प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.2.8.5 TS 6.2.8.5
-न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒ सो᳚ऽब्रवी॒द् वरं॑ ॅवृणै॒ यदे॒व गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्दा॒त् तन्मे॒ भ्रातृ॑णां भाग॒धेय॑मस॒दिति॒ तस्मा॒द्-यद्-गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्द॑ति॒ तेषां॒ तद् भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति॒ सो॑ऽमन्यतास्थ॒न्वन्तो॑ मे॒ पूर्वे॒ भ्रात॑रः॒ प्रामे॑षता॒स्थानि॑ शातया॒ इति॒ स यान्य॒- [ ]
पदपाठः (Word-by-word)
उपेति॑ । नः॒ । एति॑ । व॒र्त॒स्व॒ । ह॒व्यम् । नः॒ । व॒ह॒ । इति॑ । सः । अ॒ब्र॒वी॒त् । वर᳚म् । वृ॒णै॒ । यत् । ए॒व । गृ॒ही॒तस्य॑ । अहु॑तस्य । ब॒हिः॒प॒रि॒धीति॑ बहिः - प॒रि॒धि । स्कन्दा᳚त् । तत् । मे॒ । भ्रातृ॑णाम् । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । अ॒स॒त् । इति॑ । तस्मा᳚त् । यत् । गृ॒ही॒तस्य॑ । अहु॑तस्य । ब॒हिः॒प॒रि॒धीति॑ बहिः - प॒रि॒धि । स्कन्द॑ति । तेषा᳚म् । तत् । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । तान् । ए॒व । तेन॑ । प्री॒णा॒ति॒ । सः । अ॒म॒न्य॒त॒ । अ॒स्थ॒न्वन्त॒ इत्य॑स्थन्न् - वन्तः॑ । मे॒ । पूर्वे᳚ । भ्रात॑रः । प्रेति॑ । अ॒मे॒ष॒त॒ । अ॒स्थानि॑ । शा॒त॒यै॒ । इति॑ । सः । यानि॑ ।
पदसंख्या: 50