-हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो᳚ऽद्ध्व॒र्युर्भव॑ति॒ न य॒ज्ञ्ꣳ रक्षाꣳ॑सि घ्नन्ति॒ प्राची॒ प्रेत॑मद्ध्व॒रं क॒ल्प॑यन्ती॒ इत्या॑ह सुव॒र्गमे॒वैने॑ लो॒कं ग॑मय॒त्यत्र॑ रमेथां॒ ॅवर्ष्म॑न् पृथि॒व्या इत्या॑ह॒ वर्ष्म॒ ह्ये॑तत् पृ॑थि॒व्या यद् दे॑व॒यज॑नꣳ॒॒ शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॒ यद्ध॑वि॒र्द्धानं॑ दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या- [ ]
पदपाठः (Word-by-word)
हिर॑ण्यम् । उ॒पास्येत्यु॑प - अस्य॑ । जु॒हो॒ति॒ । अ॒ग्नि॒वतीत्य॑ग्नि-वति॑ । ए॒व । जु॒हो॒ति॒ । न । अ॒न्धः । अ॒द्ध्व॒र्युः । भव॑ति । न । य॒ज्ञ्म् । रक्षाꣳ॑सि । घ्न॒न्ति॒ । प्राची॒ इति॑ । प्रेति॑ । इ॒त॒म् । अ॒द्ध्व॒रम् । क॒ल्प॑यन्ती॒ इति॑ । इति॑ । आ॒ह॒ । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । ए॒ने॒ इति॑ । लो॒कम् । ग॒म॒य॒ति॒ । अत्र॑ । र॒मे॒था॒म् । वर्ष्मन्न्॑ । पृ॒थि॒व्याः । इति॑ । आ॒ह॒ । वर्ष्म॑ । हि । ए॒तत् । पृ॒थि॒व्याः । यत् । दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । शिरः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । ह॒वि॒द्र्धान॒मिति॑ हविः-धान᳚म् । दि॒वः । वा॒ । वि॒ष्णो॒ । उ॒त । वा॒ । पृ॒थि॒व्याः ।