व्या᳚र्च्छ॒थ् स आ॒त्मन्ना॒रम॑णं॒ नावि॑न्द॒थ् स ए॒तान॑नुसव॒नं पु॑रो॒डाशा॑नपश्य॒त् तान् निर॑वप॒त् तैर्वै स आ॒त्मन्ना॒रम॑ण-मकुरुत॒ तस्मा॑दनुसव॒नं पु॑रो॒डाशा॒ निरु॑प्यन्ते॒ तस्मा॑दनुसव॒नं पु॑रो॒डाशा॑नां॒ प्राश्नी॑यादा॒त्म-न्ने॒वाऽऽ*रम॑णं कुरुते॒ नैनꣳ॒॒ सोमोऽति॑ पवते ब्रह्मवा॒दिनो॑ वदन्ति॒ नर्चा न यजु॑षा प॒ङ्क्तिरा᳚प्य॒तेऽथ॒ किं ( ) ॅय॒ज्ञ्स्य॑ पाङ्क्त॒त्वमिति॑ धा॒नाः क॑र॒भंः प॑रिवा॒पः पु॑रो॒डाशः॑ पय॒स्या॑ तेन॑ प॒ङ्क्तिरा॑प्यते॒ तद्-य॒ज्ञ्स्य॑ पाङ्क्त॒त्वं ॥
पदपाठः (Word-by-word)
वीति॑ । आ॒र्च्छ॒त् । सः । आ॒त्मन्न् । आ॒रम॑ण॒मित्या᳚ - रम॑णम् । न । अ॒वि॒न्द॒त् । सः । ए॒तान् । अ॒नु॒स॒व॒नमित्य॑नु-स॒व॒नम् । पु॒रो॒डाशान्॑ । अ॒प॒श्य॒त् । तान् । निरिति॑ । अ॒व॒प॒त् । तैः । वै । सः । आ॒त्मन्न् । आ॒रम॑ण॒मित्या᳚ - रम॑णम् । अ॒कु॒रु॒त॒ । तस्मा᳚त् । अ॒नु॒स॒व॒नमित्य॑नु - स॒व॒नम् । पु॒रो॒डाशाः᳚ । निरिति॑ । उ॒प्य॒न्ते॒ । तस्मा᳚त् । अ॒नु॒स॒व॒नमित्य॑नु - स॒व॒नम् । पु॒रो॒डाशा॑नाम् । प्रेति॑ । अ॒श्नी॒या॒त् । आ॒त्मन्न् । ए॒व । आ॒रम॑ण॒मित्या᳚ - रम॑णम् । कु॒रु॒ते॒ । न । ए॒न॒म् । सोमः॑ । अतीति॑ । प॒व॒ते॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । न । ऋ॒चा । न । यजु॑षा । प॒ङ्क्तिः । आ॒प्य॒ते॒ । अथ॑ । किम् ( ) । य॒ज्ञ्स्य॑ । पा॒ङ्क्त॒त्वमिति॑ पाङ्क्त - त्वम् । इति॑ । धा॒नाः । क॒र॒म्भः । प॒रि॒वा॒प इति॑ परि - वा॒पः । पु॒रो॒डाशः॑ । प॒य॒स्या᳚ । तेन॑ । प॒ङ्क्तिः । आ॒प्य॒ते॒ । तत् । य॒ज्ञ्स्य॑ । पा॒ङ्क्त॒त्वमिति॑ पाङ्क्त - त्वम् ॥