यज॑मानाय॒ स्वाहेति॒ ते दे॒वता॑ आ॒शिष॒ उपा॑य॒न् पञ्च॒ कृत्वो॒ व्याघा॑रयति॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाव॑ रुन्धे ऽक्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्रह॑रन्ति॒ प्रति॑ष्ठित्यै भू॒तेभ्य॒स्त्वेति॒ स्रुच॒मुद्गृ॑ह्णाति॒ य ए॒व दे॒वा भू॒तास्तेषां॒ तद्-भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति॒ पौतु॑द्रवान् परि॒धीन् परि॑ दधात्ये॒षां- [ ]
पदपाठः (Word-by-word)
यज॑मानाय । स्वाहा᳚ । इति॑ । ते । दे॒वताः᳚ । आ॒शिष॒ इत्या᳚ - शिषः॑ । उपेति॑ । आ॒य॒न्न् । पञ्च॑ । कृत्वः॑ । व्याघा॑रय॒तीति॑ वि - आघा॑रयति । पञ्चा᳚क्ष॒रेति॒ पञ्च॑-अ॒क्ष॒रा॒ । प॒ङ्क्तिः । पाङ्क्तः॑ । य॒ज्ञ्ः । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्धे॒ । अ॒क्ष्ण॒या । व्याघा॑रय॒तीति॑ वि-आघा॑रयति । तस्मा᳚त् । अ॒क्ष्ण॒या । प॒शवः॑ । अङ्गा॑नि । प्रेति॑ । ह॒र॒न्ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । भू॒तेभ्यः॑ । त्वा॒ । इति॑ । स्रुच᳚म् । उदिति॑ । गृ॒ह्णा॒ति॒ । ये । ए॒व । दे॒वाः । भू॒ताः । तेषा᳚म् । तत् । भा॒ग॒धेय॒मिति॑ भाग-धेय᳚म् । तान् । ए॒व । तेन॑ । प्री॒णा॒ति॒ । पौतु॑द्रवान् । प॒रि॒धीनिति॑ परि - धीन् । परीति॑ । द॒धा॒ति॒ । ए॒षाम् ।