ॅलो॒कानां॒ ॅविधृ॑त्या अ॒ग्नेस्त्रयो॒ ज्यायाꣳ॑सो॒ भ्रात॑र आस॒न् ते दे॒वेभ्यो॑ ह॒व्यं ॅवह॑न्तः॒ प्रामी॑यन्त॒ सो᳚ऽग्निर॑बिभेदि॒त्थं ॅवाव स्य आर्ति॒माऽरि॑ष्य॒तीति॒ स निला॑यत॒ स यां ॅवन॒स्पति॒ष्वव॑स॒त्तां पूतु॑द्रौ॒ यामोष॑धीषु॒ ताꣳ सु॑गन्धि॒तेज॑ने॒ यां प॒शुषु॒ तां पेत्व॑स्यान्त॒रा शृङ्गे॒ तं दे॒वताः॒ प्रैष॑मैच्छ॒न् तमन्व॑विन्द॒न् तम॑ब्रुव॒- [ ]
पदपाठः (Word-by-word)
लो॒काना᳚म् । विधृ॑त्या॒ इति॒ वि-धृ॒त्यै॒ । अ॒ग्नेः । त्रयः॑ । ज्यायाꣳ॑सः । भ्रात॑रः । आ॒स॒न्न् । ते । दे॒वेभ्यः॑ । ह॒व्यम् । वह॑न्तः । प्रेति॑ । अ॒मी॒य॒न्त॒ । सः । अ॒ग्निः । अ॒बि॒भे॒त् । इ॒त्थम् । वाव । स्यः । आर्ति᳚म् । एति॑ । अ॒रि॒ष्य॒ति॒ । इति॑ । सः । निला॑यत । सः । याम् । वन॒स्पति॑षु । अव॑सत् । ताम् । पूतु॑द्रौ । याम् । ओष॑धीषु । ताम् । सु॒ग॒न्धि॒तेज॑न॒ इति॑ सुगन्धि - तेज॑ने । याम् । प॒शुषु॑ । ताम् । पेत्व॑स्य । अ॒न्त॒रा । शृङ्गे॒ इति॑ । तम् । दे॒वताः᳚ । प्रैष॒मिति॑ प्र -एष᳚म् । ऐ॒च्छ॒न्न् । तम् । अन्विति॑ । अ॒वि॒न्द॒न्न् । तम् । अ॒ब्रु॒व॒न्न् ।