प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.2.5.1 TS 6.2.5.1
यद्वा अनी॑शानो भा॒रमा॑द॒त्ते वि वै स लि॑शते॒ यद् द्वाद॑श सा॒ह्नस्यो॑प॒सदः॒ स्युस्ति॒स्त्रो॑ऽहीन॑स्य य॒ज्ञ्स्य॒ विलो॑म क्रियेत ति॒स्र ए॒व सा॒ह्नस्यो॑प॒सदो॒ द्वाद॑शा॒हीन॑स्य य॒ज्ञ्स्य॑ सवीर्य॒त्वायाथो॒ सलो॑म क्रियते व॒थ्सस्यैकः॒ स्तनो॑ भा॒गी हि सोऽथैकꣳ॒॒ स्तनं॑ ॅव्र॒तमुपै॒त्यथ॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ एतद्वै- [ ]
पदपाठः (Word-by-word)
यत् । वै । अनी॑शानः । भा॒रम् । आ॒द॒त्त इत्या᳚ - द॒त्ते । वीति॑ । वै । सः । लि॒श॒ते॒ । यत् । द्वाद॑श । सा॒ह्नस्येति॑ स - अ॒ह्नस्य॑ । उ॒प॒सद॒ इत्यु॑प - सदः॑ । स्युः । ति॒स्त्रः । अ॒हीन॑स्य । य॒ज्ञ्स्य॑ । विलो॒मेति॒ वि - लो॒म॒ । क्रि॒ये॒त॒ । ति॒स्रः । ए॒व । सा॒ह्नस्येति॑ स - अ॒ह्नस्य॑ । उ॒प॒सद॒ इत्यु॑प - सदः॑ । द्वाद॑श । अ॒हीन॑स्य । य॒ज्ञ्स्य॑ । स॒वी॒र्य॒त्वायेति॑ सवीर्य - त्वाय॑ । अथो॒ इति॑ । सलो॒मेति॒ स-लो॒म॒ । क्रि॒य॒ते॒ । व॒थ्सस्य॑ । एकः॑ । स्तनः॑ । भा॒गी । हि । सः । अथ॑ । एक᳚म् । स्तन᳚म् । व्र॒तम् । उपेति॑ । ए॒ति॒ । अथ॑ । द्वौ । अथ॑ । त्रीन् । अथ॑ । च॒तुरः॑ । ए॒तत् । वै ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

यत्पूर्वं विहितं तिस्र उपसद उपैति द्वादशाहीने सोम उपैतीति तत्र विपक्षस्वपक्षयोर्बाधाबाधावुपन्यस्यति —

“यद्वा अनीशानो भारमादत्ते वि वै स लिशते यद्द्वादश साह्नस्योपसदः स्युस्तिस्रोऽहीनस्य यज्ञस्य विलोम क्रियेत तिस्त्र एव साह्नस्योपसदो द्वादशाही

नस्य यज्ञस्य सवीयंत्वायाथो सलोम क्रियते” (सं. का. ६ प्रं. २ अ. ५ ) इति।

लोके यद्यशक्तः कश्चित्प्रौढं भारं वोढुमाददीत तदा स विलिशते विशेषेणाल्पी भवति उत्थातुमप्यशक्तो भूमौ पतेत्। तद्वदत्रापि योज्यते। अह्ना सह वर्तत इति साह्न एकाहो ज्योतिष्टोमः। अहःसंघसाध्योऽहीनो द्विरात्रादिः। तत्र यद्यल्पस्य साह्नस्य द्वादश स्युर्यदि वाऽधिकस्याहीनस्य तिस्रः स्युस्तदा विलोम विपरीतं क्रियेत। तथा सति साह्नस्य वीर्यं हीयेत। स्वपक्षे तु नास्ति तदुभयम्।

यच्चान्यत्पूर्वं विहितमाराग्रामवान्तरदीक्षामुपेयादिति तत्प्रशंसति —

“वत्सस्यैकः स्तनो भागी हि सोऽथैक स्तनं व्रतमुपैत्यथ द्वावथ त्रीनथ चतुर एतद्वै क्षुरपवि नाम व्रतं येन प्र जातान्भ्रातृव्यान्नुदते प्रति जनिष्यमाणानथो कनीयसैव भूय उपैति” (सं. का. ६ प्रं. २ अ. ५) इति।

वत्सस्य भागो यः स्तनस्तस्मिन्नप्यल्पं पयो यजमानश्चतुर्थे पर्याये स्वी करोति। ततोऽस्य चतुस्तननियमः सिध्यति। तदेतदेकस्तनादिकं व्रतं क्षुरपवीत्युच्यते। पविर्वज्रं तेन तीक्ष्णत्वमुपलक्ष्यते। क्षुरवत्पविस्तैक्ष्णयं यस्याऽऽराग्राव्रतस्य तेन व्रतेन पूर्वमुत्पन्नान्वैरिणो विनाशयति जनिष्यमाणांश्च प्रतिबध्नाति। किंचात्यल्पेन कर्मणा भूयः फलं प्राप्नोति। यथोप्तेनाल्पेन बीजेन प्रौढं वृक्षं फलं प्राप्नोति तद्वत्।

यदन्यत्पूर्वं विहितं परोवरीयसीमवान्तरदीक्षामुपेयादिति तत्प्रशंसति —

“चतुरोऽग्रे स्तनान्व्रतमुपैत्यथ त्रीनथ द्वावथैकमेतद्वै सुजघनं नाम व्रतं तपस्य सुवर्ग्यमथो प्रैव जायते प्रजया पशुभिः” (सं. का. ६ प्रं. २ अ. ५) इति।

यथा रूपवत्या युवत्या योषितो जघनप्रदेशः स्थूलस्तस्योपरि देहमध्यप्रदेशः कृशस्तद्वदस्य व्रतस्याधोभागश्चतुस्तन उपरिभाग एकस्तन इति सुजघनमिति नाम। तपस्यमुत्तरोत्तरमाहारक्षयात्तपसो योग्यम्। अत एव स्वर्गसाधानम्। किंच सुजघनत्वादेव प्रजाः पशूंश्च प्रजनयति।

त्रैवर्णिकानां मध्ये क्षत्त्रियस्य द्रव्यं विधत्ते —

“यवागू राजन्यस्य व्रतं क्रूरेव वै यवागूः क्रूर इव राजन्यो वज्रस्य रूप समृद्ध्यै” (सं. का. ६ प्रं. २ अ. ५) इति।

यवाग्वा ओदनवत्तृप्तिहेतुत्वाभावात्क्रूरत्वम्। राज्यन्यो दुष्टशिक्षकत्वात्क्रूरः। उभयं मिलित्वा यद्वज्रसदृशं तच्चानिष्टनिवर्तकत्वेन समृद्ध्यै भवति।

विधत्ते —

‘आमिक्षा वैश्यस्य पाकयज्ञस्य रूपं पुष्ट्यै’ (सं. का. ६ प्रं. २ अ. ५) इति।

तप्ते पयसि दधिप्रक्षेपेण घनीभूतो भागोऽसावामिक्षा। पक्वेन पुरोडाशादिना कृतो यज्ञः पाकयज्ञः। आमिक्षायाः पक्वपयोनिष्पन्नत्वात्पाकयज्ञस्य रूपमतः पुष्ट्यै भवति।

विधत्ते —

‘पयो ब्राह्मणस्य तेजो वै ब्राह्मणस्तेजः पयस्तेजसैव तेजः पय आत्मन्धत्तेऽथो पयसा वै गर्भा वर्धन्ते गर्भ इव खलु वा एष यद्दीक्षितो यदस्य पयो व्रतं भवत्यात्मानमेव तद्वर्धयति’ [सं. का. ६ प्रं. २ अ. ५] इति।

ब्राह्मणोऽध्यापनादिरूपेण तेजसा युक्तः। पयसस्तेजोवत्स्वच्छरूपत्वात्स्वयमेव तेजस्वि। पयसि पीते सति स्वकीयेन तेजसा सह पयोरूपं तेज आत्मनि धृतं भवति। किंच दीक्षितस्य गर्भरूपत्वात्पयसा वृद्धिर्युज्यते।

मध्याह्नमध्यरात्रयोर्व्रतकालत्वं विधातुं प्रस्तौति —

“त्रिव्रतो वै मनुरासीद्द्विव्रता असुरा एकव्रता देवाः प्रातर्मध्यंदिने सायं तन्मनोर्व्रतमासीत्पाकयज्ञस्य रूपं पुष्ट्यै प्रातश्च सायं चासुराणां निर्मध्यं क्षुधोरूपं ततस्ते पराऽभवन्मध्यंदिने मध्यरात्रे देवानां ततस्तेऽभवन्त्सुवर्गं लोकमायन्” (सं. का. ६ प्रं. २ अ. ५) इति।

अहनि त्रिषु कालेषु व्रतं भोजनं कुर्वतो मनोरेकस्मिन्नेव काले व्रतं कुर्वतां देवानां च मध्याह्नकाले व्रतमस्ति। स च कालः क्षुधः स्वरूपम्। तस्मिन्व्रतरहिता असुराः पराभूताः। व्रतयुक्तास्तु मनुर्देवाश्च पुष्टिं स्वर्गं च प्राप्ताः। ततो मध्याह्नकालः प्रशस्तः।

विधत्ते —

“यदस्य मध्यंदिने मध्यरात्रे व्रतं भवति मध्यतो वा अन्नेन भुञ्जते मध्यत एव तदूर्जं धत्ते भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति” (सं. का. ६ प्रं. २ अ. ५) इति।

मुखमध्येऽन्नस्य भोजनमुदरमध्येऽन्नस्य च धारणं यथा लोके तथैवात्रापि मध्याह्ने मध्यरात्रे च व्रतं कर्तव्यम्।

दीक्षितस्य स्वनिवासस्थानात्प्रवासं निषेधति —

“गर्भो वा एष यद्दीक्षितो योनिर्दीक्षितविमितं यद्दीक्षितो दीक्षितविमितात्प्रवसेद्यथा योनेर्गर्भः स्यन्दति तादृगेव तन्न प्रवस्तव्यमात्मनो गोपीथाय” (सं. का. ६ प्रं. २ अ. ५) इति।

दीक्षितो विशेषेण मीयते प्रक्षिप्यते यस्मिञ्शालास्थाने तद्दीक्षितविमितं तस्य योनिरूपत्वात्। ततोऽस्य निर्गमनं गर्भस्रावसमम्। तत आत्मरक्षणार्थं न निर्गन्तव्यम्।

एतमेव निषेधं प्रकारान्तरेण प्रशंसति –

‘एष वै व्याघ्रः कुलगोपो यदग्निस्तस्माद्यद्दीक्षितः प्रवसेत्स एनमीश्वरोऽनूत्याय हन्तोर्न प्रवस्तव्यमात्मनो गुप्त्यै’ (सं. का. ६ प्रं. २ अ. ५) इति।

एष एवाऽऽहवंनीयोऽग्निः प्रवसतो व्याघ्रवद्धिंसको निवसतः कुलरक्षकः तस्मात्सोऽग्निः प्रवसन्तमेनमनु स्वयमुत्थाय हन्तुं समर्थः। प्रवासाभावस्त्वात्मनो रक्षणाय भवति।

आहवनीयस्य दक्षिणदेशं शयनार्थं विधत्ते —

‘दक्षिणतः शय एतद्वै यजमानस्याऽऽयतन स्व एवाऽऽयतने शये’ (सं. का. ६ प्रं. २ अ. ५) इति।

शेत इत्यर्थः।

शयनस्याऽऽहवनीयाभिमुख्यं विधत्ते —

‘अग्निमभ्यावृत्य शये देवता एव यज्ञमभ्यावृत्य शये’ (सं. का. ६ प्रं. २ अ. ५) इति।

अथ काम्यानि देवयजनानि विधीयन्ते। तत्र पुरोहविरादयः संज्ञाविशेषा उक्थ्यषोडश्यतिरात्राद्युत्तरयज्ञाः।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 यद्वा अनीशान इत्यादि ।। यद्यनीशानस्तादृशं भारं वोढुमक्षमस्सन् भारं योग्यमादत्ते गृह्णाति स खलु विलिशते अल्पीभवति क्षीयते इति यावत् । लिश अल्पीभावे । तस्माद्यदि साह्नस्य एकाहस्य द्वादशोपसदः स्युः, तदा सोतिभाराद्विलिशते ततो यजमानो म्रियेत, तस्मात्तिस्र उपसद उपैतीति पर्वूमेवावोचामेति तस्यैवेदं समर्थनम् । अह्ना सह वर्तते इति साह्नः क्रतुः, 'अह्नोह्न एतेभ्यः' इत्यच्समासान्तः, अह्नादेशश्च । अथ यदि तिस्रोहीनस्याह्नां समूहस्य क्रतोरुपसदस्स्युः, तदा यज्ञस्थ विलोम विपरीतं क्रियेत । शक्तस्याशक्तत्वरव्यापनं वैपरीत्यम् । ततश्चाशक्त एव क्रतुस्स्यादह्नां समूहः । 'अह्नः खः क्रतौ' इति खः ।।
2 तिस्र एवेत्यादि ।। तस्मात्तिस्र एव साह्नस्योपसदो द्वादशाहीनस्येति पूर्वमेवावोचामेति भावः । यज्ञस्येत्यादि । एवं क्रियमाणे यज्ञस्य साह्नस्य शक्यभारभरणात् सवीर्यत्वाय भवति । अथो अपि च अहीनस्य यज्ञस्य सलोम अनुरूपमेव क्रियते । उक्तं व्रतविशेषनिबन्धनं अवान्तरदीक्षायास्संज्ञाद्वयं आराग्रा परोवरीयसीति ।।
3 इदानीं तु तयोर्व्रतयोः स्वरूपं संज्ञां च प्रदर्शयितुमाह- वत्सस्येत्यादि ।। वत्सस्य एकस्तनस्स्वभूतः कुतः भागी हि सः सोपि भागी, न केवलं गोस्वामी यजमान एव । तस्मादेकं स्तनं तस्मै दत्वा अथान्यतरेष्वितरेष्वेव एकस्तनं व्रतमुपैति । अथ द्वावित्यादि । पूर्ववत् 'चतुरश्शसि' इत्यन्तोदात्तत्वम् । एतद्वा इत्यादि । क्षुरवत्पुनातीति क्षुरपविः, 'अच हः' इतीप्रत्ययः, उपमानपर्वूपदप्रकृतिस्वरत्वम् । संज्ञा चेयं, क्षुरग्रहणेन चैहिकफलहेतुत्वमस्य प्रतिपाद्यते । यथोक्तं - 'यः कामयेतास्मिन्मे लोहऽर्धुकं स्यात्' इति । तदेवाह - येन प्रजातानित्यादि । अन्य अहुः - पविशब्देन मुखमुच्यते । क्षुरस्य पविरिव पविर्यस्येति 'सप्तम्युपमानपर्वूपदस्य' इति बहुव्रीहिः । क्षुरधारा नामैतद्व्रतं अकार्त्स्न्येन सद्यश्शातकमिति । तदेवाह - येनेति । येन जातान् भ्रातृव्यान् प्रणुदते प्रतिनिवर्तयति तदिदं क्षुरपविनाम व्रतमिति । यद्वा - येन कारणेन जातान् प्रणुदते जनिष्यमाणांश्च प्रणुदते तेनेदं क्षुरपवीत्याचक्षते इति । अथो अपिच कनीयसा भूय उपैति अल्पतरेण बहुतरं प्राप्नोति, लोके ह्यल्पीयसा महीयः प्राप्नोति बीजेनेव पादपम् । 'युवाल्पयोः कनन्यतरस्यां' इति कनादेशः । एवमिदमपीति । सुजघनं नामैतत् व्रतं तपस्यं सुवर्ग्यं च तपस्स्वर्गयोर्निमित्तम् । 'गोद्व्यचः' इति यत् । यद्वा - तपसे स्वर्गाय च हितम् । गवादित्वाद्यत् । सुजघनमिति संज्ञानिर्वचनं तु - शोभनोस्य जघनश्चरमो भागः महाफलत्वादिति । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । अथो अपिच प्रजया पशुभिश्च प्रजायते अनेन यजमानः, सुजघनत्वेन प्रजननहेतुत्वात् ।।
4 यवागूरिति ।। राजन्यस्य । 'राजश्वशुराद्यत्' राज्ञोपत्ये जातिग्रहणमिति । क्रूरेवेति । भोक्तुः पीडाकरत्वात् । राजन्योपि क्रूरः पीडारुचित्वात् । वज्रस्येदं रूपं यत्क्रूरत्वं नाम, तस्मात्समृद्ध्यै भवति स्वयं क्रूरस्य क्रूरेण योगः । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ।।
5 आमिक्षेति ।। यत्संवर्तते साऽऽमिक्षेति । विशोपत्यं वैश्यः, गर्गादित्याद्यञ् । पाकयज्ञस्येदं रूपं, तस्य तथाविधद्रव्यसाध्यत्वात् । पक्वेन अन्नादिना यज्ञः पाकयज्ञः, कृदुत्तरपदप्रकृतिस्वरत्वम् । तस्मात्पुष्ट्यै भवति ।।
6 पयो ब्राह्मणस्येति ।। तेजस्वी ब्राह्मणः, तेजः पयः, तस्मादात्मीयेन तेजसा सह तेजनं पय आत्मन् धत्ते । पूर्ववत् ङेर्लुक्, नलोपाभावश्च । अथो अपि च । पयसा वा इत्यादि । गतम् ।।
7 त्रिव्रत इति ।। त्रिषु लोकेषु व्रतं भोजनमस्येति त्रिव्रतः, द्वयोः द्विव्रतः, एकस्मिन् एकव्रतः । व्रतसमानाधिकरणा वा बहुव्रीहयः । तत्र मनोः कालत्रयमाह - प्रातरित्यादि । तन्मनोः प्रातर्मध्यन्दिने सायं च यस्मादासीत् तस्मात्त्रिव्रतो मनुरासीदिति । द्वितीयपक्षे व्रतस्य त्रैविध्याय कालभेदप्रदर्शनम् । मध्ये भवः कालो मध्यन्दिनं, प्रातरादिना साहचर्यादह्न इति गम्यते । 'मध्यो मध्यन्दिनं चास्मात्' । पाकयज्ञस्येदं रूपं, तस्य तेषु त्रिषु लोकेषु कालेषु विधानात् । तस्मात्ते पुष्ट्यै भवन्ति । प्रातश्च सायं चेति । प्रातस्सायं चासुराणां भोजनमासीत्, तस्माद्द्विव्रता इति । निर्मध्यं मध्यशून्यम् । निरुदकादिरुत्तरपदान्तोदात्तः । क्षुध एतद्रूपं, यत्र क्षुत्तीव्रा भवति तत्र भोजनस्य लुप्तत्वात् । ततस्ते असुराः पराभवम् नष्टाः । मध्यन्दिने इति । मध्यन्दिने व्रतं भोजनमेकं मध्यरात्रे चैषामेकमिति एकव्रताः । ततस्ते अभवन् भूतिमन्तस्स्वर्गं च गताः । यदस्येत्यादि । यद्यस्मादस्य मध्यन्दिने मध्यरात्रे व्रतं भवति तस्मान्मध्यतो मध्यमे वयसि अन्नेन सह मांसादि प्रभूतं भुञ्जते मध्यमे एव स्थाने ऊर्जमन्नं धत्ते स्थापयति । 'आद्यादिभ्यस्तसिः' । तस्माद्भ्रातृव्याभिभूत्यै भवति । दासीभारादिः । भवत्यात्मनेत्यादि । गतम् ।।
8 गर्भ इत्यादि ।। गर्भस्थानीयो दीक्षितः योनिस्थानीयं दीक्षितविमितम् । दीक्षितस्य विमितं यत्र यत्र दीक्षितो विमीयते विशेषेण प्रक्षिप्यते योनाविव गर्भः । डु मिञ् प्रक्षेपणे । शालायां च दीक्षितो विमीयते तस्मात्तत्स्थानाद्यदि प्रवसेत् योनेर्गर्भस्रावसमं तत्स्यात् तस्मान्न प्रवस्तव्यमात्मनो गोपीथाय अविनाशाय स्थापनार्थम् । एष वा इति । अग्निः व्याघ्रस्थानीयः कुलस्य च गोप्ता भवति । तस्मादप्रमत्तेनोपचरितव्यं, दुराराधत्वादुपकारित्वाच्च । तस्मादीदृशमेनमुत्सृज्य यदि प्रवसेत् एन मनूत्थाय स्वयमपि स्वस्थानादुच्चलितो भूत्वा हन्तोः हन्तुमीश्वरः प्रभुः । तस्मान्न प्रवस्तव्यमात्मनो गुप्त्यै स यथात्मानं गोपायेत् । 'ईश्वरे तोसुन्कसुनौ' इति तोसुन्प्रत्ययः ।।
9 दक्षिणतश्शय इति विधिः ।। आहवनीयस्य दक्षिणतश्शयीत यजमानः । 'लोपस्त आत्मनेपदेषु' इति तलोपः । एतत् यजमानस्यायतनं, तस्मात्स्व एवायतने शये शयनं कृतं भवति ।।
10 अग्निमित्यादिविधिः ।। अग्निमभ्यावृत्याभिमुख्येनावृत्य शयीत अग्न्यभिमुख इत्यर्थः । देवताश्च यज्ञं चाभ्यावृत्य शयनं कृतं भवति । न ते ष्टष्ठतः कृता भवन्ति ।।
इति षष्ठे द्वितीये पञ्चमोनुवाकः ॥