प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.5.1.4 TS 6.5.1.4
-र्ह्य॑स्मा-न्निर्गृ॒ह्णाति॒ चक्षु॒र्वा ए॒तद्-य॒ज्ञ्स्य॒ यदु॒क्थ्य॑-स्तस्मा॑दु॒क्थ्यꣳ॑ हु॒तꣳ सोमा॑ अ॒न्वाय॑न्ति॒ तस्मा॑दा॒त्मा चक्षु॒रन्वे॑ति॒ तस्मा॒देकं॒ ॅयन्तं॑ ब॒हवोऽनु॑ यन्ति॒ तस्मा॒देको॑ बहू॒नां भ॒द्रो भ॑वति॒ तस्मा॒देको॑ ब॒ह्वीर्जा॒या वि॑न्दते॒ यदि॑ का॒मये॑ता-द्ध्व॒र्यु-रा॒त्मानं॑ ॅयज्ञ् यश॒सेना᳚-र्पयेय॒-मित्य॑न्त॒राऽऽह॑व॒नीयं॑ च हवि॒र्द्धानं॑ च॒ तिष्ठ॒न्नव॑ नये- [ ]
पदपाठः (Word-by-word)
हि । अ॒स्मा॒त् । नि॒र्गृ॒ह्णातीति॑ निः - गृ॒ह्णाति॑ । चक्षुः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । उ॒क्थ्यः॑ । तस्मा᳚त् । उ॒क्थ्य᳚म् । हु॒तम् । सोमाः᳚ । अ॒न्वाय॒न्तीत्य॑नु - आय॑न्ति । तस्मा᳚त् । आ॒त्मा । चक्षुः॑ । अन्विति॑ । ए॒ति॒ । तस्मा᳚त् । एक᳚म् । यन्त᳚म् । ब॒हवः॑ । अन्विति॑ । य॒न्ति॒ । तस्मा᳚त् । एकः॑ । ब॒हू॒नाम् । भ॒द्रः । भ॒व॒ति॒ । तस्मा᳚त् । एकः॑ । ब॒ह्वीः । जा॒याः । वि॒न्द॒ते॒ । यदि॑ । का॒मये॑त । अ॒द्ध्व॒र्युः । आ॒त्मान᳚म् । य॒ज्ञ्॒य॒श॒सेनेति॑ यज्ञ् - य॒श॒सेन॑ । अ॒र्प॒ये॒य॒म् । इति॑ । अ॒न्त॒रा । आ॒ह॒व॒नीय॒मित्या᳚ - ह॒व॒नीय᳚म् । च॒ । ह॒वि॒द्‌र्धान॒मिति॑ हविः - धान᳚म् । च॒ । तिष्ठन्न्॑ । अवेति॑ । न॒ये॒त् ।
पदसंख्या: 50