प्रा॒णा उ॑पर॒वा हनू॑ अधि॒षव॑णे जि॒ह्वा चर्म॒ ग्रावा॑णो॒ दन्ता॒ मुख॑माहव॒नीयो॒ नासि॑को-त्तरवे॒दि-रु॒दरꣳ॒॒ सदो॑ य॒दा खलु॒ वै जि॒ह्वया॑ द॒थ्स्वधि॒ खाद॒त्यथ॒ मुखं॑ गच्छति य॒दा मुखं॒ गच्छ॒त्यथो॒दरं॑ गच्छति॒ तस्मा᳚द्धवि॒र्द्धाने॒ चर्म॒न्नधि॒ ग्राव॑भिरभि॒षुत्या॑ऽऽ*हव॒नीये॑ हु॒त्वा प्र॒त्यञ्चः॑ प॒रेत्य॒ सद॑सि भक्षयन्ति॒ यो वै वि॒राजो॑ यज्ञ्मु॒खे दोहं॒ ॅवेद॑ दु॒ह ए॒वै ( ) ना॑मि॒यं ॅवै वि॒राट् तस्यै॒ त्वक् चर्मोधो॑ऽधि॒षव॑णे॒ स्तना॑ उपर॒वा ग्रावा॑णो व॒थ्सा ऋ॒त्विजो॑ दुहन्ति॒ सोमः॒ पयो॒ य ए॒वं ॅवेद॑ दु॒ह ए॒वैनां᳚ ॥
पदपाठः (Word-by-word)
प्रा॒णा इति॑ प्र - अ॒नाः । उ॒प॒र॒वा इत्यु॑प - र॒वाः । हनू॒ इति॑ । अ॒धि॒षव॑णे॒ इत्य॑धि - सव॑ने । जि॒ह्वा । चर्म॑ । ग्रावा॑णः । दन्ताः᳚ । मुख᳚म् । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ । नासि॑का । उ॒त्त॒र॒वे॒दिरित्यु॑त्तर - वे॒दिः । उ॒दर᳚म् । सदः॑ । य॒दा । खलु॑ । वै । जि॒ह्वया᳚ । द॒थ्स्विति॑ दत् -सु । अधीति॑ । खाद॑ति । अथ॑ । मुख᳚म् । ग॒च्छ॒ति॒ । य॒दा । मुख᳚म् । गच्छ॑ति । अथ॑ । उ॒दर᳚म् । ग॒च्छ॒ति॒ । तस्मा᳚त् । ह॒वि॒द्र्धान॒ इति॑ हविः - धाने᳚ । चर्मन्न्॑ । अधीति॑ । ग्राव॑भि॒रिति॒ ग्राव॑ - भिः॒ । अ॒भि॒षुत्येत्य॑भि - सुत्य॑ । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीये᳚ । हु॒त्वा । प्र॒त्यञ्चः॑ । प॒रेत्येति॑ परा - इत्य॑ । सद॑सि । भ॒क्ष॒य॒न्ति॒ । यः । वै । वि॒राज॒ इति॑ वि - राजः॑ । य॒ज्ञ्॒मु॒ख इति॑ यज्ञ् - मु॒खे । दोह᳚म् । वेद॑ । दु॒हे । ए॒व ( ) । ए॒ना॒म् । इ॒यम् । वै । वि॒राडिति॑ वि - राट् । तस्यै᳚ । त्वक् । चर्म॑ । ऊधः॑ । अ॒धि॒षव॑णे॒ इत्य॑धि-सव॑ने । स्तनाः᳚ । उ॒प॒र॒वा इत्यु॑प - र॒वाः । ग्रावा॑णः । व॒थ्साः । ऋ॒त्विजः॑ । दु॒ह॒न्ति॒ । सोमः॑ । पयः॑ । यः । ए॒वम् । वेद॑ । दु॒हे । ए॒व । ए॒ना॒म् ॥