प्रयु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ पुन॒रा भ॑वन्ति॒ प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वा॑र॒ण्याः प॒शवोऽर॑ण्य॒मप॑ यन्ति॒ यानि॒ पुनः॑ प्रयु॒ज्यन्ते॒ तान्यनु॑ ग्रा॒म्याः प॒शवो॒ ग्राम॑मु॒पाव॑यन्ति॒ यो वै ग्रहा॑णां नि॒दानं॒ ॅवेद॑ नि॒दान॑वान् भव॒त्याज्य॒मित्यु॒क्थं तद्वै ग्रहा॑णां नि॒दानं॒ ॅयदु॑पाꣳ॒॒शु शꣳस॑ति॒ त- [ ]
पदपाठः (Word-by-word)
प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ । तानि॑ । अन्विति॑ । ओष॑धयः । पुनः॑ । एति॑ । भ॒व॒न्ति॒ । प्रेति॑ । अ॒न्यानि॑ । पात्रा॑णि । यु॒ज्यन्ते᳚ । न । अ॒न्यानि॑ । यानि॑ । प॒रा॒चीना॑नि । प्र॒यु॒ज्यन्त॒ इति॑ प्र-यु॒ज्यन्ते᳚ । तानि॑ । अन्विति॑ । आ॒र॒ण्याः । प॒शवः॑ । अर॑ण्यम् । अपेति॑ । य॒न्ति॒ । यानि॑ । पुनः॑ । प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ । तानि॑ । अन्विति॑ । ग्रा॒म्याः । प॒शवः॑ । ग्राम᳚म् । उ॒पाव॑य॒न्तीत्यु॑प-अव॑यन्ति । यः । वै । ग्रहा॑णाम् । नि॒दान॒मिति॑ नि - दान᳚म् । वेद॑ । नि॒दान॑वा॒निति॑ नि॒दान॑ - वा॒न् । भ॒व॒ति॒ । आज्य᳚म् । इति॑ । उ॒क्थम् । तत् । वै । ग्रहा॑णाम् । नि॒दान॒मिति॑ नि - दान᳚म् । यत् । उ॒पाꣳ॒॒श्वित्यु॑प - अꣳ॒॒शु । शꣳस॑ति । तत् ।