प॒रस्ता॑द॒र्वाचीं᳚ मनु॒ष्या॑ ऊर्ज॒मुप॑ जीवन्ति क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति॒ यत् खन॑त्य॒पोऽव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै॑ यव॒ ऊर्गु॑दु॒बंर॑ ऊ॒र्जैवोर्जꣳ॒॒ सम॑र्द्धयति॒ यज॑मानेन॒ सम्मि॒तौदु॑बंरी भवति॒ यावा॑ने॒व यज॑मान॒स्ताव॑ती-मे॒वास्मि॒-न्नूर्जं॑ दधाति पितृ॒णाꣳ सद॑नम॒सीति॑ ब॒र्॒.हिरव॑ स्तृणाति पितृदेव॒त्या᳚(1॒)ꣳ॒- [ ]
पदपाठः (Word-by-word)
प॒रस्ता᳚त् । अ॒र्वाची᳚म् । म॒नु॒ष्याः᳚ । ऊर्ज᳚म् । उपेति॑ । जी॒व॒न्ति॒ । क्रू॒रम् । इ॒व॒ । वै । ए॒तत् । क॒रो॒ति॒ । यत् । खन॑ति । अ॒पः । अवेति॑ । न॒य॒ति॒ । शान्त्यै᳚ । यव॑मती॒रिति॒ यव॑ - म॒तीः॒ । अवेति॑ । न॒य॒ति॒ । ऊर्क् । वै । यवः॑ । ऊर्क् । उ॒दु॒म्बरः॑ । ऊ॒र्जा । ए॒व । ऊर्ज᳚म् । समिति॑ । अ॒द्र्ध॒य॒ति॒ । यज॑मानेन । सम्मि॒तेति॒ सं - मि॒ता॒ । औदु॑बंरी । भ॒व॒ति॒ । यावान्॑ । ए॒व । यज॑मानः । ताव॑तीम् । ए॒व । अ॒स्मि॒न्न् । ऊर्ज᳚म् । द॒धा॒ति॒ । पि॒तृ॒णाम् । सद॑नम् । अ॒सि॒ । इति॑ । ब॒र्॒.हिः । अवेति॑ । स्तृ॒णा॒ति॒ । पि॒तृ॒दे॒व॒त्य॑मिति॑ पितृ - दे॒व॒त्य᳚म् ।