प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.5.10.3 TS 6.5.10.3
गर्भे॒णा वि॑ज्ञातेन ब्रह्म॒हा ऽव॑भृ॒थमव॑ यन्ति॒ परा᳚ स्था॒लीरस्य॒न्त्युद्-वा॑य॒व्या॑नि हरन्ति॒ तस्मा॒थ् स्त्रियं॑ जा॒तां परा᳚ऽस्य॒न्त्युत् पुमाꣳ॑ सꣳ हरन्ति॒ यत् पु॑रो॒रुच॒माह॒ यथा॒ वस्य॑स आ॒हर॑ति ता॒दृगे॒व तद्-यद्-ग्रहं॑ गृ॒ह्णाति॒ यथा॒ वस्य॑स आ॒हृत्य॒ प्राऽऽ*ह॑ ता॒दृगे॒व तद्-यथ् सा॒दय॑ति॒ यथा॒ वस्य॑स उपनि॒धाया॑-प॒क्राम॑ति ता॒दृगे॒व तद् य ( ) द्वै य॒ज्ञ्स्य॒ साम्ना॒ यजु॑षा क्रि॒यते॑ शिथि॒लं तद्-यदृ॒चा तद् दृ॒ढं पु॒रस्ता॑दुपयामा॒ यजु॑षा गृह्यन्त उ॒परि॑ष्टा-दुपयामा ऋ॒चा य॒ज्ञ्स्य॒ धृत्यै᳚ ॥
पदपाठः (Word-by-word)
गभे॑र्ण । अवि॑ज्ञाते॒नेत्यवि॑ - ज्ञा॒ते॒न॒ । ब्र॒ह्म॒हेति॑ ब्रह्म - हा । अ॒व॒भृ॒थमित्यव॑ - भृ॒थम् । अवेति॑ । य॒न्ति॒ । परेति॑ । स्था॒लीः । अस्य॑न्ति । उदिति॑ । वा॒य॒व्या॑नि । ह॒र॒न्ति॒ । तस्मा᳚त् । स्त्रिय᳚म् । जा॒ताम् । परेति॑ । अ॒स्य॒न्ति॒ । उदिति॑ । पुमाꣳ॑सम् । ह॒र॒न्ति॒ । यत् । पु॒रो॒रुच॒मिति॑ पुरः - रुच᳚म् । आह॑ । यथा᳚ । वस्य॑से । आ॒हर॒तीत्या᳚-हर॑ति । ता॒दृक् । ए॒व । तत् । यत् । ग्रह᳚म् । गृ॒ह्णाति॑ । यथा᳚ । वस्य॑से । आ॒हृत्येत्या᳚ - हृत्य॑ । प्रेति॑ । आह॑ । ता॒दृक् । ए॒व । तत् । यत् । सा॒दय॑ति । यथा᳚ । वस्य॑से । उ॒प॒नि॒धायेत्यु॑प - नि॒धाय॑ । अ॒प॒क्राम॒तीत्य॑प - क्राम॑ति । ता॒दृक् । ए॒व । तत् । यत् ( ) । वै । य॒ज्ञ्स्य॑ । साम्ना᳚ । यजु॑षा । क्रि॒यते᳚ । शि॒थि॒लम् । तत् । यत् । ऋ॒चा । तत् । दृ॒ढम् । पु॒रस्ता॑दुपयामा॒ इति॑ पु॒रस्ता᳚त् - उ॒प॒या॒माः॒ । यजु॑षा । गृ॒ह्य॒न्ते॒ । उ॒परि॑ष्टादुपयामा॒ इत्यु॒परि॑ष्टात् - उ॒प॒या॒माः॒ । ऋ॒चा । य॒ज्ञ्स्य॑ । धृत्यै᳚ ॥
पदसंख्या: 68