प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.5.10.1 TS 6.5.10.1
ग्रहा॒न्॒. वा अनु॑ प्र॒जाः प॒शवः॒ प्र जा॑यन्त उपाꣳश्वन्तर्या॒-माव॑जा॒वयः॑ शु॒क्राम॒न्थिनौ॒ पुरु॑षा ऋतुग्र॒हा-नेक॑शफा आदित्यग्र॒हं गाव॑ आदित्यग्र॒हो भूयि॑ष्ठाभिर्. ऋ॒ग्भिर्गृ॑ह्यते॒ तस्मा॒द्-गावः॑ पशू॒नां भूयि॑ष्ठा॒ यत् त्रिरु॑पाꣳ॒॒ शुꣳ हस्ते॑न विगृ॒ह्णाति॒ तस्मा॒द् द्वौ त्रीन॒जा ज॒नय॒त्यथाव॑यो॒ भूय॑सीः पि॒ता वा ए॒ष यदा᳚ग्रय॒णः पु॒त्रः क॒लशो॒ यदा᳚ग्रय॒ण उ॑प॒दस्ये᳚त् क॒लशा᳚द्-गृह्णीया॒द्-यथा॑ पि॒ता- [ ]
पदपाठः (Word-by-word)
ग्रहान्॑ । वै । अन्विति॑ । प्र॒जा इति॑ प्र - जाः । प॒शवः॑ । प्रेति॑ । जा॒य॒न्ते॒ । उ॒पाꣳ॒॒श्व॒न्त॒र्या॒मावित्यु॑पाꣳशु - अ॒न्त॒र्या॒मौ । अ॒जा॒वय॒ इत्य॑जा - अ॒वयः॑ । शु॒क्राम॒न्थिना॒विति॑ शु॒क्रा - म॒न्थिनौ᳚ । पुरु॑षाः । ऋ॒तु॒ग्र॒हानित्यृ॑तु - ग्र॒हान् । एक॑शफा॒ इत्येक॑ - श॒फाः॒ । आ॒दि॒त्य॒ग्र॒हमित्या॑दित्य - ग्र॒हम् । गावः॑ । आ॒दि॒त्य॒ग्र॒ह इत्या॑दित्य - ग्र॒हः । भूयि॑ष्ठाभिः । ऋ॒ग्भिरित्यृ॑क्-भिः । गृ॒ह्य॒ते॒ । तस्मा᳚त् । गावः॑ । प॒शू॒नाम् । भूयि॑ष्ठाः । यत् । त्रिः । उ॒पाꣳ॒॒शुमित्यु॑प - अ॒शुम् । हस्ते॑न । वि॒गृ॒ह्णातीति॑ वि - गृ॒ह्णाति॑ । तस्मा᳚त् । द्वौ । त्रीन् । अ॒जा । ज॒नय॑ति । अथ॑ । अव॑यः । भूय॑सीः । पि॒ता । वै । ए॒षः । यत् । आ॒ग्र॒य॒णः । पु॒त्रः । क॒लशः॑ । यत् । आ॒ग्र॒य॒णः । उ॒प॒दस्ये॒दित्यु॑प - दस्ये᳚त् । क॒लशा᳚त् । गृ॒ह्णी॒या॒त् । यथा᳚ । पि॒ता ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

ग्रहहोमे परिसमाप्ते सति ग्रहान्प्रशंसति —

“ग्रहान्वा अनु प्रजाः पशवः प्र जायन्ते” (सं. का. ६ प्र. ५ अ. १०) इति।

एतदेव विस्पष्टयति —

“उपाश्वन्तर्यामावजावयः शुक्रामन्थिनौ पुरुषा ऋतुग्रहानेकशफा आदित्यग्रहं गावः” (सं. का. ६ प्र. ५ अ. १०) इति।

आदित्यग्रहस्य गवां च सादृश्यप्रकटनेन ग्रहमनु गवां जन्मोपपादयति —

“आदित्यग्रहो भूयिष्ठाभिग्भिर्गृह्यते तस्माद्गावः पशूनां भूयिष्ठाः” (सं. का. ६ प्र. ५ अ. १०) इति।

कदा चन स्तरीरसीत्यादिका ऋचो भूयिष्ठाः।

उपांशुग्रहमनु जातानामजानां ग्रहेण सह त्रित्वसाम्यं दर्शयति —

“यत्त्रिरुपाशु हस्तेन विगृह्णाति तस्माद्द्वौ त्रीनजा जनयति” (सं. का. ६ प्र. ५ अ. १०) इति।

द्वौ वा त्रीन्वा न तु त्रिभ्योऽधिकमपत्यं सा सह जनयति।

यस्मादन्तर्यामग्रहे संकोचसंख्याविशेषो न श्रुतस्तस्मात्तमनु जायमानानामवीनां भूयिष्ठत्वं युगपद्युक्तनित्याह — “अथावयो भूयसीः” (सं. का. ६ प्र. ५ अ. १०) इति।

अथ कथंचिदाग्रयणसोमः क्षीयेत तदा द्रोणकलशात्तद्ग्रहणं विधत्ते —

“पिता वा एष यदाग्रयणः पुत्रः कलशो यदाग्रयण उपदस्येत्कलशाद्गृ-ह्णीयाद्यथा पिता पुत्रं क्षित उपधावति तादृगेव तत्” (सं. का. ६ प्र. ५ अ. १०) इति।

प्रथमोत्पन्नत्वादाग्रयणः पिता। पश्चाद्भावितया कलशः पुत्रः। क्षितः क्षीणवृत्तिः। उपधावति जीवनार्थमुपसर्पति।

कलशसोमक्षये वैपरीत्यं विधत्ते —

“यत्कलश उपदस्येदाग्रयणाद्गृह्णीयाद्यथा पुत्रः पितरं क्षित उपधावति तादृगेव तत्” (सं. का. ६ प्र. ५ अ. १०) इति।

कलशन्यायं ग्रहेऽपि दर्शयति —

“आत्मा वा एष यज्ञस्य यदाग्रयणो यद्ग्रहो वा कलशो वोपदस्येदाग्रय-णाद्गृह्णीयादात्मन एवाधि यज्ञं निष्करोति” (सं. का. ६ प्र. ५ अ. १०) इति।

यज्ञमध्यवर्तित्वादाग्रयणो यज्ञस्याऽऽत्मा दृष्टान्तत्वेन कलशस्य पुनरुपादानम्। नष्टं यज्ञमनेन ग्रहणेनाऽऽत्मन उपरि पुनः संदधाति।

अथ स्थाल्या होमसाधनत्वाभावेन तां निन्दन्निव होमसाधनं दारुपात्रं प्रशंसति —

“अविज्ञातो वा एष गृह्यते यदाग्रयणः स्थाल्या गृह्णाति वायव्येन जुहोति तस्माद्गर्भेणाविज्ञातेन ब्रह्महा” (सं. का. ६ प्र. ५ अ. १०) इति।

आ वायो भूषेत्यादिग्रहणमन्त्रेषु यथा देवता स्वानामविशेषेण विज्ञायते न तथा ये देवा दिव्येकादश स्थेत्यत्र, नामविशेषाश्रुतेः। तस्मादविज्ञात आग्रयणः स्थाल्या मृन्मय्या गृह्णात्येव न तु जुहोति। वायव्येन तु दारुपात्रेण जुहोति। यस्माद्ये देवा इतिमन्त्रोक्ताविज्ञातनामकांस्त्रयस्त्रिंशतो देवानुद्दिश्य स्थाल्या गृहीतः सोमो ग्रहणमात्रेण तद्देवतातृप्तावपि होमाभावत्परित्यक्त इव तस्माल्लोकेऽप्यविज्ञातेन गर्भेण ब्रह्महा भवति। प्रोषिते भर्तरि जारजन्यो गर्भो भर्तारं प्रत्यविज्ञातस्तेन गर्भेणोत्पन्नं ब्रह्म जहाति परित्यजतीति ब्रह्महा। अविज्ञातयोर्गर्भाग्रयणयोः परित्यागस्तुल्यः। तं च स्थालीगतं सोमं पुनर्दारुमयेऽन्तर्यामपात्रे सवित्रर्थं गृहीत्वा जुहोति। ततो दारुपात्रं प्रशस्तम्।

प्रकारान्तरेण दारुपात्राणि प्रशंसति —

“अवभृथमव यन्ति परा स्थालीरस्यन्त्युद्वायव्यानि हरन्ति तस्मात्स्त्रियं जातां पराऽस्यन्त्युत्पुमास हरति” (सं. का. ६ प्र. ५ अ. १०) इति।

यदाऽवभृथं गच्छन्ति तदानीमाग्रयणोक्थ्यध्रुवादित्यस्थालीश्चतस्रो वेद्यामेव परास्यन्ति परित्यजन्ति। वायव्यानि दारुपात्राण्युद्धरन्त्यवभृथदेशे नयन्ति। तस्मात्स्थालीवल्लोकेऽपि स्त्रियं दुहितरं विवाहेन वरकुले परित्यजन्ति। पुमांसं वायव्यवदुद्धरन्ति सम्यक्पोषयन्ति।

पुरोरुचं ग्रहणं सादनं च क्रमेण प्रशंसति —

“यत्पुरोरुचमाह यथा वस्यस आहरति तादृगेव तद्यद्ग्रहं गृह्णाति यथा वस्यस आहृत्य प्राऽऽह तादृगेव तद्यत्सादयति यथा वस्यस उपनिधायापक्रामति तादृगेव तत्” (सं. का. ६ प्र. ५ अ. १०) इति।

उपयामगृहीतोऽसीत्येतस्मात्पूर्वं पठ्यमानत्वादा वायो भूषेत्यादिका पुरोरुक्। वस्यसे वसुमत्तमाय राजामात्यादिकाय। यथा लोके धनिकायोपायनमाहृत्यैतदेव ममेत्युक्त्वा पुरतो निधाय गच्छन्ति तथा पुरोरुगादित्रयं द्रष्टव्यम्।

यजुःसामनी निन्दन्निव पुरोरुचं प्रशंसति —

“यद्वै यज्ञस्य साम्ना यजुषा क्रियते शिथिलं तद्यदृचा तद्दृढं पुरस्तादुपयामा यजुषा गृह्यन्त उपरिष्टादुपयामा ऋचा यज्ञस्य धृत्यै” (सं. का. ६ प्र. ५ अ. १०) इति।

यज्ञसंबन्धि यदङ्गं यजुःसामभ्यां क्रियते तद्धि शिथिलमिव। वेदेषु सर्वत्र विश्वासाय तदेतदृचाऽभ्युक्तमित्यृच एवोदाहरणात्। उपयामगृहीतोऽस्यन्तर्यच्छ मघवन्नित्यादिमन्त्रैर्गृह्यमाणाः पुरस्तादुपयामाः। आ वायो भूषेत्यादिभिस्तूपरिष्टादुपयामाः। तत्र यजुषो दार्ढ्यार्थमुपयामपूर्वत्वम्। ऋचस्तु स्वयमेव दृढत्वान्न तत्पूर्वत्वम्। तदुभयं यज्ञस्य धृत्यै भवति।

सोमपात्राणि प्रशंसितुं द्वेधा विभजति —

“प्रान्यानि पात्राणि युज्यन्ते नान्यानि” (सं. का. ६ प्र. ५ अ. १०) इति।

कानिचित्पात्राणि प्रकर्षेण युज्यन्तेऽनुष्ठीयन्ते पुनरावर्त्यन्त इत्यर्थः। यथा - उपांश्वन्तर्यामपात्रयोः प्रातःसवने प्रयुक्तयोः पुनस्तृतीयसवनेऽपि प्रयोगः। “यदुपाशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति” “अन्तर्यामपात्रेण सावित्रमाग्र-यणाद्गृह्णाति” इत्याम्नातत्वात्। अन्यानि तु नाऽऽवर्त्यन्ते किंतु सकृदेवा-नुष्ठीयन्ते। तद्यथा — द्विदेवत्यग्रहादीनि तेषु सकृदनुष्ठितेषु स्वर्गजयः।

आवृत्तेस्त्वेतल्लोकजय इति प्रशंसति —

“यानि पराचीनानि प्रयुज्यन्तेऽमुमेव तैर्लोकमभि जयति पराङिव ह्यसौ लोको यानि पुनः प्रयुज्यन्त इममेव तैर्लोकमभि जयति पुनः पुनरिव ह्ययं लोकः” (सं. का. ६ प्र. ५ अ. १०) इति।

पराचीनान्यनिवृत्तानि। स्वर्गः पराङिवानावृत्त इव। स्वर्गे स्थितस्यापि पुनर्जन्मान्तरेऽपि स्वर्गं प्राप्तुमुद्योगासंभवात्। मनुष्यलोके स्थितस्य पुनरेतदर्थ-मुद्यमोऽस्तीति तस्य पौनःपुन्यम्।

प्रकारान्तरेण प्रशंसति —

“प्रान्यानि पात्राणि युज्यन्ते नान्यानि यानि पराचीनानि प्रयुज्यन्ते तान्यन्वोषधयः परा भवन्ति यानि पुनः प्रयुज्यन्ते तान्यन्वोषधयः पुनरा भवति” (सं. का. ६ प्र. ५ अ. १०) इति।

फलपाके विनाशः पराभवः। संवत्सरान्ते तदुत्पक्तिः पुनराभवनम्।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 ग्रहान् वा इत्यादि ।। ग्रहान् हुतान् अनु प्रजाः पशवश्च प्रजायन्ते । 'अनुर्लक्षणे' इति हेतुत्वे कर्मप्रवचनीयत्वम् । एवं सामान्येनोक्त्वा एकैकस्याह - उपांश्वन्तर्यामावित्यादि । उपांश्वन्तर्यामावनु अजाश्चावयश्च प्रजायन्ते । शुक्रामन्थिनावनु पुरुषाः प्रजायन्ते । एवं सर्वत्र । ऋतुग्रहानन्वेकशफाः अश्वादयः । आदित्यग्रहमनु गावः । आदित्यग्रह इत्यादि । भूयिष्ठाभिः बहुतमाभिः 'कदा चन' इत्यादिभिः। तस्मात्पशूनां मध्ये गावः भूयिष्ठाः । यस्मादुपांशुग्रहं हस्तेन त्रिर्विगृह्णाति तस्मादजा द्वौ त्रीन्वा जनयति, त्रिषु द्वयोस्त्रयाणां चैव संभवात्, न तु त्रिभ्योधिकान् । अथावयस्त्रिभ्यो भूयसीर्बहुतराः अपि चतस्रः अपि पञ्चावीन् जनयति; अव्युत्पत्तिहेतौ अन्तर्यामे तादृशसंकोचसंख्याविशेषाभावात् ।।
2 पिता वा इति ।। पितृस्थानीय आग्रयणः; प्रथमोत्पन्नत्वात् । पुत्रस्थानीयो द्रोणकलशः; तत्र पश्चादुत्पन्नत्वात् । तत्र यद्याग्रयण उपदस्येत् उपक्षीयेत तदा द्रोणकलशात् गृह्णीयात् पुत्रस्थानीयत्वात् । तस्येति विधिः । यथा पिता क्षीणः क्षीणवृत्तिः पुत्रमुपधावति जीवनार्थमुपसर्पति तत्तुल्यमेव तत्, एवं कलशोपक्षये आग्रयणाद्ग्रहणं क्षीणस्य पुत्रस्य पितृधनसंभजनस्य स्थानीयं भवति ।।
3 आत्मा वा इत्यादि ।। यज्ञस्यात्मीयस्थानीय आग्रयणः, अन्तरवस्थानाद्यज्ञस्य । तस्माद्ग्रहकलशोपक्षये आग्रयणाद्ग्रहणं आत्मन एव यज्ञस्य साक्षान्निष्क्रयणं भवति, विच्छिन्नस्य पुनरप्यात्मन एवोत्पत्तेः । अधिरनर्थकः ।।
4 अविज्ञातो वा इत्यादि ।। आग्रयणो नामाविज्ञातो गृह्यते अविज्ञातयागदेवताविशेषनामधेयत्वात् । ऐन्द्रवायवादिवत् देवताविशेषसंबन्धस्याविज्ञातत्वात् । तस्मादाग्रयणस्स्थाल्या गृह्णाति सोमं वायव्येन त्वन्तर्यामपात्रादिना जुहोति । तस्मादित्यादि । यस्मादेवमविज्ञातस्वभाव आग्रयणः त्यक्त इव भवति तस्माद्गर्भेणाविज्ञातेन केवलेन ब्रह्महा भवति ब्रह्महत्याभाग्भवति आत्मत्यागित्वात् अविज्ञातगर्भस्य (तद्वदस्यापि) त्याज्यत्वात् । त्यागप्रकर्षज्ञापनार्थं ब्रह्मग्रहणम् । यद्वा - ब्रह्महतुल्यप्रायश्चित्तत्वात् ब्रह्महेत्युच्यते । यथाऽऽह मनुः - 'हत्वागर्भमविज्ञातमेतदेव व्रतं चरेत्' इति । केचिदाहुः - आत्मत्यागी ब्रह्महेत्युच्यते । हन्तेर्विच्, 'सुपां सुलुक्' इति सोर्लुक्, आकारो वा ।।
5 अवभृथमव यन्तीत्यादि ।। स्थालीस्सर्वाः पराऽस्यन्ति उत्सृजन्ति । वायव्यादिपात्राणि उद्धरन्ति अपनयन्ति अवभृथे देशे । यद्वा - अवभृथदेशे स्थालीः पराऽस्यन्तीति । वायव्यानि तूद्धरन्ति । तस्मात् स्त्रियं जातां परिपक्वां पराऽस्यन्ति परस्मिन् कुले प्रक्षिपन्ति परस्मै ददाति, पुमांसमुद्धरन्ति सन्तत्यर्थं धारयन्ति ।।
6 यदित्यादि ।। उपयामात्पूर्वं रोचते इति पुरोरुक् 'आ वायो भूष' इत्यादिका । तां यदाह यथा वस्यसे श्रेयसे जनाय आहरति तत्तुल्यं तच्छ्रेयसः कीर्तनार्थत्वात् । तस्माल्लोके हि श्रेयांसं संकीर्त्य अस्मा इत्युद्दिशति । एवमिदं पुरोरुग्वचनं द्रष्टव्यम् । अथ यद्ग्रहस्य ग्रहणं 'उपयामगृहीतोसि' इति यथा वस्यसे उपहारादिकमुपनिधाय समीपे स्थापयित्वा स्वयमपक्रामति तत्तुल्यमिदं सादनम् । लोके हि फलादिकं श्रेयसे आहृत्य दर्शयित्वा निधायापक्रामन्तीति ।।
7 यद्वा इत्यादि ।। पुरस्तात्पूर्वत्र 'उपयामगृहीतोसि' इत्येतद्येषां ते पुरस्तादुपयामाः ग्रहाः, विपरीताः उपरिष्टादुपयामाः, तत्र ये यजुषा गृह्यन्ते ते पुरस्तादुपयामगृहीतास्स्युः यजुषो दुर्बलत्वात् । यथा - 'उपयामगृहीतोस्यन्तर्यच्छ मघवन्' इत्यादयः । अथ ये ऋचा गृह्यन्ते 'आ वायो भूष' इत्यादयः ते उपरिष्टादुपयामा गृह्यन्ते, ऋचस्स्वयमेव दृढत्वात् । तदुभयमपि यज्ञस्य धृत्यै दार्ढ्याय भवति ।।
इति षष्ठे पञ्चमे दशमानुवाकः ॥