प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.2.3.4 TS 6.2.3.4
उपस॒द्यन्ते॑ ऽहोरा॒त्राभ्या॑मे॒व तद्-यज॑मानो॒ भ्रातृ॑व्या॒न् प्र णु॑दते॒ याः प्रा॒तर्या॒ज्याः᳚ स्युस्ताः सा॒यं पु॑रोऽनुवा॒क्याः᳚ कुर्या॒दया॑तयामत्वाय ति॒स्र उ॑प॒सद॒ उपै॑ति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान् प्री॑णाति॒ षट्थ् सं प॑द्यन्ते॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति॒ द्वाद॑शा॒हीने॒ सोम॒ उपै॑ति॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः स॑वंथ्स॒रमे॒व प्री॑णाति॒ चतु॑र्विꣳशतिः॒ सं- [ ]
पदपाठः (Word-by-word)
उ॒प॒स॒द्यन्त॒ इत्यु॑प - स॒द्यन्ते᳚ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । ए॒व । तत् । यज॑मानः । भ्रातृ॑व्यान् । प्रेति॑ । नु॒द॒ते॒ । याः । प्रा॒तः । या॒ज्याः᳚ । स्युः । ताः । सा॒यम् । पु॒रो॒नु॒वा॒क्या॑ इति॑ पुरः - अ॒नु॒वा॒क्याः᳚ । कु॒र्या॒त् । अया॑तयामत्वा॒येत्यया॑तयाम - त्वा॒य॒ । ति॒स्रः । उ॒प॒सद॒ इत्यु॑प - सदः॑ । उपेति॑ । ए॒ति॒ । त्रयः॑ । इ॒मे । लो॒काः । इ॒मान् । ए॒व । लो॒कान् । प्री॒णा॒ति॒ । षट् । समिति॑ । प॒द्य॒न्ते॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तून् । ए॒व । प्री॒णा॒ति॒ । द्वाद॑श । अ॒हीने᳚ । सोमे᳚ । उपेति॑ । ए॒ति॒ । द्वाद॑श । मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । ए॒व । प्री॒णा॒ति॒ । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । समिति॑ ।
पदसंख्या: 50