प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.2.11.1 TS 6.2.11.1
शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॒ यद्ध॑वि॒र्द्धानं॑ प्रा॒णा उ॑पर॒वा ह॑वि॒र्द्धाने॑ खायन्ते॒ तस्मा᳚च्छी॒र्॒.षन् प्रा॒णा अ॒धस्ता᳚त् खायन्ते॒ तस्मा॑द॒धस्ता᳚च्छीर्ष्णः प्रा॒णा र॑क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान् ख॑ना॒मीत्या॑ह वैष्ण॒वा हि दे॒वत॑योपर॒वा असु॑रा॒ वै नि॒र्यन्तो॑ दे॒वानां᳚ प्रा॒णेषु॑ वल॒गान् न्य॑खन॒न् तान् बा॑हुमा॒त्रेऽन्व॑विन्द॒न् तस्मा᳚द् बाहुमा॒त्राः खा॑यन्त इ॒दम॒हं तं ॅव॑ल॒गमुद्व॑पामि॒- [ ]
पदपाठः (Word-by-word)
शिरः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । ह॒वि॒द्‌र्धान॒मिति॑ हविः-धान᳚म् । प्रा॒णा इति॑ प्र - अ॒नाः । उ॒प॒र॒वा इत्यु॑प - र॒वाः । ह॒वि॒द्‌र्धान॒ इति॑ हविः-धाने᳚ । खा॒य॒न्ते॒ । तस्मा᳚त् । शी॒र्॒.षन्न् । प्रा॒णा इति॑ प्र-अ॒नाः । अ॒धस्ता᳚त् । खा॒य॒न्ते॒ । तस्मा᳚त् । अ॒धस्ता᳚त् । शी॒र्ष्णः । प्रा॒णा इति॑ प्र-अ॒नाः । र॒क्षो॒हण॒ इति॑ रक्षः-हनः॑ । व॒ल॒ग॒हन॒ इति॑ वलग-हनः॑ । वै॒ष्ण॒वान् । ख॒ना॒मि॒ । इति॑ । आ॒ह॒ । वै॒ष्ण॒वाः । हि । दे॒वत॑या । उ॒प॒र॒वा इत्यु॑प - र॒वाः । असु॑राः । वै । नि॒र्यन्त॒ इति॑ निः - यन्तः॑ । दे॒वाना᳚म् । प्रा॒णेष्विति॑ प्र - अ॒नेषु॑ । व॒ल॒गानिति॑ वल-गान् । नीति॑ । अ॒ख॒न॒न्न् । तान् । बा॒हु॒मा॒त्र इति॑ बाहु-मा॒त्रे । अन्विति॑ । अ॒वि॒न्द॒न्न् । तस्मा᳚त् । बा॒हु॒मा॒त्रा इति॑ बाहु - मा॒त्राः । खा॒य॒न्ते॒ । इ॒दम् । अ॒हम् । तम् । व॒ल॒गमिति॑ वल - गम् । उदिति॑ । व॒पा॒मि॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

विधत्ते —

‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा उपरवा हविर्धाने खायन्त तस्माच्छीर्षन्प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।

उपरवबिलानां श्रोत्रनासिकादिच्छिद्रगतप्राणस्थानीयत्वाच्छिरःस्थानीये हविर्धाने खननं युक्तम्।

विधत्ते —

‘अधस्तात्खायन्ते तस्मादधस्ताच्छीर्ष्णः’ [सं. का. ६ प्र. २ अ. ११] इति।

यस्माद्धविर्धानस्याधोभागे भूमावुपरवास्तस्माल्लोकेऽपि शिरस्यूर्ध्वकपालदध एव प्राणसंचारः।

वैष्णवानिति तद्धितो देवतावाचीत्याह —

‘रक्षोहणो वलगहनो वैष्णवान्खनामीत्याह वैष्णवा हि देवतयोपरवाः’ (सं. का. ६ प्र. २ अ. ११) इति।

वितस्तित्रयप्रमाणं विधत्ते –

‘असुरा वै निर्यन्तो देवानां प्राणेषु वलगान्न्यखनन्तान्बाहुमात्रेऽन्वविन्दन्तस्माद्बाहुमात्राः खायन्ते’ (सं. का. ६ प्र. २ अ. ११) इति।

निर्यन्तः पलायनोद्युक्ताः। प्राणविनाशनिमित्तम्। न्यखनन्निति नितरां भूमावन्तर्धापितवन्तः।

अशेषशात्रुसंग्रहाय समानासमानशब्दावुभावप्युपादेयावित्याह —

‘इदमहं तं वलगमुद्वपामि यं नः समानो यमसमानो निचखानेत्याह द्वौ वाव पुरुषौ यश्चैव समानो यश्चासमानो यमेवास्मै तौ वलगं निखनतस्तमेवोद्वपति” (सं. का. ६ प्र. २ अ. ११) इति।

चतुर्णामुपरवाणामधस्तादेकीकरणं विधत्ते —

‘सं तृणत्ति तस्मात्संतृण्णा अन्तरतः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।

प्राणापानचक्षुःश्रोत्रादयः सर्वेऽपि शरीरस्याभ्यन्तरे हृद्येकीभूय वर्तन्ते।

तदुपरि चतुर्णां पृथक्करणं विधत्ते —

‘न सं भिनत्ति तस्मादसंभिन्नाः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।

संभेद एकीभावस्तं न कुर्यात्। प्राणाश्च बहिः स्वस्वगोलकेषु तिष्ठन्तो नैकी भवन्ति।

प्रोक्षणशेषस्य जलस्योपरवदेशेऽवनयनं विधत्ते —

‘अपोऽव नयति तस्मादार्द्रा अन्तरतः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।

मुखनासिकाचक्षुरादिगोलकेषु द्रवदर्शनात्प्राणानामार्द्रत्वम्।

अवनीते जले यवप्रक्षेपं विधत्ते —

‘यवमतीरव नयत्यूर्ग्वै यवः प्राणा उपरवाः प्राणेष्वेवोर्जं दधाति’ (सं. का. ६ प्र. २ अ. ११) इति।

या अपोऽवनयति ता यवयुक्ताः कुर्यादिति योजना।

उपरवेषु दर्भप्रक्षेपणं विधत्ते —

‘बर्हिरव स्तृणाति तस्माल्लोमशा अन्तरतः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।

अक्षिपक्ष्मनासिकादिषु लोमदर्शनाल्लोमशत्वम्।

होमं विधत्ते —

‘आज्येन व्याघारयति तेजो वा आज्यं प्राणा उपरवाः प्राणेष्वेव तेजो दधाति’ (सं. का. ६ प्र. २ अ. ११) इति।

फलकयोरत्यन्तसंश्लेषं निषेधति —

‘हनू वा एते यज्ञस्य यदधिषवणे न सं तृणत्त्यसंतृण्णे हि हनू’ [सं. का. ६ प्र. २ अ. ११] इति।

हनू मुखस्याऽऽधारफलके सोमाभिषवाधारफलके। संतर्दनं रज्जुबन्धनादिना दृढसंश्लेषस्तमत्र न कुर्यात्।

तद्द्विरात्रादौ प्रसङ्गाद्विधत्ते –

‘अथो खलु दीर्घसोमे संतृद्ये धृत्यै’ (सं. का. ६ प्र. २ अ. ११) इति। आवृत्तत्वात्सोमस्य दीर्घत्वम्। अभिषवबाहुल्याद्दार्ढ्यार्थं तत्र संतर्दनम्।

अथ रूपकेणोपरवान्प्रशंसन्प्रसङ्गात्सनिमित्तं सदसि सोमभक्षणं विधत्ते —

‘शिरो वा एतद्याज्ञस्य यद्धविर्धानं प्राणा उपरवा हनू अधिषवणे जिह्वा चर्म ग्रावाणो दन्ता मुखमाहवनीयो नासिकोत्तरवेदिरुदर सदो यदा खलु वै जिह्वया दत्स्वधि खादत्यथ मुखं गच्छति यदा मुखं गच्छत्यथोदरं गच्छति तस्माद्धविर्धाने चर्मन्नधि ग्रावभिषुत्याऽऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति’ [सं. का. ६ प्र. २ अ. ११] इति।

अत्राभिषवहोमौ विधेयस्य भक्षणस्य निमित्तम्।

पुनरप्युपरवस्तुत्यै प्रकारान्तरेण रूपकं परिकल्प्य तद्वेदनं प्रशंसति —

‘यो वै विराजो यज्ञमुखे दोहं वेद दुह एवैनामियं वै विराट्तस्यै त्वक्चर्मोधोऽधिषवणे स्तना उपरवा ग्रावाणो वत्सा ऋत्विजो दुहन्ति सोमः पयो य एवं वेद दुह एवैनाम्’ (सं. का. ६ प्र. २ अ. ११) इति।

अग्निष्टोमे द्वादशसु स्तोत्रेषु विद्यमाना ऋच आवर्त्यमानाः सत्यो नवतिः संपद्यन्ते। तत्र नवसु दशकेषु प्रत्येकं विराट्छन्दोऽक्षरसंख्याऽस्तीत्ययं यज्ञो विराडित्युच्यते। एतदेवाभिप्रेत्य सप्तमकाण्डस्य प्रथमानुवाके समाम्नायते ‘विराजमभिसंपद्यते’ इति। सोऽयं यज्ञो विराडत्र कामधेनुत्वेन निरूप्यते। इयं च महावेदिरेव विराडाख्या धेनुस्तस्या धेनोर्या त्वक्तदिदमास्तृतं चर्म। ऊध आपीनभारः। तद्रूपं फलकद्वयम्। एवमन्यद्योज्यम्। परेद्युः कर्तव्यस्य यज्ञस्यायं कल्पः प्रारम्भोऽन्तःपातित्वान्मुखं, तस्मिन्मुखे विराजो धेनोर्दोहनप्रकारं यो वेद स एनां कामधेनुं सर्वथा दुग्धे। य एवं वेद दुह एवैनामिति पुनर्वचनमुपसंहारार्थम्। सेयमुपरवप्रशंसेति केचित्। स्वतन्त्रोपास्तिविधिरित्यन्ये। यथा सप्तमकाण्डान्तेऽश्वमेधप्रकरणे — ‘उषा वा अश्वस्य मेध्यस्य शिरः’ इति स्वतन्त्रोपास्तिराम्नाता तद्वत्। तस्याश्च स्वातन्त्र्यं बृहदारण्यकस्याऽऽदौ विस्पष्टम्। एतादृशानां वाक्यानां कर्मप्रकरणादुत्कर्ष उत्तरमीमांसायां गुणोपसंहारे मनश्चिदाद्यधिकरणे निर्णीतः। तस्मात्दुत्कर्षे स्वातन्त्र्यमनुत्कर्षे तु स्तुतित्वेनोपरववाक्याङ्गत्वमित्याकारद्वयमभ्युपेयम्। अवेष्टेश्चातुर्मास्यानां च राजसूयान्तःप्रयोगबहिष्प्रयोगो(गौ) यथा तद्वदेतद्द्रष्टव्यम्।

—----------------------------

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 शिरो वा इति ।। प्राणाः नासिकादयः । तत्स्थानीया उपरवाः । तस्मात्ते शिरस्थानीये हविर्धाने खायन्ते खनितव्याः इति विधिः । उपरवा नाम बिलविशेषाः प्रादेशमुखाः प्रादेशान्तराळाः । तस्माच्छीर्षन् प्राणाः नासिकादयः । अधस्ताच्च तस्य खायन्ते इति विधिः । 'ये विभाषा' इत्यात्वम् । तस्माच्छीर्ष्णः अधस्तात्प्राणाः ।।
2 रक्षोहण इत्यादि ।। देवतासंबन्धेन वैष्णवाः उपरवा भवन्ति; मन्त्रलिङ्गात् ।।
3 असुरा इत्यादि ।। निर्यन्तः स्वयं नश्यन्तः देवानां प्राणेषु प्राणनिमित्तं प्राणाभावनिमित्तमिति यावत् । देवानां प्राणान्विनाशयितुं वलगान्यखनन् निखातवन्तः । वलगा नाम वलनाम्ना असुरराजेन दृष्टाः परमाराणप्रयोजनार्थं घटपटादिनिक्षिप्तास्थिरोमनखादिविविधामङ्गलद्रव्यसंभाररूपा भूमावन्तर्हिता उच्यन्ते । तान् वलगान् देवा बाहुमात्रे अन्वविन्दन् लब्धवन्तः असुरैः प्रयुक्तान् ज्ञात्वा गृहीतवन्तः । तस्मादुपरवा बाद्वुमात्राः खायन्ते इति विधिः । बाडुप्रमाणान् बाहुमात्रा मानं प्रमाणम् ।।
4 इदमहमित्यादिपांसूद्वापनमन्त्रः ।। द्वौ एतौ पुरुषौ यश्च यजमानस्य विद्यावित्तसौभाम्यादिभिस्समानः तुल्यः यश्चासमान ऊनः उत्कृष्टो वा तौ वलगं अस्मै यजमानाय यजमानविनाशार्थं निखनतः, तमुद्वपत्येव ।।
5 सतृणत्तीति विधिः ।। सन्तर्जनमधस्तादेकीकरणम्, उ तृदिर् हिंसानादरयोः, रौधादिकः । तस्मात्सन्तृण्णाः अभ्यन्तरे एकीभूताः प्राणा नासिकादयः । अकर्मणि निष्ठायामपि व्यत्ययेन गतेः प्रकृतिस्वरत्वम् ।।
6 न सम्भिनत्तीति विधिः ।। बहिर्नैकीकरोतीत्यर्थः । तस्माद्बहिरसंभिन्नाः प्राणाः नासिकादयः पृथगधिष्ठाना एव वर्तन्ते ।।
7 अपोवनयति तेषूपरवेष्विति विधिः ।। तस्मादभ्यन्तरे आर्द्राः । यवमतीरित्यादि । ऊर्गन्नं यवः प्राणस्थानीयेषूपरवेषु तं दधाति यवमतीनामपामवनयने ।।
8 बर्हिरवस्तृणात्यवटेष्विति विधिः ।। तस्माल्लोमशाः लोमवन्तः अन्तरतः ।।
9 आज्येनेत्यादि ।। प्राणेषु तेजः तेजनं सामर्थ्यातिशयं दधाति ।।
10 हनू इत्यादि ।। यस्मादसन्तृण्णे हनू तस्मात् अधिषवणफलके न संतृणत्ति विध्वा प्रोते न करोति । एवं हि हनुत्वं भवति । अथो खल्विति । दीर्घसोमे द्विरात्रादौ ते सन्तृद्ये विद्ध्वैव सन्धातव्ये श्लेषयितव्ये धृत्यै यावदभिषवणं तावद्धारणार्थम् । 'ऋदुपधाच्च' इति तृणातेः क्विप् । उक्थादि दीर्घसोम इत्यन्ये । स्तोमपृथुमान् [सौमप्रथिमा दैर्घ्यम्] ।।
11 शिर इत्यादि रूपकम् ।। शिर इव भवति हविर्धानं यज्ञात्मनः पुरुषस्य प्राधान्यान् तत्राधस्तना उपरवास्तस्य प्राणपदव्यां वर्तन्ते तत्सकाशस्थिते अधिषवणफलके तस्य हनुसंकाशे दृश्येते, विधारकत्वात् । तत्रास्तीर्णं चर्म तस्य जिह्वेव भाति, कुट्टनाद्याधारकत्वात् । तत्र निषण्णा ग्रावाणः तस्य दन्ता इव राजन्ते, कुट्टनादिकारकत्वात् । तस्य मुखं आस्यमिवाहवनीयोग्निः प्रकाशते, हविषामदनीयानां प्रक्षेपात् । तस्य नासिकेव उत्तरवेदिः उत्तरनाभिरिवभाति, हविर्गन्धना[र्गन्धा]देस्तत्र व्यक्तीकरणात् । तस्योदरमिव सदस्सन्दृश्यते, तत्र सर्वभक्षाणां सन्निधानात् । इदं स्पष्टतरं प्रदर्शयितुं लौकिकभोक्तरि तावद्दशर्यति - यदा खलु वा इति । यदा खलु जिह्वया दत्सु दन्तेषु अधिखादति अधि उपरि क्रियते अभ्यवहार्यं अथ पुरुषः खादति, अथानन्तरं मुखं गच्छति यदा मुखं गच्छति अथ तदानीमेव तदुदरं गच्छति । एतद्यज्ञपुरुषे योजयति - तस्मादिति । एतेनैव क्रमेण शिरस्थानीये हविर्धाने जिह्वास्थानीये चर्मणि दन्तस्थानीयैर्ग्रावभिः अभिषुत्याहवनीये आस्यस्थानीये हुत्वा प्रक्षिप्य प्रत्यञ्चः परेत्य उदरस्थानीये सदसि भक्षयन्ति भक्षणमाचरन्ति ऋत्विजः । एवमृत्विग्भक्षणान्तो यज्ञपुरुषव्यापारो रूप्यते । अन्य आहुः - आस्यस्थमिये प्रक्षिप्तस्य उदरं प्रविष्टस्य पुनश्चर्वणस्थानीयं भक्षणं तदभिनयमृत्विजः कुर्युरिति ।।
12 एवमिदं विधीयते - यो वै विराज इत्यादि ।। शिर आदिरूपकान्तं यज्ञमुखे यज्ञारम्भे यो विराजो यज्ञैर्दोहं वेद एनां विराजं दुहे दुग्धे उपक्रम एव तस्या ज्ञानत् तां दोग्धुं प्रभवतीति । विराजोन्नस्य हेतुत्वादियं विराट् । यद्वा - इयं विराट्संख्या संपद्यते, नवतिशतस्तोत्रीयत्वात् । तस्माद्वा इयं यज्ञभूत्यै धेनुर्विराडित्युच्यते ।।
13 इदानीं तां रूपद्वयीमवगमयति - यावदेव यजनभूमीषु विराट् धेनुस्थानीया तस्यै तस्याः त्वक्स्थानीयं चर्म त्वगिति पय आवपनमुच्यते । ऊधः आपीनभारः । तत्स्थानीये अधिषवणे त्वचोभावात्, स्तनस्थानीया उपरवाः प्रस्नवनवत्त्वात् । वत्सस्थानीया ग्रावाणः रसनिष्कासनहेतोः उपजनस्य कारणत्वात् । ऋत्विजो दुहन्ति विविधमन्त्रप्रयोगिणः ऋत्विजः दोग्धृस्थानीया भवन्ति । सोमः पयस्स्थानीयः । य एवमेनां यज्ञधेनुं वेद सोपि तां दुहे दुग्धे । 'लोपस्त आत्मनेपदेषु' इति तलोपः । यद्वृत्तयोगात्प्रथममाख्यातं न निहन्यते, द्वितीयं तु तिङः परत्वाद्वाक्यादित्वाद्वा ।।
इति भट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये षष्ठे काण्डे द्वितीयप्रश्ने एकादशोनुवाकः ॥

प्रश्नश्च समाप्तः ॥

……………………………………………………………………………………………………………

प्रश्नः-3