प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.2.8.1 TS 6.2.8.1
सोत्त॑रवे॒दिर॑ब्रवी॒थ् सर्वा॒न् मया॒ कामा॒न् व्य॑श्नव॒थेति॒ ते दे॒वा अ॑कामय॒न्तासु॑रा॒न् भ्रातृ॑व्यान॒भि भ॑वे॒मेति॒ ते॑ऽजुहवुः सिꣳ॒॒हीर॑सि सपत्नसा॒ही स्वाहेति॒ तेऽसु॑रा॒न् भ्रातृ॑व्या-न॒भ्य॑भव॒न् तेऽसु॑रा॒न् भ्रातृ॑व्या-नभि॒भूया॑कामयन्त प्र॒जां ॅवि॑न्देम॒हीति॒ ते॑ऽजुहवुः सिꣳ॒॒हीर॑सि सुप्रजा॒वनिः॒ स्वाहेति॒ ते प्र॒जाम॑विन्दन्त॒ ते प्र॒जां ॅवि॒त्त्वा- [ ]
पदपाठः (Word-by-word)
सा । उ॒त्त॒र॒वे॒दिरित्यु॑त्तर-वे॒दिः । अ॒ब्र॒वी॒त् । सर्वान्॑ । मया᳚ । कामान्॑ । वीति॑ । अ॒श्न॒व॒थ॒ । इति॑ । ते । दे॒वाः । अ॒का॒म॒य॒न्त॒ । असु॑रान् । भ्रातृ॑व्यान् । अ॒भीति॑ । भ॒वे॒म॒ । इति॑ । ते । अ॒जु॒ह॒वुः॒ । सिꣳ॒॒हीः । अ॒सि॒ । स॒प॒त्न॒सा॒हीति॑ सपत्न - सा॒ही । स्वाहा᳚ । इति॑ । ते । असु॑रान् । भ्रातृ॑व्यान् । अ॒भीति॑ । अ॒भ॒व॒न्न् । ते । असु॑रान् । भ्रातृ॑व्यान् । अ॒भि॒भूयेत्य॑भि - भूय॑ । अ॒का॒म॒य॒न्त॒ । प्र॒जामिति॑ प्र-जाम् । वि॒न्दे॒म॒हि॒ । इति॑ । ते । अ॒जु॒ह॒वुः॒ । सिꣳ॒॒हीः । अ॒सि॒ । सु॒प्र॒जा॒वनि॒रिति॑ सुप्रजा - वनिः॑ । स्वाहा᳚ । इति॑ । ते । प्र॒जामिति॑ प्र-जाम् । अ॒वि॒न्द॒न्त॒ । ते । प्र॒जामिति॑ प्र - जाम् । वि॒त्त्वा ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

उत्तरवेदेर्वरवाक्यमनुसृत्यैकैकं काममेकैकाहुत्या प्राप्नुवन्नित्येतं मन्त्रसूचितमर्थं दर्शयति —

‘सोत्तरवेदिरब्रवीत्सर्वान्मया कामान्व्यश्नवथेति ते देवा अकामयन्तासुरान्भ्रातृव्यानभि भवेमेति तेऽजुहवुः सिंहीरसि सपत्नसाही स्वाहेति तेऽसुरान्भ्रातृव्यानभ्यभवन्तेऽसुरान्भ्रातृव्यानभिभूयाकामयन्त प्रजां विन्देमहीति तेऽजुहवुः सिंहीरसि सुप्रजावनिः स्वाहेति ते प्रजामविन्दन्त ते प्रजां वित्त्वाऽकामयन्त पशून्विन्देमहीति तेऽजुहवुः सिंहीरसि रायस्पोषवनिः स्वाहेति ते पशूनविन्दन्त ते पशून्वित्त्वाऽकामयन्त प्रतिष्ठां विन्देमहीति तेऽजुहवुः सिंहीरस्यादित्यवनिः स्वाहेति त इमां प्रतिष्ठामविन्दन्त त इमां प्रतिष्ठां वित्त्वाऽकामयन्त देवता आशिष उपेयामेति तेऽजुहवुः सिंहीरस्या वह देवान्देवयते यजमानाय स्वाहेति ते देवता आशिष उपाऽयन्’ (सं. का. ६ प्र. २ अ. ८) इति।

आशिष इष्यमाणा हविःस्वीकारिणीर्देवता उपेयाम प्राप्नुयामेति कामयमाना यष्टारस्ते देवाश्चरमाहुत्या तथैव प्राप्नुवन्। कर्मफलानि वाऽत्राऽशीः शब्देनोच्यन्ते।

आहुतिसंख्यां विधत्ते —

‘पञ्च कृत्वो व्याघारयति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे’ (सं. का. ६ प्र. २ अ. ८) इति।

गुणं विधत्ते —

‘अक्ष्णया व्याघारयति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै’ (सं. का. ६ प्र. २ अ. ८) इति।

अक्ष्णया वक्रगत्या। दक्षिणेंऽस उत्तरश्रोणिरित्यादिका वक्रगतिः। पशवः शयनकाले पादाद्यङ्गानि वक्रत्वेन प्रहरन्ति संकोचयन्ति। अत आहुतिवक्रत्वं प्रतिष्ठित्यै भवति।

विधत्ते —

“भूतेभ्यस्त्वेति स्रुचमुद्गृह्णाति य एव देवा भूतास्तेषां तद्भागधेयं तानेव तेन प्रीणाति” (सं. का. ६ प्र. २ अ. ८) इति।

भूतोद्देशेन स्रुगुद्ग्रहणे सत्कृताः सन्तः प्रीयन्ते।

विधत्ते —

‘पौतुद्रवान्परिधीन्परि दधात्येषां लोकानां विधृत्यै’ (सं. का. ६ प्र. २ अ. ८) इति।

परिधित्रयेण त्रयो लोका विधृता भवन्ति। पूतुद्रुर्देवदारुः।

संभारान्विधातुं प्रस्तौति —

‘अग्नेस्त्रयो ज्यायासो भ्रातर आसन्ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त सोऽग्निरबिभेदित्थं वाव स्य आर्तिमाऽरिष्यतीति स निलायत स यां वनस्पतिष्ववसत्तां पूतुद्रौ यामोषधीषु ता सुगन्धितेजने यां पशुषु तां पेत्वस्यान्तरा शृङ्गे तं देवताः प्रैषमैच्छन्तमन्वविन्दन्तमब्रुवन्नुप न आ वर्तस्व हव्यं नो वहेति सोऽब्रवीद्वरं वृणै यदेव गृहीतस्याहुतस्य बहिःपरिधि स्कन्दात्तन्मे भ्रातृणां भागधेयमसदिति तस्माद्यद्गृहीतस्याहुतस्य वहिःपरिधि स्कन्दति तेषां तद्भागधेयं तानेव तेन प्रीणाति सोऽमन्यतास्थन्वन्तो मे पूर्वे भ्रातरः प्रामेषतास्थानि शातया इति स यान्यस्थान्यशातयत तत्पूतुद्र्वभवद्यन्मा समुपभृतं तद्गुल्गुलु” (सं. का. ६ प्र. २ अ. ८) इति।

भ्रातरो हविर्वहनप्रयासेन यथा मृता इत्थमेव सोऽन्योऽपि मृतिं प्राप्स्यतीति भीतोऽग्निर्निरूढो वनस्पत्योषधिपशुष्वेकैकां रात्रिमवसत्। देवदारुवृक्षे सुगन्धयुक्ततृणे पेत्वस्य मेषस्य शृङ्गयोर्मध्ये च क्रमेण तं वसन्तं देवा हविर्वहने प्रेरयितुमैच्छन् तमन्विष्यालभन्त। स्रुगुद्गृहीतस्य हविषो यल्लेशरूपं होमात्पूर्वं परिधिभ्यो बहिर्हविः स्कन्देत्स भ्रातृभागोऽस्त्वित्यग्नेर्वरः। अस्थन्वन्तस्त्वगस्थिमांसोपेताः प्रामेषत मृतास्तदीयान्यस्थीनि मांसानि च शातयै परित्यजानि। परित्यक्तानि तानि पूतुद्रु गुल्गुल्वभवताम्।

विधत्ते —

“यदेतान्त्संभारान्त्संभरत्यग्निमेव तत्सं भरति” (सं. का. ६ प्र. २ अ. ८) इति।

मन्त्रगतेन पुरीषशब्देन संभाररूपं वह्निपूरणं विवक्षितमित्याह —

‘अग्नेः पुरीषमसीत्याहाग्नेर्ह्येतत्पुरीषं यत्संभाराः’ (सं. का. ६ प्र. २ अ. ८) इति।

गुल्गुलुसुगन्धितेजनशुक्लोर्णास्तुकाः संभाराः।

किंच देवदारुपरिधिरूपेण वह्निना भ्रातरोऽस्य संनिधीयन्त इत्याह —

‘अथो स्वल्वाहुरेते वावैनं ते भ्रातरः परि शेरे यत्पौतुद्रवाः परिधय इति’ (सं. का. ६ प्र. २ अ. ८) इति।

एवमग्निं परितः शेरते।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सोत्तरवेदिरित्यादि ।। पूर्वोक्तमवसरे स्मर्यते । अत एव सेत्युक्तम् । पूर्वं ह्युत्तरवेद्युक्तिः 'सर्वान् मया कामान् व्यश्नवथ पूर्वां तु माऽग्रेतडुतिरश्नवतै' इति । अतः प्राप्ते व्याघारणकाले कामान् कामयितुं देवा आरभन्त । तत्कामानुसारेण व्याधारणमन्त्रपदानि व्याख्यातुमुपक्रमते - ते देवा इत्यादि । गतम् । तेऽजुहवुः दक्षिणेंऽसे व्याघारयन् । सपत्नसाहीति । सपत्नानां शत्रूणामभिभवित्री । पुनर्भ्रातृव्याभिभवानुवादो विस्रम्भातिशयप्रतिपादनार्थः ।।
2 उत्तरश्रोण्यामजुहवुः - सुप्रजावनिस्स्वाहेति ।। शोभनायाः प्रजायाः संभक्तेति ।।
3 दक्षिणस्यां श्रोण्यामजुहवुः - रायस्पोषवनिरिति ।। रायो धनस्य पशुलक्षणस्य या पुष्टिस्तस्यास्संभक्तेति ।।
4 उत्तरेंऽसे अजुहवुः - आदित्यवनिरिति ।। आदित्यानामदितिपुत्राणां संभक्तेति । इयं वा अदिरिति ।।
5 देवता इत्यादि ।। देवता यागसंबन्धिनीः आशिषः यागफलानि च उपेयाम प्राप्नुयामेति मध्येऽजुडवुः - सिंहीरस्यावह देवानिति ।।
6 पञ्च कृत्व इत्यादि ।। व्याख्यातम् । अक्ष्णयेति । कोणगत्या । तस्मादिति । अक्ष्णया अनार्जवेन अङ्गानि पदानि पशवः प्रहरन्ति संकोचयन्ति शयनादिषु गमनादिषु वा क्षिपन्ति । एवं क्रियमाणं प्रतिष्ठित्यै भवति । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ।।
7 भूतेभ्यस्त्वेति विधिः ।। ये देवाः देवभूता उत्पन्नाः तेषां तत्स्रुच उद्गृहणं भागधेयम् ।।
8 पौतुद्रवानिति विधिः ।। पूतुद्रवः देवदारवः । 'ओरञ्' । तत्परिधीन् परिदधाति एषां त्रयाणां लोकानां विधारणार्थं तद्भवति ।।
9 अग्नेस्त्रय इत्यादि ।। ज्यायांसः पूर्वजाः हव्यं वहन्तः प्रामीयन्त हविर्वहनक्लेशेन मृताः । सोग्निर्ज्यायसां मरणं दृष्ट्वा अबिभेत् । स्यः यो वा कश्चित् एतत्कुर्वन् इत्थमार्तिमाऽरिष्यतीति तस्मान्मयाऽपि नेदं कर्तव्यमिति स तथा भीतः निलायत देवेभ्यो भीतोपासरत् । 'उपसर्गेस्यायतौ' इति लत्वम् । निर्गत्य वनस्पत्यादिषु । प्रच्छन्नोवसत् बह्वी रात्रीः । तत्र सोग्निः यां रात्रिं वनस्पतिष्विमां रात्रिं वसामीति बुद्धिमकरोत् तां रात्रिं पूतुद्रौ देवदारौ द्रुमे । पूतुद्रुशब्दो मितद्रवादिः । वनस्पतिशब्दे सुट्स्वरावुक्तौ । यामोषधीष्ववसत् तां सुगन्धितेजने सुगन्धितृणे अवसत् । यां पशुष्ववसत् तां पेत्वस्य पलितस्य मेषस्य शृङ्गयोर्मध्ये अवसत् । पूर्ववद्द्वितीया ।।
10 तं देवता इत्यादि ।। प्रैषं स्वकृत्ये प्रेषितुं ऐच्छन् । तं चान्विष्यालभन्त । तमब्रुवन्नित्यादि । गतम् । परिधिभ्यो बहिः बहिःपरिधि 'अपपरिबहिरञ्चवः' इति समासः । स्कन्दात् स्कन्देत् । लेट्याडागमः । भागधेयमसत् भागोस्तु, लेट्यडागमः । तस्मादित्यादि । गतम् । सोमन्यतेति । अस्थन्वन्तः प्रमेषत अस्थिमांसादिशरीरत्वान्मृताः । 'छन्दस्यपि दृश्यते' इति अनङ्, अनो नुट्, ' ह्रस्वनुड्भ्यां मतुप्' इति मतुप उदात्तत्वम् । अतस्तेषामस्थानि अस्थीनि शातयै अवच्छादयन्त्विति । स यानीत्यादि । गतम् । 'शदेरगतौ तः' इति तत्वम् । उपमृतं समीपे मृतं अस्थिशातनेन भूमौ च्युतं तद्गुल्गुल्वभवत् ।।
11 यदेतानित्यादि ।। बहुवचनात्सुगन्धितेजनं च । अग्निमेवेति । अग्न्यभेदादेषाम् । 'अग्नेर्भस्मासि' इति संभारनिवपनमन्त्रे अग्नेः पुरीषमसीत्याह यस्मादग्नेस्तेजश्शररिस्य एतत्पुरीषं पूरणमेतत्संभारनाम तस्मादेवमुच्यते इति । संभारशब्दः थाथादिनोत्तरपदान्तोदात्तः । अथो अपि खल्वाहुः एनमग्निमेते भ्रातर एव ते परिशेरे परितश्शेरते यस्मादेते पौतुद्रवाः परिधयः परिधीयन्ते इति । शीङो रुट्, 'लोपस्त आत्मनेपदेषु' इति तलोपः ।।
इति षष्ठे द्वितीये अष्टमोनुवाकः ॥