्। त्रिवृदादीनामन्तर्भावेनैकाविंशस्य प्रतिष्ठात्वम्।

औदुम्बरीस्थापनसदोमण्डपमध्यप्रदेशं विधत्ते —

“उदरं वै सद ऊर्गुदुम्बरो मध्यत औदुम्बरीं मिनोति मध्यत एव प्रजानामूर्जं दधाति तस्मान्मध्यत ऊर्जा भुञ्जते” [सं. का. ६ प्र. २ अ. १०] इति।

दक्षिणदिग्गतच्छदिषामग्राण्युत्तरदिग्गतच्छदिषामुपरि दृश्यमानतया स्थापनीयानीति विधत्ते —

‘यजमानलोके वै दक्षिणानि छदीपि भ्रातृव्यलोक उत्तराणि दक्षिणान्युत्तराणि करोति यजमानमेवायजमानादुत्तरं करोति तस्माद्यजमानोऽयजमानादुत्तरः’ [सं. का. ६ प्र. २ अ. १०] इति।

लोके स्थाने। उत्तर उत्कृष्टः।

छदिषामन्तरालच्छिद्रेषु तृणमूलैराधानं विधत्ते —

“अन्तर्वर्तान्करोति व्यावृत्त्यै तस्मादरण्यं प्रजा उप जीवन्ति” (सं. का. ६ प्र. २ अ. १०) इति।

मूलानां विलक्षणत्वाच्छदिर्भ्यो व्यावृत्तिर्भवति। यस्मात्तृणमरण्यजन्यं तस्मात्तृणकाष्ठलाभाय प्रजा अरण्यमुपजीवन्ति।

मन्त्रस्य स्पष्टार्थतां दर्शयति —

‘परि त्वा गिर्वणो गिर इत्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. २ अ. १०) इति।

व्याचष्टे —

‘इन्द्रस्य स्यूरसीन्द्रस्य ध्रुवमसीत्याहैन्द्र हि देवतया सदः’ (सं. का. ६ प्र. २ अ. १०) इति।

प्रज्ञातग्रन्थेर्विस्त्रंसनं विधत्ते —

‘यं प्रथमं ग्रन्थिं ग्रथ्नीयाद्यत्तं न विस्त्रसयेदमेहेनाध्वर्युः प्र मीयेत तस्मात्स विस्रस्यः’ (सं. का. ६ प्र. २ अ. १०) इति।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 देवस्य त्वेत्यादिविधिः ।। खनित्रमभ्रिं औदुम्बर्यवटपरिलेखनार्थमादत्ते अनेन सावित्रेण मन्त्रेण । तत्प्रसूत्यै सवितुर्देवस्यानुज्ञानाय भवति । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । अश्विनोरित्यादि । गतम् । यत्यै नियतत्वाय तद्भवति । आयुधत्वाद्वज्रतुल्या अभ्रिः । शान्त्या इति । अपां भरणात् 'बिभर्तेरन् रिश्च' इति वचनात् स्त्रीत्वेन चाभ्रीणां शान्तिर्भवति ।।
2 काण्डेकाण्ड इत्यादि ।। व्याख्यातम् । परिलिखितमित्यादि । रक्षसामपहत्यै भवति । पूर्ववद्गतेः प्रकतिस्वरत्वम् ।। इदमहमित्यादि ।। व्याख्यातम् । अनन्तरायं अव्यवधानेन ग्रीवाश्छिनत्ति ।।
3 दिव इत्यादि एभ्यः दिवादिलोकार्थं एनामौदुम्बरीं प्रोक्षति । परस्तादित्यादि । अग्रादारभ्य मूलात्प्रोक्षति । परशब्दादस्तातिः पञ्चम्याः । अर्वागञ्चतीति क्विनि नकाराकारयोर्लुप्तयोः 'चौ' इति पूर्वपदस्य दीर्घत्वम्, अन्तोदात्तत्वं च । ततस्स्वादग्रादारम्य यावन्मूलमन्नं भुञ्जते । यद्वा - परस्तात्प्रक्षिप्तां अर्वाचीमधोगच्छन्तीं मनुष्या भुञ्जते ।।
4 क्रूरमिवेत्यादि ।। गतम् । अवटेऽपोवनयनं शान्त्यै भवति । यवमतीरिति । उभयोरेतद्धेतुत्वादुभयोर्योगस्तत्समृद्ध्यै भवति ।।
5 यजमानेन संमितेति ।। निखातादूर्ध्वमित्याहुः । औदुम्बरी उदुम्बरविकारा । अनुदात्तादेरञ् । यावानिति । यजमानमात्रमन्नमस्मिन्नेव यजमाने दधाति ।।
6 पितृणामिति ।। पितृदेवत्यं निखातं, मन्त्रलिङ्गात्, पितृणां निखातप्रदेशान्तरे दर्शनाच्च । देवतान्तात्तादर्थ्ये यत् । 'तित्स्वरितम्' इति स्वरितत्वम्, 'उदात्तस्वरितयोर्यणः' इति ततः पर एकारस्स्वर्यते । पूर्वत्र सांहितिको दीर्घः अध्ययनविकारः । निखातशब्दे 'जनसनखनां' इति आत्वम्, 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । यदित्यादि । यद्यवटे वर्हिरनवस्तीर्य औदुम्बरीं मिनुयात् प्रक्षिपेत् उच्छ्रयेदिति यावत् । डुमिञ् प्रक्षेपणे । पितृदेवत्या पित्रर्थे उच्छ्रिता औदुम्बरी स्यात् सर्वाऽपि पित्रर्था स्यात् 'पितृणां निखातं मनुष्याणामूर्ध्वं निखातात्' इति विभागो न स्यात् । तस्माद्बर्हिरवस्तीर्य मिनोति अस्यां पृथिव्यामेव एनां मिनोति नावटे । गर्तश्च पितृदेवत्यः । अवटाद्व्यावृत्तेर्यथोक्तदोषाप्रसङ्गः । अथो अपिच स्वारुहं आत्मार्थमारोहितामेतां करोति न पित्रर्थमेव । स्वार्थं रोहन्ती स्वारुट्, सांहितिको दीर्घ: ।।
7 उद्दिवमिति ।। एषां त्रयाणां लोकानां विधारणाय भवति । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ।।
8 द्युतान इति ।। द्युताननामा मारुतः देवानामौदुम्बरीं मिनोति अमिनोत् । मिनोतेर्व्यत्ययेन लट् । तेनैवैनां मिनोति । मापयति वा तेन सहायेन सह विमिनोति ।।
9 ब्रह्मवनिमित्यादि ।। पुरीषेण पर्यूहनम् । त्वं ब्रह्मवननादिसिद्धिः । यथायजुस्तत्फलत्येव । घृतेनेति । द्यावापृथिव्यौ सारवत्यौ करोति । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम्, 'देवताद्वन्द्रे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ।।
10 आन्तमिति ।। आमूलं यजमानमप्यान्तं यूपात् अतस्तेजसाऽनक्ति प्रकाशयति ।।
11 ऐन्द्रमिति ।। देवतातद्धितग्रहणात् 'इन्द्रस्य सदः' हति मन्त्रगता षष्ठी व्याख्यायत इत्येके । शाखान्तरीयं पदं ब्राह्मणं दर्शयतीत्यन्ये । छदिरधि निदधाति छादनार्थं कटमुपरि निदधाति । देवतासम्बन्धेन हि सद ऐन्द्रम् । तस्मादिन्द्रस्य सदः सदनमित्युच्यते इन्द्रस्य प्राधान्यात् ।।
12 विश्वजनस्येति ।। विश्वयोः [पार्श्वयोः] छदिनिधानमन्त्रः । विश्वो जनो विश्वजनः । यो वा कश्चिदागतः तस्य सर्वस्यैषा छाया ग्रहणं यत्सदो नाम ।।
13 नवछदीत्याद्याः काम्याः ।। विश्वजनाद्याः काम्याः । विश्वजनादित्वात्तुगभावः । 'शीलिकामि' इत्यादिना णः, पूर्वपदप्रकृतिस्वरत्वम्, 'अतः कृकमि' इति सत्वम् । त्रिवृतेति । तस्यापि नवस्तोत्रीयत्वान्नवत्वयोगेन तुल्यता । तेजस्त्रिवृदिति । तेजोहेतुत्वात्तेजसा सहोत्पन्नत्वाच्च, यथा - 'तमग्निर्देवताऽन्वसृज्यत' इति । तेजस्व्येव भवति यजमानः ।।
14 एकादशछदीति ।। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्, तत्रापि 'संख्या' इति पूर्वपदप्रकृतिस्वरत्वम् । इन्द्रियं त्रिष्टुगिति । इन्द्रियहेतुत्वादिन्द्रियतुल्यत्वाद्वा इन्द्रियाणामप्येकादशत्वात् । इन्द्रियावी इन्द्रियवान् । 'बहुलं छन्दसि' इति विनिः, 'मन्त्रे सोमाश्व' इति दीर्घत्वं व्यत्ययेनामन्त्रेऽपि भवति ।
15 पञ्चदशो वज्र इति ।। वज्रतुल्यत्वात् वीर्यवत्वाद्वा । तस्माद्वीर्यावन्त इति । 'स्तोमे डविधिः पञ्चदशाद्यर्थे' इति डः, भ्रातृव्याभिभूत्यै । दासीभारादिः ।।
16 सप्तदशः प्रजापतिरिति ।। 'यो वे सप्तदशं प्रजापतिम्' इत्यादिषु प्रसिद्धम् । प्रजापतेराख्या इति । तदाप्तौ हि प्रजास्सिध्यन्त्येवेति ॥
17 एकविंशस्स्तोमानां प्रतिष्ठेति ।। त्रिवृदादीनां ज्योतिषां तत्रान्तर्भावात् प्रतिष्ठित्यै प्रतिष्ठार्थं भवति । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ।।
18 उदरस्थानीयं सदः, ऊर्गन्नं तत्स्थानीयः तद्धेतुत्वादुदुम्बरः । मध्यतः मध्ये । 'आद्यादिभ्यस्तसिः' । मिनोति प्रक्षिपति । तस्मान्मध्यतः मध्यमे उरसि [वयसि] ऊर्जा भुञ्जते भूयिष्ठेन प्रजास्सुखिता भवन्ति ।।
19 यजमानलोक इत्यादि ।। दक्षिणानीति । उत्तराणि स्युः उत्तारकाणि । दक्षिणानि उत्तराणि उद्गततराणि भवन्ति यथोदगग्राणि छदींषि दृश्यन्ते । एवं हि अयजमानाद्भातृव्यादुत्तरं उद्गततरं करोति । तस्मादित्यादि । गतम् । उच्छब्दात् 'साधनक्रियावचने' इत्यादिना तरप् ।।
20 अन्तर्वर्तानिति ।। अन्तर्वर्तयन्तीत्यन्तर्वर्ताः, 'अन्तरपरिग्रहे' इति गतित्वं, पचाद्यचि थाथादिनोत्तरपदान्तोदात्तत्वम् । छदिरन्तर्धानाच्छादिततृणमूलान्युच्यन्ते । आरण्यकतृणकुला नामियं संज्ञेति केचित् । छदिच्छायमुपरि करोति अवस्तात्करोति । तद्व्यावृत्त्यै भवति । केभ्यः? ग्राम्येभ्यः छदिभ्य इति केचित् । अयजमानेभ्यो यजमानस्यैवेत्यन्ये । ग्राम्येभ्यस्तृणादिम्यः आरण्यानामित्यन्ये । तस्मादिति । यस्मादेव यजमानेनारण्यकोपजीवनं क्रियते तस्मादारण्यमपि प्रजा उपजीवन्ति ।।
21 'परित्वा गिर्वणो गिरः' इत्यादिसदःपरिश्रयणमन्त्रः । तेन प्रतिपादितमेवं सर्वं यथायजुर्भवत्येव । पूर्ववदस्य यजुष्ट्वं वेदितव्यम् ।।
22 इन्द्रस्यस्यूरसीत्यादि ।। गतम् । यं प्रथममित्यादि। व्याख्यातम् ।।
इति षष्ठे द्वितीये दशमोनुवाकः ॥