मद्ध्य॒त ऊ॒र्जा भु॑ञ्जते यजमानलो॒के वै दक्षि॑णानि छ॒दीꣳषि॑ भ्रातृव्यलो॒क उत्त॑राणि॒ दक्षि॑णा॒न्युत्त॑राणि करोति॒ यज॑मान-मे॒वा-य॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द् यज॑मा॒नोऽय॑जमाना॒दुत्त॑रो ऽन्तर्व॒र्तान् क॑रोति॒ व्यावृ॑त्त्यै॒ तस्मा॒दर॑ण्यं प्र॒जा उप॑ जीवन्ति॒ परि॑ त्वा गिर्वणो॒ गिर॒ इत्या॑ह यथाय॒जुरे॒वैतदिन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॒सीत्या॑है॒न्द्रꣳ हि दे॒वत॑या॒ सदो॒ ( ) यं प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒याद्यत् तं न वि॑स्रꣳ॒॒ सये॒दमे॑हेनाद्ध्व॒र्युः प्रमी॑येत॒ तस्मा॒थ् स वि॒स्रस्यः॑ ॥
पदपाठः (Word-by-word)
म॒द्ध्य॒तः । ऊ॒र्जा । भु॒ञ्ज॒ते॒ । य॒ज॒मा॒न॒लो॒क इति॑ यजमान - लो॒के । वै । दक्षि॑णानि । छ॒दीꣳषि॑ । भ्रा॒तृ॒व्य॒लो॒क इति॑ भ्रातृव्य - लो॒के । उत्त॑रा॒णीत्युत् - त॒रा॒णि॒ । दक्षि॑णानि । उत्त॑रा॒णीत्युत् - त॒रा॒णि॒ । क॒रो॒ति॒ । यज॑मानम् । ए॒व । अय॑जमानात् । उत्त॑र॒मित्युत् - त॒र॒म् । क॒रो॒ति॒ । तस्मा᳚त् । यज॑मानः । अय॑जमानात् । उत्त॑र॒ इत्युत् - त॒रः॒ । अ॒न्त॒र्व॒र्तानित्य॑न्तः - व॒र्तान् । क॒रो॒ति॒ । व्यावृ॑त्त्या॒ इति॑ वि-आवृ॑त्त्यै । तस्मा᳚त् । अर॑ण्यम् । प्र॒जा इति॑ प्र - जाः । उपेति॑ । जी॒व॒न्ति॒ । परीति॑ । त्वा॒ । गि॒र्व॒णः॒ । गिरः॑ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । इन्द्र॑स्य । स्यूः । अ॒सि॒ । इन्द्र॑स्य । ध्रु॒वम् । अ॒सि॒ । इति॑ । आ॒ह॒ । ऐ॒न्द्रम् । हि । दे॒वत॑या । सदः॑ ( ) । यम् । प्र॒थ॒मम् । ग्र॒न्थिम् । ग्र॒थ्नी॒यात् । यत् । तम् । न । वि॒स्रꣳ॒॒सये॒दिति॑ वि - स्रꣳ॒॒सये᳚त् । अमे॑हेन् । अ॒द्ध्व॒र्युः । प्रेति॑ । मी॒ये॒त॒ । तस्मा᳚त् । सः । वि॒स्रस्य॒ इति॑ वि - स्रस्यः॑ ॥