-दु॑पाꣳश्वन्तर्या॒मयो॒-र्यदु॒च्चै-स्तदित॑रेषां॒ ग्रहा॑णामे॒तद्वै ग्रहा॑णां नि॒दानं॒ ॅय ए॒वं ॅवेद॑ नि॒दान॑वान् भवति॒ यो वै ग्रहा॑णां मिथु॒नं ॅवेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते स्था॒लीभि॑र॒न्ये ग्रहा॑ गृ॒ह्यन्ते॑ वाय॒व्यै॑र॒न्य ए॒तद्वै ग्रहा॑णां मिथु॒नं ॅय ए॒वं ॅवेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यत॒ इन्द्र॒स्त्वष्टुः॒ सोम॑मभी॒षहा॑ऽपिब॒थ् स विष्व॒ङ्- [ ]
पदपाठः (Word-by-word)
उ॒पाꣳ॒॒श्व॒न्त॒र्या॒मयो॒रित्यु॑पाꣳशु - अ॒न्त॒र्या॒मयोः᳚ । यत् । उ॒च्चैः । तत् । इत॑रेषाम् । ग्रहा॑णाम् । ए॒तत् । वै । ग्रहा॑णाम् । नि॒दान॒मिति॑ नि - दान᳚म् । यः । ए॒वम् । वेद॑ । नि॒दान॑वा॒निति॑ नि॒दान॑ - वा॒न् । भ॒व॒ति॒ । यः । वै । ग्रहा॑णाम् । मि॒थु॒नम् । वेद॑ । प्रेति॑ । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । मि॒थु॒नैः । जा॒य॒ते॒ । स्था॒लीभिः॑ । अ॒न्ये । ग्रहाः᳚ । गृ॒ह्यन्ते᳚ । वा॒य॒व्यैः᳚ । अ॒न्ये । ए॒तत् । वै । ग्रहा॑णाम् । मि॒थु॒नम् । यः । ए॒वम् । वेद॑ । प्रेति॑ । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । मि॒थु॒नैः । जा॒य॒ते॒ । इन्द्रः॑ । त्वष्टुः॑ । सोम᳚म् । अ॒भी॒षहेत्य॑भि - सहा᳚ । अ॒पि॒ब॒त् । सः । विष्वङ्॑ ।