तद् वी॒र्यं॑ ॅयज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्त॒ इन्द्रा॑य त्वा बृ॒हद्-व॑ते॒ वय॑स्वत॒ इत्या॒हेन्द्रा॑य॒ हि स तं प्राय॑च्छ॒त् तस्मै᳚ त्वा॒ विष्ण॑वे॒ त्वेत्या॑ह॒ यदे॒व विष्णु॑र॒न्वति॑ष्ठत ज॒हीति॒ तस्मा॒द्-विष्णु॑म॒न्वाभ॑जति॒ त्रिर्निर्गृ॑ह्णाति॒ त्रिर्.हि स तं तस्मै॒ प्राय॑च्छदे॒ष ते॒ योनिः॒ पुन॑र्.हविर॒सीत्या॑ह॒ पुनः॑पुन॒- [ ]
पदपाठः (Word-by-word)
तत् । वी॒र्य᳚म् । यज॑मानः । भ्रातृ॑व्यस्य । वृ॒ङ्क्ते॒ । इन्द्रा॑य । त्वा॒ । बृ॒हद्व॑त॒ इति॑ बृ॒हत् - व॒ते॒ । वय॑स्वते । इति॑ । आ॒ह॒ । इन्द्रा॑य । हि । सः । तम् । प्रेति॑ । अय॑च्छत् । तस्मै᳚ । त्वा॒ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ । यत् । ए॒व । विष्णुः॑ । अ॒न्वति॑ष्ठ॒तेत्य॑नु - अति॑ष्ठत । ज॒हि । इति॑ । तस्मा᳚त् । विष्णु᳚म् । अ॒न्वाभ॑ज॒तीत्य॑नु - आभ॑जति । त्रिः । निरिति॑ । गृ॒ह्णा॒ति॒ । त्रिः । हि । सः । तम् । तस्मै᳚ । प्रेति॑ । अय॑च्छत् । ए॒षः । ते॒ । योनिः॑ । पुन॑र्.हवि॒रिति॒ पुनः॑ - ह॒विः॒ । अ॒सि॒ । इति॑ । आ॒ह॒ । पुनः॑पुन॒रिति॒ पुनः॑ - पु॒नः॒ ।