तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त् तस्मै॑ तृ॒तीय॒मुद॑यच्छ॒त् तं ॅविष्णु॒रन्व॑तिष्ठत ज॒हीति॒ सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं मयि॑ वी॒र्यं॑ तत् ते॒ प्र दा᳚स्या॒मीति॒ तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त् तं निर्मा॑यं भू॒तम॑हन्. य॒ज्ञो हि तस्य॑ मा॒याऽऽसी॒द्-यदु॒क्थ्यो॑ गृ॒ह्यत॑ इन्द्रि॒यमे॒व- [ ]
पदपाठः (Word-by-word)
तस्मै᳚ । उ॒क्थ्य᳚म् । ए॒व । प्रेति॑ । अ॒य॒च्छ॒त् । तस्मै᳚ । तृ॒तीय᳚म् । उदिति॑ । अ॒य॒च्छ॒त् । तम् । विष्णुः॑ । अन्विति॑ । अ॒ति॒ष्ठ॒त॒ । ज॒हि । इति॑ । सः । अ॒ब्र॒वी॒त् । मा । मे॒ । प्रेति॑ । हाः॒ । अस्ति॑ । वै । इ॒दम् । मयि॑ । वी॒र्य᳚म् । तत् । ते॒ । प्रेति॑ । दा॒स्या॒मि॒ । इति॑ । तस्मै᳚ । उ॒क्थ्य᳚म् । ए॒व । प्रेति॑ । अ॒य॒च्छ॒त् । तम् । निर्मा॑य॒मिति॒ निः-मा॒य॒म् । भू॒तम् । अ॒ह॒न्न् । य॒ज्ञ्ः । हि । तस्य॑ । मा॒या । आसी᳚त् । यत् । उ॒क्थ्यः॑ । गृ॒ह्यते᳚ । इ॒न्द्रि॒यम् । ए॒व ।