दे॒वाः प्रा॒तर्म॒द्ध्यंदि॑ने सा॒यं तन् मनो᳚र्व्र॒तमा॑सीत् पाकय॒ज्ञ्स्य॑ रू॒पं पुष्ट्यै᳚ प्रा॒तश्च॑ सा॒यं चासु॑राणां निर्म॒द्ध्यं क्षु॒धो रू॒पं तत॒स्ते परा॑ऽभवन् म॒द्ध्यंदि॑ने मद्ध्यरा॒त्रे दे॒वानां॒ तत॒स्ते॑ऽभवन्थ् सुव॒र्गं ॅलो॒कमा॑य॒न्॒. यद॑स्य म॒द्ध्यंदि॑ने मद्ध्यरा॒त्रे व्र॒तं भव॑ति मद्ध्य॒तो वा अन्ने॑न भुञ्जते मद्ध्य॒त ए॒व तदूर्जं॑ धत्ते॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒- [ ]
पदपाठः (Word-by-word)
दे॒वाः । प्रा॒तः । म॒द्ध्यन्दि॑ने । सा॒यम् । तत् । मनोः᳚ । व्र॒तम् । आ॒सी॒त् । पा॒क॒य॒ज्ञ्स्येति॑ पाक - य॒ज्ञ्स्य॑ । रू॒पम् । पुष्ट्यै᳚ । प्रा॒तः । च॒ । सा॒यम् । च॒ । असु॑राणाम् । नि॒र्म॒द्ध्यमिति॑ निः-म॒द्ध्यम् । क्षु॒धः । रू॒पम् । ततः॑ । ते । परेति॑ । अ॒भ॒व॒न्न् । म॒द्ध्यन्दि॑ने । म॒द्ध्य॒रा॒त्र इति॑ मद्ध्य - रा॒त्रे । दे॒वाना᳚म् । ततः॑ । ते । अ॒भ॒व॒न्न् । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न्न् । यत् । अ॒स्य॒ । म॒द्ध्यन्दि॑ने । म॒द्ध्य॒रा॒त्र इति॑ मद्ध्य-रा॒त्रे । व्र॒तम् । भव॑ति । म॒द्ध्य॒तः । वै । अन्ने॑न । भु॒ञ्ज॒ते॒ । म॒द्ध्य॒तः । ए॒व । तत् । ऊर्ज᳚म् । ध॒त्ते॒ । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ । भव॑ति । आ॒त्मना᳚ ।