प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.2.10.4 TS 6.2.10.4
ह्ये॑तद्-यन्निखा॑तं॒ ॅयद्-ब॒र्॒.हिरन॑वस्तीर्य मिनु॒यात् पि॑तृदेव॒त्या॑ निखा॑ता स्याद्-ब॒र्॒.हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैनां᳚ मिनो॒त्यथो᳚ स्वा॒रुह॑मे॒वैनां᳚ करो॒त्युद्-दिवꣳ॑ स्तभा॒नाऽऽन्तरि॑क्षं पृ॒णेत्या॑है॒षां ॅलो॒कानां॒ ॅविधृ॑त्यै द्युता॒नस्त्वा॑ मारु॒तो मि॑नो॒त्वित्या॑ह द्युता॒नो ह॑ स्म॒ वै मा॑रु॒तो दे॒वाना॒मौदु॑बंरीं मिनोति॒ तेनै॒वै- [ ]
पदपाठः (Word-by-word)
हि । ए॒तत् । यत् । निखा॑त॒मिति॒ नि - खा॒त॒म् । यत् । ब॒र्॒.हिः । अन॑वस्ती॒र्येत्यन॑व-स्ती॒र्य॒ । मि॒नु॒यात् । पि॒तृ॒दे॒व॒त्येति॑ पितृ - दे॒व॒त्या᳚ । निखा॒तेति॒ नि - खा॒ता॒ । स्या॒त् । ब॒र॒.हिः । अ॒व॒स्तीर्येत्य॑व- स्तीर्य॑ । मि॒नो॒ति॒ । अ॒स्याम् । ए॒व । ए॒ना॒म् । मि॒नो॒ति॒ । अथो॒ इति॑ । स्वा॒रुह॒मिति॑ स्व-रुह᳚म् । ए॒व । ए॒ना॒म् । क॒रो॒ति॒ । उदिति॑ । दिव᳚म् । स्त॒भा॒न॒ । एति॑ । अ॒न्तरि॑क्षम् । पृ॒ण॒ । इति॑ । आ॒ह॒ । ए॒षाम् । लो॒काना᳚म् । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । द्यु॒ता॒नः । त्वा॒ । मा॒रु॒तः । मि॒नो॒तु॒ । इति॑ । आ॒ह॒ । द्यु॒ता॒नः । ह॒ । स्म॒ । वै । मा॒रु॒तः । दे॒वाना᳚म् । औदु॑बंरीम् । मि॒नो॒ति॒ । तेन॑ । ए॒व ।
पदसंख्या: 50