राज॒न्यो॑ वज्र॑स्य रू॒पꣳ समृ॑द्ध्या आ॒मिक्षा॒ वैश्य॑स्य पाकय॒ज्ञ्स्य॑ रू॒पं पुष्ट्यै॒ पयो᳚ ब्राह्म॒णस्य॒ तेजो॒ वै ब्रा᳚ह्म॒णस्तेजः॒ पय॒स्तेज॑सै॒व तेजः॒ पय॑ आ॒त्मन् ध॒त्ते ऽथो॒ पय॑सा॒ वै गर्भा॑ वर्द्धन्ते॒ गर्भ॑ इव॒ खलु॒ वा ए॒ष यद् दी᳚क्षि॒तो यद॑स्य॒ पयो᳚ व्र॒तं भव॑त्या॒त्मान॑मे॒व तद् व॑र्द्धयति॒ त्रिव्र॑तो॒ वै मनु॑रासी॒द् द्विव्र॑ता॒ असु॑रा॒ एक॑व्रता- [ ]
पदपाठः (Word-by-word)
रा॒ज॒न्यः॑ । वज्र॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं-ऋ॒द्ध्यै॒ । आ॒मिक्षा᳚ । वैश्य॑स्य । पा॒क॒य॒ज्ञ्स्येति॑ पाक - य॒ज्ञ्स्य॑ । रू॒पम् । पुष्ट्यै᳚ । पयः॑ । ब्रा॒ह्म॒णस्य॑ । तेजः॑ । वै । ब्रा॒ह्म॒णः । तेजः॑ । पयः॑ । तेज॑सा । ए॒व । तेजः॑ । पयः॑ । आ॒त्मन्न् । ध॒त्ते॒ । अथो॒ इति॑ । पय॑सा । वै । गर्भाः᳚ । व॒द्र्ध॒न्ते॒ । गर्भः॑ । इ॒व॒ । खलु॑ । वै । ए॒षः । यत् । दी॒क्षि॒तः । यत् । अ॒स्य॒ । पयः॑ । व्र॒तम् । भव॑ति । आ॒त्मान᳚म् । ए॒व । तत् । व॒द्र्ध॒य॒ति॒ । त्रिव्र॑त॒ इति॒ त्रि - व्र॒तः॒ । वै । मनुः॑ । आ॒सी॒त् । द्विव्र॑ता॒ इति॒ द्वि - व्र॒ताः॒ । असु॑राः । एक॑व्रता॒ इत्येक॑ - व्र॒ताः॒ ।