प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.5.10.2 TS 6.5.10.2
पु॒त्रं क्षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तद्यत् क॒लश॑ उप॒दस्ये॑-दाग्रय॒णाद्-गृ॑ह्णीया॒द्-यथा॑ पु॒त्रः पि॒तरं॑ क्षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तदा॒त्मा वा ए॒ष य॒ज्ञ्स्य॒ यदा᳚ग्रय॒णो यद्ग्रहो॑ वा क॒लशो॑ वोप॒दस्ये॑-दाग्रय॒णाद्-गृ॑ह्णीयादा॒त्मन॑ ए॒वाधि॑ य॒ज्ञ्ं निष्क॑रो॒त्यवि॑ज्ञातो॒ वा ए॒ष गृ॑ह्यते॒ यदा᳚ग्रय॒णः स्था॒ल्या गृ॒ह्णाति॑ वाय॒व्ये॑न जुहोति॒ तस्मा॒द्- [ ]
पदपाठः (Word-by-word)
पु॒त्रम् । क्षि॒तः । उ॒प॒धाव॒तीत्यु॑प-धाव॑ति । ता॒दृक् । ए॒व । तत् । यत् । क॒लशः॑ । उ॒प॒दस्ये॒दित्यु॑प-दस्ये᳚त् । आ॒ग्र॒य॒णात् । गृ॒ह्णी॒या॒त् । यथा᳚ । पु॒त्रः । पि॒तर᳚म् । क्षि॒तः । उ॒प॒धाव॒तीत्यु॑प - धाव॑ति । ता॒दृक् । ए॒व । तत् । आ॒त्मा । वै । ए॒षः । य॒ज्ञ्स्य॑ । यत् । आ॒ग्र॒य॒णः । यत् । ग्रहः॑ । वा॒ । क॒लशः॑ । वा॒ । उ॒प॒दस्ये॒दित्यु॑प - दस्ये᳚त् । आ॒ग्र॒य॒णात् । गृ॒ह्णी॒या॒त् । आ॒त्मनः॑ । ए॒व । अधीति॑ । य॒ज्ञ्म् । निरिति॑ । क॒रो॒ति॒ । अवि॑ज्ञात॒ इत्यवि॑ - ज्ञा॒तः॒ । वै । ए॒षः । गृ॒ह्य॒ते॒ । यत् । आ॒ग्र॒य॒णः । स्था॒ल्या । गृ॒ह्णाति॑ । वा॒य॒व्ये॑न । जु॒हो॒ति॒ । तस्मा᳚त् ।
पदसंख्या: 50