प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.2.10.5 TS 6.2.10.5
-नां᳚ मिनोति ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वैतद् घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मित्यौदु॑बंर्यां जुहोति॒ द्यावा॑पृथि॒वी ए॒व रसे॑नानक्त्या॒-न्तम॒न्व-व॑स्रावयत्या॒न्तमे॒व यज॑मानं॒ तेज॑सा-नक्त्यै॒न्द्रम॒सीति॑ छ॒दिरधि॒ नि द॑धात्यै॒न्द्रꣳ हि दे॒वत॑या॒ सदो॑ विश्वज॒नस्य॑ छा॒येत्या॑ह विश्वज॒नस्य॒ ह्ये॑षा छा॒या यथ् सदो॒ नव॑छदि॒- [ ]
पदपाठः (Word-by-word)
ए॒ना॒म् । मि॒नो॒ति॒ । ब्र॒ह्म॒वनि॒मिति॑ ब्रह्म - वनि᳚म् । त्वा॒ । क्ष॒त्र॒वनि॒मिति॑ क्षत्र - वनि᳚म् । इति॑ । आ॒ह॒ । य॒था॒य॒जु॒रिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । घृ॒तेन॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा-पृ॒थि॒वी॒ । एति॑ । पृ॒णे॒था॒म् । इति॑ । औदु॑बंर्याम् । जु॒हो॒ति॒ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । ए॒व । रसे॑न । अ॒न॒क्ति॒ । आ॒न्तमित्या᳚ - अ॒न्तम् । अ॒न्वव॑स्रावय॒तीय॑नु -अव॑स्रावयति । आ॒न्तमित्या᳚-अ॒न्तम् । ए॒व । यज॑मानम् । तेज॑सा । अ॒न॒क्ति॒ । ऐ॒न्द्रम् । अ॒सि॒ । इति॑ । छ॒दिः । अधि॑ । नीति॑ । द॒धा॒ति॒ । ऐ॒न्द्रम् । हि । दे॒वत॑या । सदः॑ । वि॒श्व॒ज॒नस्येति॑ विश्व - ज॒नस्य॑ । छा॒या । इति॑ । आ॒ह॒ । वि॒श्व॒ज॒नस्येति॑ विश्व - ज॒नस्य॑ । हि । ए॒षा । छा॒या । यत् । सदः॑ । नव॑छ॒दीति॒ नव॑ - छ॒दि॒ ।
पदसंख्या: 50