प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.2.3.5 TS 6.2.3.5
प॑द्यन्ते॒ चतु॑र्विꣳशति-रर्द्धमा॒सा अ॑र्द्धमा॒साने॒व प्री॑णा॒त्यारा᳚ग्रा-मवान्तरदी॒क्षा-मुपे॑या॒द्यः का॒मये॑ता॒ऽस्मिन् मे॑ लो॒केऽर्द्धु॑कꣳ स्या॒दित्येक॒मग्रेऽथ॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ ए॒षा वा आरा᳚ग्रा ऽवान्तरदी॒क्षा ऽस्मिन्ने॒वास्मै॑ लो॒केऽर्द्धु॑कं भवति प॒रोव॑रीयसी-मवान्तरदी॒क्षा-मुपे॑या॒द्यः का॒मये॑ता॒मुष्मि॑न् मे लो॒केऽर्द्धु॑कꣳ स्या॒दिति॑ च॒तुरोऽग्रे ( ) ऽथ॒ त्रीनथ॒ द्वावथैक॑मे॒षा वै प॒रोव॑रीयस्य-वान्तरदी॒क्षा ऽमुष्मि॑न्ने॒वास्मै॑ लो॒केऽर्द्धु॑कं भवति ॥
पदपाठः (Word-by-word)
प॒द्य॒न्ते॒ । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । अ॒द्‌र्ध॒मा॒सा इत्य॑द्‌र्ध - मा॒साः । अ॒द्‌र्ध॒मा॒सानित्य॑र्ध - मा॒सान् । ए॒व । प्री॒णा॒ति॒ । आरा᳚ग्रा॒मित्यारा᳚ - अ॒ग्रा॒म् । अ॒वा॒न्त॒र॒दी॒क्षामित्य॑वान्तर - दी॒क्षाम् । उपेति॑ । इ॒या॒त् । यः । का॒मये॑त । अ॒स्मिन्न् । मे॒ । लो॒के । अद्‌र्धु॑कम् । स्या॒त् । इति॑ । एक᳚म् । अग्रे᳚ । अथ॑ । द्वौ । अथ॑ । त्रीन् । अथ॑ । च॒तुरः॑ । ए॒षा । वै । आरा॒ग्रेत्यारा᳚ - अ॒ग्रा॒ । अ॒वा॒न्त॒र॒दी॒क्षेत्य॑वान्तर - दी॒क्षा । अ॒स्मिन्न् । ए॒व । अ॒स्मै॒ । लो॒के । अद्‌र्धु॑कम् । भ॒व॒ति॒ । प॒रोव॑रीयसी॒मिति॑ प॒रः - व॒री॒य॒सी॒म् । अ॒वा॒न्त॒र॒दी॒क्षामित्य॑वान्तर - दी॒क्षाम् । उपेति॑ । इ॒या॒त् । यः । का॒मये॑त । अ॒मुष्मिन्न्॑ । मे॒ । लो॒के । अद्‌र्धु॑कम् । स्या॒त् । इति॑ । च॒तुरः॑ । अग्रे᳚ ( ) । अथ॑ । त्रीन् । अथ॑ । द्वौ । अथ॑ । एक᳚म् । ए॒षा । वै । प॒रोव॑रीय॒सीति॑ प॒रः - व॒री॒य॒सि॒ । अ॒वा॒न्त॒र॒दी॒क्षेत्य॑वान्तर - दी॒क्षा । अ॒मुष्मिन्न्॑ । ए॒व । अ॒स्मै॒ । लो॒के । अद्‌र्धु॑कम् । भ॒व॒ति॒ ॥
पदसंख्या: 66