इत्या॒शीर्प॑दय॒र्चा दक्षि॑णस्य हवि॒र्द्धान॑स्य मे॒थीं नि ह॑न्ति शीर्.ष॒त ए॒व य॒ज्ञ्स्य॒ यज॑मान आ॒शिषोऽव॑ रुन्धे द॒ण्डो वा औ॑प॒रस्तृ॒तीय॑स्य हवि॒र्द्धान॑स्य वषट्का॒रे-णाक्ष॑-मच्छिन॒द्-यत्-तृ॒तीयं॑ छ॒दिर्. ह॑वि॒र्द्धान॑यो-रुदाह्रि॒यते॑ तृ॒तीय॑स्य हवि॒र्द्धान॒स्याव॑रुद्ध्यै॒ शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॒ यद्ध॑वि॒र्द्धानं॒ ॅविष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॒सीत्या॑ह॒ तस्मा॑देताव॒द्धा शिरो॒ विष्यू॑तं॒ ॅविष्णोः॒ ( ) स्यूर॑सि॒ विष्णो᳚र्द्ध्रु॒वम॒सीत्या॑ह वैष्ण॒वꣳ हि दे॒वत॑या हवि॒र्द्धानं॒ ॅयं प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒याद्यत् तं न वि॑स्रꣳ॒॒ सये॒दमे॑हेनाद्ध्व॒र्युः प्रमी॑येत॒ तस्मा॒थ् स वि॒स्रस्यः॑ ॥
पदपाठः (Word-by-word)
इति॑ । आ॒शीर्प॑द॒येत्या॒शीः - प॒द॒या॒ । ऋ॒चा । दक्षि॑णस्य । ह॒वि॒द्र्धान॒स्येति॑ हविः - धान॑स्य । मे॒थीम् । नीति॑ । ह॒न्ति॒ । शी॒र्॒.ष॒तः । ए॒व । य॒ज्ञ्स्य॑ । यज॑मानः । आ॒शिष॒ इत्या᳚ - शिषः॑ । अवेति॑ । रु॒न्धे॒ । द॒ण्डः । वै । औ॒प॒रः । तृ॒तीय॑स्य । ह॒वि॒द्र्धान॒स्येति॑ हविः - धान॑स्य । व॒ष॒ट्का॒रेणेति॑ वषट् - का॒रेण॑ । अक्ष᳚म् । अ॒च्छि॒न॒त् । यत् । तृ॒तीय᳚म् । छ॒दिः । ह॒वि॒द्र्धान॒योरिति॑ हविः-धान॑योः । उ॒दा॒ह्रि॒यत॒ इत्यु॑त् - आ॒ह्रि॒यते᳚ । तृ॒तीय॑स्य । ह॒वि॒द्र्धान॒स्येति॑ हविः - धान॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । शिरः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । ह॒वि॒द्र्धान॒मिति॑ हविः-धान᳚म् । विष्णोः᳚ । र॒राट᳚म् । अ॒सि॒ । विष्णोः᳚ । पृ॒ष्ठम् । अ॒सि॒ । इति॑ । आ॒ह॒ । तस्मा᳚त् । ए॒ता॒व॒द्धेत्ये॑तावत् - धा । शिरः॑ । विष्यू॑त॒मिति॒ वि - स्यू॒त॒म् । विष्णोः᳚ ( ) । स्यूः । अ॒सि॒ । विष्णोः᳚ । ध्रु॒वम् । अ॒सि॒ । इति॑ । आ॒ह॒ । वै॒ष्ण॒वम् । हि । दे॒वत॑या । ह॒वि॒द्र्धान॒मिति॑ हविः - धान᳚म् । यम् । प्र॒थ॒मम् । ग्र॒न्थिम् । ग्र॒थ्नी॒यात् । यत् । तम् । न । वि॒स्रꣳ॒॒सये॒दिति॑ वि - स्रꣳ॒॒सये᳚त् । अमे॑हेन । अ॒द्ध्व॒र्युः । प्रेति॑ । मी॒ये॒त॒ । तस्मा᳚त् । सः । वि॒स्रस्य॒ इति॑ वि-स्रस्यः॑ ॥