प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.5.11.1 TS 6.5.11.1
प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ऽमुमे॒व तैर्लो॒कम॒भि ज॑यति॒ परा॑ङिव॒ ह्य॑सौ लो॒को यानि॒ पु॑नःप्रयु॒ज्यन्त॑ इ॒ममे॒व तैर्लो॒कम॒भि ज॑यति॒ पुनः॑ पुनरिव॒ ह्य॑यं ॅलो॒कः प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ परा॑ भवन्ति॒ यानि॒ पुनः॑- [ ]
पदपाठः (Word-by-word)
प्रेति॑ । अ॒न्यानि॑ । पात्रा॑णि । यु॒ज्यन्ते᳚ । न । अ॒न्यानि॑ । यानि॑ । प॒रा॒चीना॑नि । प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ । अ॒मुम् । ए॒व । तैः । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ । पराङ्॑ । इ॒व॒ । हि । अ॒सौ । लो॒कः । यानि॑ । पुनः॑ । प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ । इ॒मम् । ए॒व । तैः । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ । पुनः॑पुन॒रिति॒ पुनः॑ - पु॒नः॒ । इ॒व॒ । हि । अ॒यम् । लो॒कः । प्रेति॑ । अ॒न्यानि॑ । पात्रा॑णि । यु॒ज्यन्ते᳚ । न । अ॒न्यानि॑ । यानि॑ । प॒रा॒चीना॑नि । प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ । तानि॑ । अन्विति॑ । ओष॑धयः । परेति॑ । भ॒व॒न्ति॒ । यानि॑ । पुनः॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

प्रकारान्तरेण प्रशंसति —

“प्रान्यानि पात्राणि युज्यन्ते नान्यानि यानि पराचीनानि प्रयुज्यन्ते तान्यन्वारण्याः पशवोऽरण्यमप यन्ति यानि पुनः प्रयुज्यन्ते तान्यनु ग्राम्याः पशवो ग्राममुपावयन्ति” (सं. का. ६ प्र. ५ अ. ११) इति।

आरण्या व्याघ्रादयोऽरण्यमेवो(वा)पयन्ति न कदाचिदपि ग्रामम्। ग्राम्यास्तु गवादयस्तृणमत्तुमरण्यं गत्वा पुनर्ग्रामं प्रत्यागच्छन्ति।

शस्त्रं प्रशंसति —

“यो वै ग्रहाणां निदानं वेद निदानवान्भवत्याज्यमित्युक्थं तद्वै ग्रहाणां निदानं यदुपाशु शसति तदुपाश्वन्तयार्मयोर्यदुच्चैस्तदितरेषां ग्रहाणामेतद्वै ग्रहाणां निदानं य एवं वेद निदानवान्भवति” (सं. का. ६ प्र. ५ अ. ११) इति।

आज्यमित्युक्थमाज्यप्रउगादिनामकं शस्त्रं, प्रशंसाद्वारा ग्रहानुष्ठानप्रयोजक-त्वाद्ग्रहाणां निदानं मूलकारणम्। तदेतद्यो वेद स निदानवांश्चिरजीविभिर्मा-तापितृस्वामिभिः संयुक्तो भवति। शस्त्रेष्वषि यदुपांशु शस्यते तद्द्वयोर्ग्रहयो-र्निदानं, यदुच्चैस्तदितरेषां सर्वेषामित्येवं विशेषं जानतोऽपि तदेव फलम्।

स्थालीवायव्यरूपं द्वंद्वं प्रशंसति —

“यो वै ग्रहाणां मिथुनं वेद प्र प्रजया पशुभिर्मिथुनैर्जायते स्थालीभिरन्ये ग्रहा गृह्यन्ते वायव्यैरन्य एतद्वै ग्रहाणां मिथुनं य एवं वेद प्र प्रजया पशुभिर्मिथुनैर्जायते” (सं. का. ६ प्र. ५ अ. ११) इति।

आग्रयणोक्थ्यादिग्रहाः स्त्रीरूपाभिर्मृन्मयस्थालीभिर्गृह्यन्ते। उपांश्वन्तर्यामा-दिग्रहास्तु पुरुषरूपैर्वायव्यैः। वेदने तु मनुष्यमिथुनैः पशुमिथुनैश्च प्रजायते युक्तो भवति। य एवं वेदेति पुनरभिधानमुपसंहारार्थम्।

“इन्द्रस्त्वष्टुः सोममभीषहाऽपिबत्स विष्वङ्व्यार्च्छत्स आत्मन्नारमणं नाविन्दत्स एताननुसवनं पुरोडाशानपश्यत्तान्निरवपत्तैर्वै स आत्मन्नारमणमकुरुत तस्मादनुसवनं पुरोडाशा निरुप्यन्ते तस्मादनुसवनं पुरोडाशानां प्राश्नीयादात्मन्नेवाऽऽरमणं कुरुते नैन सोमोऽति पवते” (सं. का. ६ प्र. ५ अ. ११) इति।

इन्द्रेण विश्वरूपाभिधे त्वष्टुः पुत्रे हते सति कुपितस्त्वष्टा विनेन्द्रं सोमयागं कर्तुं प्रवृत्तस्तदानीमिन्द्रोऽभीषहा बलादेवापिबत्। स इन्द्रः सहसा पीतस्य सोमस्योदरमध्य इतस्ततो विधावनाद्व्यर्च्छद्विविर्धार्तिमाप्नोत्। तेनाऽऽर्तः स इन्द्रः स्वात्मनि सुखं नालभत। ततस्त्रिष्वपि सवनेषु सवनीयपुरोडाशैः सुखं प्राप्तवान्। तस्मात्पुरोडाशान्निरुप्य तच्छेषभक्षणेन सुखं भवति। सोमश्चैनं नातिपवते नेतस्ततः संचारेण बाधते।

तेषु सवनीयपुरोडाशेषु पञ्चद्रव्यविधिमर्थवादेनोन्नयति —

“ब्रह्मवादिनो वदन्ति नर्चा न यजुषा पङ्क्तिराप्यतेऽथ किं यज्ञस्य पाङ्क्तत्वमिति धानाः करम्भः परिवापः पुरोडाशः पयस्या तेन पङ्क्तिराप्यते तद्यज्ञस्य पाङ्क्तत्वम्” (सं. का. ६ प्र. ५ अ. ११) इति।

पञ्चाक्षरा पङ्क्तिरित्याम्नानात्पञ्चसंख्यायोगेन पाङ्क्तत्वं वक्तव्यम्। ऋचो यजुषो वा नास्ति काचिन्नियता पञ्चसंख्या। न च मा भूत्पाङ्क्तत्वमिति वाच्यम्। पाङ्क्तो यज्ञ इति सर्वत्रोद्घोषणात्। अतः किं पाङ्क्तत्वमिति प्रश्नः। धानादिद्रव्येषु नियतया पञ्चसंख्यया पाङ्क्तत्वामित्युक्तरम्। (भृ) ष्टा यवा धानाः। आज्यसंयुक्ताः सक्तवः करम्भः। व्रीहिजन्या लाजाः परिवापः। पिष्टविकारःपुरोडाशः। क्षीरविकारः पयस्या।

—--------------------------------

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 प्रान्यानीत्यादि ।। अन्यानि कानिचित्पात्राणि उपांशुपात्रादीनि प्रयुज्यन्ते नान्यानीति वचनात् प्रयोगविशेषोभिप्रेत इति गम्यते । पुनः प्रयुज्यन्त इति यावत् । पात्राणि द्विदेवत्यपात्रादीनि पुनः प्रयुज्यन्ते सकृदेव प्रयुक्तानि आतृतीयसवनात्परिशेरते । तत्र यानिपराचीनानि पुनरावृत्तमयोगाणि सकृदेव प्रयुक्तानि कार्यं कुर्वन्ति अमुमेव परलोकमेव तैरभिजयति । हेतुमाह - पराङिव अपुनरावृत्त इव ह्यसौ लोकः पुनःपुनः प्राप्यः मृतस्य पुनरागमात् । यानि पुनःपुनः प्रयुज्यन्ते पात्राणि इमं लोकं तैरभिजयति पुपुनरावृत्त इव ह्ययं लोको भवति, कर्मार्जनस्थानत्वात् ।।
2 किंचेत्याह - प्रान्यानीत्यादि ।। पूर्ववत् । तत्र पराचीनैः पात्रैर्हेतुभिः ओषधयः पराभवन्ति विनश्यन्ति ग्रीष्मपक्वा न पुनरावर्तन्ते । यानि पुनःपुनः प्रयुज्यन्ते तैर्हेतुभिराभवन्ति वर्षादौ पुनःपुनरुत्पद्यन्ते ओषधयः । हेतावनोः कर्मप्रवचनीयत्वम् ।।
3 पुनश्च किंचेत्याह - प्रान्यानीत्यादि ।। समानम् । पराचीनैः पात्रैः हेतुभिः आरण्याः पशवः अरण्यमपयन्ति अरण्यं प्राप्य अपुनरावृत्त्या अपगता एव च भवन्ति न पुनर्ग्राममागच्छन्ति । अधान्यैः पात्रैः हेतुभिः ग्राम्याः पशवोरण्ये चरित्वा पुनःपुनर्ग्राममुपावयन्ति उपागच्छन्ति । 'गतौ' इति उपशब्दो निहन्यते, सगतिना च 'उदात्तवता तिङा' इति समासः ।।
4 यो वै ग्रहाणामित्यादि ।। निन्दास्तुतिरिति केचित् । शक्तिमत्त्वनिबन्धनमित्यन्ये । आज्यमित्युक्थमिति । इतिशब्दः प्रकारवचने । आज्यं नाम स्तोत्रविशेषः । आज्यप्रकारमुक्थं स्तोत्रं सर्वेषां ग्रहाणां निदानम् । केचिदाहुः - इतिशब्दोवच्छेदे । आज्याख्यमेव स्तोत्रं निदानमिवेति । एवं सामान्यनिदानमुक्त्वा ग्रहविशेषे विशेषमाह - यदित्यादि । गतम् ।।
5 यो वै ग्रहाणां मिथुनमित्यादि ।। 'एकान्याभ्याम्' इत्याख्यातं न निहन्यते ।।
6 इन्द्रस्त्वष्टुरित्यादि ।। अभीषहा अभिभवेन प्रसह्यापिबत् । सहतेः क्विपि 'नहिवृति' इत्यादिना दीर्घत्वम् । विष्वङ् विषूचीनगतिः ऊर्ध्वाधोगतिभ्यां सह सोमो व्यार्च्छत् विविधमगच्छत् आर्तमकरोदिन्द्रम् । अथ स इन्द्रः आत्मन्यारमणं अनुकूलरमणं सुखं नाविन्दत् नालभत । स एतानित्यादि । अनुसवनं सवनेसवने । वीप्सायामनोः कर्मप्रवचनीयत्वम् । गतमन्यत् । नैनमिति । अतिपवनं ऊर्ध्वमधश्चातिप्रवृत्तिः ।।
7 ब्रह्मवादिन इत्यादि ।। ऋग्यजुषविषयं संख्याविशेषं पङ्क्तिरूपं न पश्यामः । तयोरपङ्क्तित्वात् यज्ञस्य पाङ्क्तत्वे अतिप्रसंगः । तस्मात्किंविषयेण पञ्चत्वेन यज्ञस्य पाङ्क्तत्वमिति प्रश्नः । धानादिविषयेणेत्युत्तरम् । तस्मात्तत्रतत्र पाङ्क्तोयज्ञ इत्युच्यते इति । सक्तुप्रभवा लाजा धानाः । आज्यसंयुक्तास्सक्तवः करम्भः । परिवापो व्रीहिप्रभवा लाजाः । पुरोडाशः पिष्टविकारः । पयस्या क्षीरविकारः ।।
इति श्रीभट्टभास्करमिश्रविरयिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये षष्ठे काण्डे पञ्चमे प्रश्ने एकादशोनुवाकः ॥

प्रश्नश्च संपूर्णः ॥

……………………………………………………………………………………………………………

प्रश्नः-6