प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.2.3.1 TS 6.2.3.1
तेषा॒मसु॑राणां ति॒स्रः पुर॑ आस-न्नय॒स्म-य्य॑व॒माऽथ॑ रज॒ताऽथ॒ हरि॑णी॒ ता दे॒वा जेतुं॒ नाश॑क्नुव॒न् ता उ॑प॒सदै॒वाजि॑गीष॒न् तस्मा॑दाहु॒र्यश्चै॒वं ॅवेद॒ यश्च॒ नोप॒सदा॒ वै म॑हापु॒रं ज॑य॒न्तीति॒ त इषुꣳ॒॒ सम॑स्कुर्वता॒- ग्निमनी॑कꣳ॒॒ सोमꣳ॑ श॒ल्यं ॅविष्णुं॒ तेज॑नं॒ ते᳚ऽब्रुव॒न् क इ॒माम॑सिष्य॒तीति॑- [ ]
पदपाठः (Word-by-word)
तेषा᳚म् । असु॑राणाम् । ति॒स्रः । पुरः॑ । आ॒स॒न्न् । अ॒य॒स्मयी᳚ । अ॒व॒मा । अथ॑ । र॒ज॒ता । अथ॑ । हरि॑णी । ताः । दे॒वाः । जेतु᳚म् । न । अ॒श॒क्नु॒व॒न्न् । ताः । उ॒प॒सदेत्यु॑प - सदा᳚ । ए॒व । अ॒जि॒गी॒ष॒न्न् । तस्मा᳚त् । आ॒हुः॒ । यः । च॒ । ए॒वम् । वेद॑ । यः । च॒ । न । उ॒प॒सदेत्यु॑प - सदा᳚ । वै । म॒हा॒पु॒रमिति॑ महा - पु॒रम् । ज॒य॒न्ति॒ । इति॑ । ते । इषु᳚म् । समिति॑ । अ॒कु॒र्व॒त॒ । अ॒ग्निम् । अनी॑कम् । सोम᳚म् । श॒ल्यम् । विष्णु᳚म् । तेज॑नम् । ते । अ॒ब्रु॒व॒न्न् । कः । इ॒माम् । अ॒सि॒ष्य॒ति॒ । इति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

त्रीनेतानुपसद्धोमान्विधातुं प्रस्तौति -

'तेषामसुराणां तिस्रः पुर आसन्नयस्मय्यवमाऽथ रजताऽथ हरिणी ता देवा जेतुं नाशक्नुवन्ता उपसदैवाजिगीषन्तस्मादाहुर्यश्चैवं वेद यश्च नोपसदा वै महापुरं जयन्तीति त इषुं समस्कुर्वताग्निमनीकं सोमं शल्यं विष्णुं तेजनं तेऽब्रुवन्क इमामसिष्यतीति रुद्र इत्यब्रुवन्रुद्रो वै क्रूरः सोऽस्यत्विति सोऽब्रवीद्वरं वृणा अहमेव पशूनामधिपतिरसानीति तस्माद्रुद्रः पशूनामधिपतिस्ता रुद्रोऽवासृजत्स तिस्रः पुरो भित्त्वैभ्यो लोकेभ्योऽसुरान्प्राणुदत' इति ।

ये पूर्वमग्निना वरूथेन पराभूता असुरास्तेषामसुराणां पृथिव्यन्तरिक्षद्युलोकेषु स्वरक्षार्थं तिस्रः पुरो दुर्गरूपा आसन् । तासु पृथिवीवर्तिनी लोहप्राकारवेष्टिता । अन्तरिक्षवर्तिनी रजतप्राकारवेष्टिता । द्युलोकवर्तिनी हिरण्यप्राकारवेष्टिता । तादृशीः पुरो देवा अग्निना वरूथेनापि जेतुमशक्ता युद्धं परित्यज्योपसदैव जेतुमैच्छन् । दुर्गं परितोऽवरुध्य चिरं तत्समीपेऽवस्थाय तमुप(पा)वसन् । चिरकालावस्थाने सति दुर्गमध्येऽन्नपानादिक्षयादन्तर्भेदाद्वा जयो भव[ती]ति । यस्माद्देवैश्चिरवासो जयोपायत्वेन विचारितस्तस्माल्लोकेऽप्याहुः । के किमाहुः? यश्च ब्राह्मणादिर्वेदाध्ययनेन वेदविचारं जानाति यश्च शूद्रादिर्न जानाति ते सर्वेऽपि युद्धेनाजेयं महापुरमुपसदा जेतुं शक्यमित्याहुः । ततो देवाः कालविलम्बो मा भूदिति विचार्य युद्धेनैव जेतुमिषुं संस्कृतवन्तः । अग्निं सोमं विष्णुं च संभूयैकबाणं कृत्वा तेन जेतुमुद्युक्ताः । अनीकशब्दो बाणस्य प्रथमभागकाष्ठमाचष्टे, शल्यशब्दो लोहं, तेजनशब्दस्तदग्रम् । तामिमां देवतात्रयसमष्टिरूपामिषुं स्त्रीबालसहितकृत्स्नासुरघातिनीं को नाम मोक्ष्यतीति विचार्य शक्तो निर्घृणश्च रुद्र एवेति निश्चित्य तस्मै वरं दत्तवन्तः । स रुद्रस्तामिषुं मुक्त्वा तया प्राकारत्रयं विभिद्य त्रिभ्यो लोकेभ्योऽसुरान्निःसारयामास ॥

विधत्ते - 'यदुपसद उपसद्यन्ते भ्रातृव्यपराणुत्त्यै' इति ।

वैरिदुर्गोपसदनकार्यकारित्वादेता आहुतय उपसद इत्युच्यन्ते । तत्राग्निः सोमो विष्णुरित्येवंरूपास्तिस्रो देवताः, तासां याज्यापुरोनुवाक्या हौत्र एवाऽऽम्नायन्ते । अयाशयादितनुधारी वह्निश्चतुर्थी देवता । तदीयमन्त्र आध्वर्यवत्वादत्रैवाऽऽम्नातः ।

उपसदामाज्यहविष्ट्वेनोपांशुयाजवत्प्रयाजाज्यभागाद्याहुतिप्रसक्तौ प्रतिषेधति — “नान्यामाहुतिं पुरस्ताज्जुहुयाद्यदन्यामाहुतिं पुरस्ताज्जुहुयादन्यन्प्रुखं कुर्यात्” इति ।

अग्निमनीकमिति बाणव्याजेनाग्नेः प्रथमभावित्वलक्षणं मुखत्वमुक्तम्। तत्र प्रयाजादिहोमे वह्नेर्मुखत्वं हीयेत ।

आहुत्यन्तराणां सर्वेषां निषेधप्राप्तौ कांचिदाहुतिं विधत्ते — “स्रुवेणाऽऽघारमा घारयति यज्ञस्य प्रज्ञात्यै” इति ।

दर्शपूर्णमासादियज्ञानामाघारोपेतत्वादुपसदामपि यज्ञत्वप्रत्यभिज्ञानाय स्रुवाघारः ।

तिसृणामुपसदां होमप्रकारं विधत्ते — “पराङतिक्रम्य जुहोति पराच एवैभ्यो लोकेभ्यो यजमानो भ्रातृव्यान्प्र णुदते” इति ।

पराङ्पुनरावृत्तिरहितो वेद्याहवनीययोर्मध्यमतिक्रम्य दक्षिणस्यां दिश्युदङ्गमुखः स्थित्वा क्रमेणाग्नेः सोमस्य विष्णोश्च तिस्र आहुतीर्जुहुयात् । तथा सति वैरिणोऽपि पुनरावृत्तिरहितानेव कृत्वा लोकत्रयान्निःसारयति ।

चतुर्थाहुतिप्रकारं विधत्ते — “पुनरत्याक्रम्योपसदं जुहोति प्रणुद्यैवैभ्यो लोकेभ्यो भ्रातृव्याञ्जित्वा भ्रातृव्यलोकमभ्यारोहति” इति ।

दक्षिणदेशादुत्तरस्यां दिशि समागत्य चतुर्थीमुपसद जुहुयात् । तथा सति वैरिणो निःसार्य स्वर्गं गत्वा वैरिस्थानं पुरत्रयमधितिष्ठति ।

कालद्वये तदनुष्ठानं विधत्ते — “देवा वै याः प्रातरुपसद उपासीदन्नह्नस्ताभिरसुरान्प्राणुदन्त याः साय रात्रियै ताभिर्यत्सायंप्रातरुपसद उपसद्यन्तेऽहोरात्राभ्यामेव तद्यजमानो भ्रातृव्यान्प्रणुदते” इति ।

उपासीदन्ननुष्ठितवन्तः । प्रातरनुष्ठिताभिरह्नो वैरिनिःसारणं सायमनुष्ठिताभिस्तु रात्रेः ।

कालद्वये याज्यानुवाक्ययोर्व्यत्यासं विधत्ते — “याः प्रातर्याज्याः स्युस्ताः सायं पुरोनुवाक्याः कुर्यादयातयामत्वाय” इति ।

यातयामत्वं गतरसत्वं तद्वर्जनाय व्यत्यासः ।

दिनत्रये तदनुष्ठानं विधत्ते — “तिस्र उपसद उपैति त्रय इमे लोका इमानेव लोकान्प्रीणाति” इति ।

त्रिषु दिनेषु कालद्वयेऽनुष्ठानं प्रशंसति — “षट्सं पद्यन्ते षड्वा ऋतव ऋतूनेव प्रीणाति” इति ।

प्रसङ्गादहीने द्विरात्रादावुपसद्दिनसंख्यां विधत्ते — “द्वादशाहीने सोम उपैति द्वादश मासाः संवत्सरः संवत्सरमेव प्रीणाति” इति ।

अहःसंघेन निष्पाद्यः सोमयागोऽहीनः । सत्रमप्यनेनोपलक्ष्यते । अहःसमूहस्य समानत्वात् ।

द्वादशदिनेषु कालद्वयानुष्ठानं प्रशंसति — “चतुर्विंशतिः संपद्यन्ते चतुर्विशतिरर्धमासा अर्धमासानेव प्रीणाति” इति ।

एतेषूपसद्दिनेष्ववान्तरदीक्षान्व्रतपाने स्तनसंख्यां विधत्ते — “आराग्रामवान्तरदीक्षामुपेयाद्यः कामयेतास्मिन्मे लोकेऽर्धुकं स्यादित्येकमग्नेऽथ द्वावथ त्रीनथ चतुर एषा वा आराग्राऽवान्तरदीक्षाऽस्मिन्नेवास्मै लोकेऽर्धुकं भवति” इति ।

बलीवर्दप्रतोदनं लोहमारं तद्वदल्पमग्रं मुखं यस्याः साऽऽराग्रा । अर्धुकं समृद्धिशीलं फलम् । सोमक्रयदिने सायमेकं स्तनं दुह्यात्, अपरेद्युः प्रातर्द्वौ स्तनौ, सायं त्रीन्स्तनान्, परेद्युः प्रातश्चतुरः ।

यस्तु परलोकसमृद्धिकामस्तस्योक्तवैपरीत्यं विधत्ते — “परोवरीयसीमवान्तरदीक्षामुपेयाद्यः कामयेतामुष्मिन्मे लोकेऽर्धुक स्यादिति चतुरोऽग्रेऽथ त्रीनथ द्वावथैकमेषा वै परोवरीयस्यवान्तरदीक्षाऽमुष्मिन्नेवास्मै लोकेऽर्धुकं भवति” इति ।

परःशब्देनात्र श्रेष्ठत्वादुपक्रमो विवक्षितः । उपक्रमे वरीयोऽधिकं यस्याः सा परोवरीयसी ।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 उपसदो विधास्यन् आह - तेषामित्यादि ॥ सर्वनाम्नस्सापेक्षत्वात् प्रकृतमत्रापेक्ष्यते, उक्तमिदानीं 'देवासुरास्संयत्ता आसन्ते देवा बिभ्यतोऽग्निं प्राविशन्' इत्यादि । तत्र देवा अग्निं वरूथं कृत्वा तदनुप्रविश्य निर्बाधास्सन्तोऽसुरानभ्यभवन् । अथ तं दृष्टवतां देवैः परिभूतानां ततोऽप्यधिकं कर्तुं संरब्धवतां तेषामसुराणां तिस्रः पुरः पुंसंस्थानान्यधिष्ठानान्यासन् । 'तिसृभ्यो जसः' इति जस उदात्तत्वम् । तासां चोपर्यधोभावेनावस्थितानां अवमा अधरा अयस्मयी अयसा निर्मिता । 'द्व्यचश्छन्दसि' इति मयट्, अयस्मयादित्वाद्भत्वम् । अथानन्तरं तस्या उपरि रजता रूप्यमयी । अथ तस्याश्चोपरि हरिणी सौवर्णी । एतयोः प्रकृतिविकारभावस्याविवक्षितत्वात् विकारप्रत्ययो न कृतः । गुणवचनत्वाद्वा मतुब्विकारप्रत्ययो लुप्यते । 'वर्णादनुदात्तात्' इति हरितशब्दात् ङीप् तकारस्य च नकारः । ततः ताः पुरः देवा जेतुं नाशक्नुवन्, तासु स्थितानसुरानित्यर्थः । अग्निनाऽपि वरूथेनेत्यभिप्रायः । अथ देवास्ताः उपसदा उपसदनेन समीपासनेन अजिगीषन् जेतुमैच्छन् । शत्रुबलादिपरीक्षार्थं तत्समीपावस्थानमन्तिकासनमिति प्रसिद्धं उपसच्छब्देनोच्यते । तस्मादाहुः - अद्यत्वेऽपि यश्चैव देवैः कृतं वेद यश्च न वेद लौकिकश्शूद्रादिः ते सर्वेऽप्याहुः । कथं? - उपसदा उपसदनेनैव महापुरं जयन्तीति । यदा शत्रवो महापुरजयाय भवन्ति तदोपसदनमेव तावत्कर्तव्यम्, न सहसोत्थातव्यम् । एवं कृतोपसदनैः सहायादिसामग्रीविशेषसंपन्नैः परिच्छिन्नशात्रवबलैः पश्चादभियोक्तव्याः शत्रव इति सार्वलौकिकमेतदित्यर्थः । 'ऋवपूरब्धूः' इत्यकारस्समासान्तः, व्यत्ययेन पुल्लिङ्गता न भवति । पुरशब्दो वा ॥
2 अथ ते तथाकृताध्यवसायाः उपसीदन्तो देवाः इषुं समस्कुर्वत संस्कृतवन्तः । अग्निमनीकं मुखं तस्याः, सोमं शल्यं शरीरं पुच्छं वा, विष्णुं तेजनं धारां काष्ठं वा इषोः संस्कृतवन्तः । ततस्ते सर्वे अब्रुवन् क इमामसिष्यति क्षेप्स्यति स्त्रीबालसहितास्वासुरपुरीषु क इत्थं क्रूरं करिष्यतीति । यद्वा - सम्भावनायां किंशब्दः, एवमाश्चर्यभूतामिषुं कः क्षेप्तुं प्रभवति न कश्चिदस्मात्वित्यर्थः । एवं निरूपयन्तो देवाः सर्वेऽपि रुद्र इत्यब्रुवन् । रुद्रो वै क्रूरस्वभावः । तस्मात्स इमामस्यतु, स एवास्मिन् कर्मणि प्राप्तकाल इति अन्यैः कर्तुमशक्यत्वादिति प्राप्तकाले लोट् । यद्वा - महार्थसंहारकारित्वं क्रूर इति विवक्षितं, तत्कारिणोऽस्य किं नाम कर्तुमशक्यं, तस्मात्सोऽस्यत्विति । आशिषि लोट्, स इदं क्रियात् इत्याशास्महे इति ॥
3 अथ स देव आगत्याब्रवीत् वरं वृणै वरं वरयितुं प्राप्तोऽयं कालः । आह - अहमेव पशूनामधिपतिरसानीति द्विपदां चतुष्पदां चाधिपतिः स्वामी असानि भवानीति । देवैश्च दत्तो वरः, तस्माद्रुद्रः पशूनामधिपतिः । 'नामन्यतरस्याम्' इति नाम उदात्तत्वम् । किंनु भोस्ततः पूर्वं देवः पशूनामधिपतिर्न भवति? भवत्येव । इदं पृच्छामः - 'साब्रवीद्वरं वृणै मत्प्रायणा एव वो यज्ञाः' इत्यादिवरलाभात्पूर्वं किं प्रायणीयोदयनीयौ अदितिदेवत्यौ न भवतः? । अत्राह - भवत इति, सर्वदा तावादित्यावेव । एवं अस्मिन् देवेऽपि । सर्वदा पशूनां देवोऽधिपतिरेव, विद्यमानार्थस्यैव द्रढिमानमापादयति श्रुतिरिति सर्वत्र वेदितव्यम् । अनेनैवाभिप्रायेण ततः प्रभृतीति न क्वचिदुच्यते । एवं सर्वदा विद्यमानमेव अवसरे देवो देवान् प्रबोधयति । ततश्चाग्न्यादीनामपि रुद्रस्वभूतख्यापनात् 'या ते अग्ने रुद्रिया तनूः' इतिमन्त्रादौ क्रियमाणः प्रयोगश्च भवति । अन्य आह - ग्राम्यारण्यानां पशूनामाधिपत्यं देवेन विद्यमानमेव वृतं, तच्च देवैर्दत्तम् । तस्मात्ततः प्रभृति तेषां रुद्रोऽधिपतिरासीत् । ततस्स वरलाभेन तृप्तः कृतो देवकार्यमकरोदिति तेन पशुविशेषग्रहणे प्रमाणं वक्तव्यम् । तेनाधिपत्यप्रतिपादनस्य चाज्यहविषि क उपयोग इति क्रियमाणसंगताभावात् देवाश्च विश्वाधिपत्यं देवाय दातुं विद्यमानमेव दातुमीशते । ईर्ष्यामात्रमणुरेव (?) । इषुं मोक्तुं न क्रमन्ते इति महच्छ्रद्धेयम् ॥
4 अथ देवो देवैः प्रार्थितः देवांश्चात्मनो विश्वाधिपत्यं बोधयित्वा तां अन्यैर्मोक्तुमशक्यां इषुमवासृजदमुञ्चत् । अथ सोऽवसृष्टशरो देवः त्रिस्रः पुरो भित्त्वा नाशयित्वा एम्यो लोकेभ्योऽसुरान् प्राणुदत अपनीतवान् । 'उदात्तयणः' इति तिसृभ्यो विभक्तिरुदात्ता । यदुपसदः संरोधस्थानीयाः उपसद्यन्ते नीयन्ते भ्रातृव्यपराणुत्यै शत्रूणामपनयनाय भवतीत्युपसदां विधिः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् ॥
5 अत्राग्निसोमविष्णूनां तिस्र आहुतयो होतव्याः अयाशयादितनुमते विशिष्टायाग्नये एकाहुतिरौपसदिका । तासां क्रमं विधातुमाह - नान्यामिति ॥ प्रसिद्ध्यभावादौपसदी आहुतिरन्येत्युच्यते । तामाहुतिं पुरस्तात्प्रथमं अग्न्याद्याहुतिभ्यः पूर्वं न जुहुयात् । अन्यन्मुखं कुर्यात् प्रसिद्धोग्निर्देवताभिमुखः तमविधायाप्रसिद्धमुखं कुर्यात् । ततश्च यज्ञत्वहानिः । तस्मात् अग्न्यादिभ्य एव पुरस्तादाहुतयो होतव्याः यज्ञत्वायेति विधिर्गम्यते ॥
6 किंचेत्याह - स्रुवेणेति विधिः ॥ प्रज्ञात्यै प्रत्यभिज्ञानार्थं यज्ञत्वमासां यथा प्रत्यभिज्ञायेतेति तत्पूर्वकत्वप्रसिद्ध्यै यज्ञानाम् । 'तादो च' इति गतेः प्रकृतिस्वरत्वम् ॥
7 पराङित्यादिविधिः ।। पराङ् अपुनरावृत्त एव अतिक्रम्याग्निसोमविष्णून् जुहोति । 'अनिगन्तोञ्चतौ' इति गतेः प्रकृतिस्वरत्वम् । पराच इत्यादि । पराचः अपुनरावृत्तानेव भ्रातृव्यान् प्रणुदते । 'अञ्चतेश्छन्दसि' इति विभक्त्युदात्तत्वम्, 'चौ' इति पूर्वपदान्तोदात्तत्वं च परत्वाद्बाधित्वा 'अनिगन्तोञ्चतौ' इति गतेः प्रकृतिस्वरत्वं प्रवर्तते । 'ऊडिदम्' इतीदमो विभक्तिरुदात्ता ।।
8 पुनरत्याक्रम्येति विधिः ।। पुनरावृत्याद्यदेशं आगत्य 'या ते अग्रे' इत्याहुतिं स्रुवेण जुहोति । एभ्यो लोकेभ्यः भ्रातृव्यान् प्रणुद्य अपनीय भ्रातृव्यलोकं शत्रूणां स्थानं च जित्वा आत्मीयं कृत्वा तमभ्यारोहति अधितिष्ठति भ्रातृव्यलोकम् ।।
9 देवा वै या इत्यादि ।। प्रातस्तनीभिरुपसद्भिः आसुरान् प्राणुदन्त । यास्सायमुपसद उपासीदन्नित्येव । ताभिः रात्रियै रात्र्या असुरान् प्राणुदन्तेत्येव । यत्सायं प्रातरित्यादि । गतम् । तस्य सायंप्रातरुपसदनं कर्तव्यमिति विधिः । सायंप्रातश्शब्दः कार्तकौजपादिषु द्रष्टव्यः । याः प्रातरग्न्यादीनां याज्यास्स्युः तास्सायं पुरोनुवाक्याः तेषां कुर्यात् अयातयामत्वाय अगलितसारत्वाय ।।
10 तिस्र उपसद उपैतीति विधिः ।। तिस्रः स्थितीरुपसदः उपैति उपचारवतीर्नयति । त्रय इत्यादि । गतम् । षट् संपद्यन्त इति । तस्मात्सायन्तन्यः तिस्रः प्रातस्तन्यश्च तिस्र इति षडुपसदः उपसत्तव्यास्संपद्यन्ते । षड्वा इत्यादि । गतम् । द्वादशेत्यादि । अहीने अह्नां समुदायात्मनि सोमे द्विरात्रादौ द्वादशोपसद्भिस्तिसृभिरुपैति । द्वौ च दश च द्वादश, 'संख्या' इति पूर्वपदप्रकृतिस्वरत्वम् 'अह्नः खः क्रतौ' इति खस्समूहे । द्वादशेति । गतम् । चतुर्विंशतिरित्यादि । तस्मात्सायंप्रातरुपसर्त्तव्याः, चतुर्विंशतिरुपसदस्संपद्यन्ते । पूर्ववत्समासस्स्वरश्च । अर्धानि मासानां अर्धमासाः ।।
11 आराग्रामित्यादि ।। संज्ञेयमन्वर्था । आरमल्पमग्रमुपक्रमो यस्यास्सा आराग्रा । तादृशीमवान्तरदीक्षां पूर्वोक्तामुपयोत् यः कामयेत मम यज्ञफलमर्धुकमृद्धिशीलं स्यादिति । तस्यास्स्वरूपमाह - एकमित्यादि । एकं स्तनमग्रे प्रथमेऽह्नि उपैति भू[व्र]तम् । अथ अनन्तरेऽह्नि द्वावित्यादिवक्ष्यमाणम् । 'चतुरश्शसि' इति चतुरोन्तोदात्तत्वम् । एषेत्यादि । यस्यामीदृशी स्तनवृद्धिः एषा क्षुरपविनाम व्रतं क्रियते । सैवाराग्रेति प्रदेशान्तरसिद्धानुवादत्वात्संस्थानमात्रमेवोपात्तम् । 'ऊडिदम्' इतीदमस्सप्तम्या उदात्तत्वम्, अन्वादेशत्वाच्चतुर्थ्यन्तं निहन्यते ।।
12 परोवरीयसीमत्यादि ।। इयमपि परस्तात् वरीयसी परत्र लोके वरीयसी उरुतरं फलं यस्यास्तादृशीमुपेयात् अमुष्मिन् लोके फलर्धिकामो । परशब्दाच्छान्दसोसिप्रत्ययः, उरुशब्दादीयसुनि 'प्रियस्थिर' इत्यादिना वरादेशे बहुव्रीहौ 'उगितश्च' इति ङीप्, 'नद्यृतश्च' इति प्राप्तः कप् 'ईयसश्च' इति प्रतिषिध्यते । अन्ये तु - पूर्वानुसारेण स्वरूपलक्षणत्वेन व्याचक्षते, परो[पूर्व]वरीयसीमिति वक्तव्ये परोवरीयसीमाचक्षते परोक्षेणेति । परस्तात्पूर्वस्मिन्नहनि वरीय उरुतरं व्रतं यस्याः । 'पूर्वाधर' इति पूर्वशब्दस्यासिप्रत्ययः परादेशश्च । ननु बह्वतिशयनीयत्वादीयसुना न भाव्यम्, न हि वीप्सिष्यते पूर्वंपूर्वं परस्माद्वरीयो यस्यामिति । तस्यास्स्वरूपमाह - चतुरोग्र इत्यादि । गतम् । अयमपि सुजघनव्रतानुवादः ।।
इति षष्ठे द्वितीये तृतीयोनुवाकः ॥