-त्यूर्ग्वै यवः॑ प्रा॒णा उ॑पर॒वाः प्रा॒णेष्वे॒वोर्जं॑ दधाति ब॒र्॒.हिरव॑ स्तृणाति॒ तस्मा᳚ल्लोम॒शा अ॑न्तर॒तः प्रा॒णा आज्ये॑न॒ व्याघा॑रयति॒ तेजो॒ वा आज्यं॑ प्रा॒णा उ॑पर॒वाः प्रा॒णेष्वे॒व तेजो॑ दधाति॒ हनू॒ वा ए॒ते य॒ज्ञ्स्य॒ यद॑धि॒षव॑णे॒ न सं तृ॑ण॒त्त्य स॑तृंण्णे॒ हि हनू॒ अथो॒ खलु॑ दीर्घसो॒मे स॒तृंद्ये॒ धृत्यै॒ शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॒ यद्ध॑वि॒र्द्धानं॑- [ ]
पदपाठः (Word-by-word)
ऊर्क् । वै । यवः॑ । प्रा॒णा इति॑ प्र - अ॒नाः । उ॒प॒र॒वा इत्यु॑प-र॒वाः । प्रा॒णेष्विति॑ प्र - अ॒नेषु॑ । ए॒व । ऊर्ज᳚म् । द॒धा॒ति॒ । ब॒र्॒.हिः । अवेति॑ । स्तृ॒णा॒ति॒ । तस्मा᳚त् । लो॒म॒शाः । अ॒न्त॒र॒तः । प्रा॒णा इति॑ प्र - अ॒नाः । आज्ये॑न । व्याघा॑रय॒तीति॑ वि - आघा॑रयति । तेजः॑ । वै । आज्य᳚म् । प्रा॒णा इति॑ प्र - अ॒नाः । उ॒प॒र॒वा इत्यु॑प - र॒वाः । प्रा॒णेष्विति॑ प्र - अ॒नेषु॑ । ए॒व । तेजः॑ । द॒धा॒ति॒ । हनू॒ इति॑ । वै । ए॒ते इति॑ । य॒ज्ञ्स्य॑ । यत् । अ॒धि॒षव॑णे॒ इत्य॑धि-सव॑ने । न । समिति॑ । तृ॒ण॒त्ति॒ । अस॑तृंण्णे॒ इत्यसं᳚ - तृ॒ण्णे॒ । हि । हनू॒ इति॑ । अथो॒ इति॑ । खलु॑ । दी॒र्घ॒सो॒म इति॑ दीर्घ - सो॒मे । स॒तृंद्ये॒ इति॑ सं-तृद्ये᳚ । धृत्यै᳚ । शिरः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । ह॒वि॒द्र्धान॒मिति॑ हविः - धान᳚म् ।