प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.5.3.1 TS 6.5.3.1
य॒ज्ञेन॒ वै दे॒वाः सु॑व॒र्गं ॅलो॒कमा॑य॒न् ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ ते सं॑ॅवथ्स॒रेण॑ योपयि॒त्वा सु॑व॒र्गं ॅलो॒कमा॑य॒न् तमृष॑य ऋतुग्र॒हैरे॒वानु॒ प्राजा॑न॒न॒. यदृ॑तुग्र॒हा गृ॒ह्यन्ते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै॒ द्वाद॑श गृह्यन्ते॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः सं॑ॅवथ्स॒रस्य॒ प्रज्ञा᳚त्यै स॒ह प्र॑थ॒मौ गृ॑ह्येते स॒होत्त॒मौ तस्मा॒द् द्वौद्वा॑वृ॒तू उ॑भ॒यतो॑मुख-मृतुपा॒त्रं भ॑वति॒ को- [ ]
पदपाठः (Word-by-word)
य॒ज्ञेन॑ । वै । दे॒वाः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । ते । अ॒म॒न्य॒न्त॒ । म॒नु॒ष्याः᳚ । नः॒ । अ॒न्वाभ॑विष्य॒न्तीत्य॑नु-आभ॑विष्यन्ति । इति॑ । ते । सं॒ॅव॒थ्स॒रे॒णेति॑ सं - व॒थ्स॒रेण॑ । यो॒प॒यि॒त्वा । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । तम् । ऋष॑यः । ऋ॒तु॒ग्र॒हैरित्यृ॑तु - ग्र॒हैः । ए॒व । अनु॑ । प्रेति॑ । अ॒जा॒न॒न्न् । यत् । ऋ॒तु॒ग्र॒हा इत्यृ॑तु - ग्र॒हाः । गृ॒ह्यन्ते᳚ । सु॒व॒र्गसेति॑ सुवः - गस्य॑ । लो॒कस्य॑ । प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ । द्वाद॑श । गृ॒ह्य॒न्ते॒ । द्वाद॑श । मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ । स॒ह । प्र॒थ॒मौ । गृ॒ह्ये॒ते॒ इति॑ । स॒ह । उ॒त्त॒मावितु॑त् - त॒मौ । तस्मा᳚त् । द्वौद्वा॒विति॒ द्वौ - द्वौ॒ । ऋ॒तू इति॑ । उ॒भ॒यतो॑मुख॒मित्यु॑भ॒यतः॑ - मु॒ख॒म् । ऋ॒तु॒पा॒त्रमित्यृ॑तु - पा॒त्रम् । भ॒व॒ति॒ । कः ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

“यज्ञेन वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति ते संवत्सरेण योपयित्वा सुवर्गं लोकमायन्तमृषय ऋतुग्रहैरेवानु प्राजानन्यदृतुग्रहा गृह्यन्ते सुवर्गस्य लोकस्य प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ३ इति।

संवत्सरेण योपयित्वा कालविलम्बेन मोहयित्वा। यत ऋषयो मनुष्येष्वभिज्ञाः।

संख्यां विधत्ते —

“द्वादश गृह्यन्ते द्वादश मासाः संवत्सरः संवत्सरस्य प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ३ इति।

त्रयोदशचतुर्दशयोरप्येतदुपलक्षणम्।

आदावन्ते च द्वयोर्ग्रहणं विधत्ते —

“सह प्रथमौ गृह्येते सहोत्तमौ तस्माद्द्वौद्वावृतू” (सं. का. ६ प्र. ५ अ. ३) इति।

मधुश्च माधवश्चेत्येतौ प्रथमौ। तपश्च तपस्यश्चेत्येतावुत्तरौ। यस्माद्द्वयोः साहित्यमत्र विहितं तस्माद्द्वौद्वौ मासावृत्ववयवौ।

पात्रस्थसोमं वह्नौ स्रावयितुं बिलस्य पार्श्वयोर्द्वे मुखे विधत्ते —

“उभयतोमुखमृतुपात्रं भवति को हि तद्वेद यत ऋतूनां मुखम्” (सं. का. ६ प्र. ५ अ. ३) इति।

ऋतूनां मुखमृतुधर्मप्रवृत्त्यारम्भो यतो यस्मात्कालादारभ्य भवति तत्को नाम वेद। तस्मादृतुपात्रस्य मुखद्वयं कुर्यात्।

अध्वर्युप्रतिप्रस्थात्रोः प्रैषमन्त्रावुत्पादयति —

“ऋतुना प्रेष्येति षट्कृत्व आह षड्वा ऋतव ऋतूनेव प्रीणात्यृतुभिरिति चतुश्चतुष्पद एव पशून्प्रीणाति द्विः पुनतुनाऽऽह द्विपद एव प्रीणाति” (सं. का. ६ प्र. ५ अ. ३) इति।

हे मैत्रावरुण ऋतुना निमित्तेन होतारं प्रेष्य तमिमं मन्त्रं प्रथमतृतीयपञ्चमेष्वध्वर्ब्रूयात्। द्वितीयचतुर्थषष्ठेषु प्रतिप्रस्थाता ब्रूयात्। एवं षट्कृत्वस्तद्वचनम्। तेन भवत्यृतूनां प्रीतिः। ऋतुभिः प्रेष्येति सप्तमनवमयोरध्वर्युर्ब्रूयात्। अष्ठमदशमयोः प्रतिप्रस्थाता। तेन चतुरावर्तनेन पशूनां प्रीतिः। ऋतुना प्रेष्येत्यध्वर्युरेकादशे ब्रूयात्। प्रतिप्रस्थाता द्वादशे। तेन द्विरावर्तनेन मनुष्याणां पक्षिणां च प्रीतिः।

पूर्वोक्तामेव षट्चतुर्द्विसंख्यामुपजीव्योपजीवकभावेन प्रशंसति —

“ऋतुना प्रष्येति षट्कृत्व आहर्तुभिरिति चतुस्तस्माच्चतुष्पादः पशव ऋतूनुपविन्ति द्विः पुनतुनाऽऽह तस्माद्द्विपादश्चतुष्पदः पशूनुप जीवन्ति” (सं. का. ६ प्र. ५ अ. ३) इति।

गवादयश्चतुष्पादः शीतोष्णादीनृतुधर्मानुपजीवन्ति। मनुष्याश्च द्विपादः पशुगतक्षीरादीनुपजीवन्ति।

“ऋतुना प्रेष्येति षट्कृत्व आहर्तुभिरिति चतुर्द्विः पुनतुनाऽऽहाऽऽऋमणमेव

तत्सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै” (सं. का. ६ प्र. ५ अ. ३) इति।

आक्रम्यते प्राप्यते स्वर्गोऽनेनेत्याक्रमणः सेतुः यथा सेतोरधोभागो विशाल ऊर्ध्वभागः संकुचितस्तथैवात्र षट्चतुर्द्विसंख्या द्रष्टव्या। सोपानेष्वप्येतत्समानम्।

अध्वर्युप्रतिप्रस्थात्रोर्युगपद्गमनं निषेधति —

“नान्योऽन्यमनु प्र पद्येत यदन्योऽन्यमनुप्रपद्येतर्तुतुमनु प्र पद्येतर्तवो मोहुकाः स्युः” (सं. का. ६ प्र. ५ अ. ३) इति।

अध्वर्युप्रतिप्रस्थातृभ्यां प्रथमद्वितीयौ ग्रहौ सह गृहीतौ। ततो हविर्धाना-न्निष्क्रम्य गत्वाऽऽहवनीये हुत्वा पुनः प्रत्यागत्य हविर्धाने ग्रहान्तरं ग्रहीतव्यम्। तत्रैकः पुरतोऽन्यः पृष्ठत इत्येवं युगपन्न गन्तव्यं किंतु पर्यायेण। यद्यृतुग्रहे तयोः सहगमनं स्यात्तदानीमेकमृतुमन्योऽनुप्रविशेत्। तदा सांकर्यादृतवो मोहहेतवो भवेयुः।

कालभेदवदुभयोर्मार्गभेदं विधत्ते —

“प्रसिद्धमेवाध्वर्युर्दक्षिणेन प्र पद्यते प्रसिद्धं प्रतिप्रस्थातोत्तरेण तस्मादादित्यः षण्मासो दक्षिणेनैति षडुत्तरेण” (सं. का. ६ प्र. ५ अ. ३) इति।

प्रथमतः सिद्धं प्रसिद्धमादित आरभ्येत्यर्थः। यस्मादृत्विजोर्दक्षिणोत्तरौ द्वौ मार्गौ तस्मादादित्यस्यापि दक्षिणायनोत्तरायणे भवतः।

मधुश्चेत्यादिमन्त्रैरेव द्वादशमासानां प्रीतत्वात्संसर्पमन्त्रस्य निर्विषयत्वमाशङ्क्य व्याचष्टे —

“उपयामगृहीतोऽसि ससर्पोऽस्यहस्पत्याय त्वेत्याहास्ति त्रयोदशो मास इत्याहुस्तमेव तत्प्रीणाति” (सं. का. ६ प्र. ५ अ. ३) इति। अधिकमासस्त्रयोदशः॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 यज्ञेन वा इत्यादि ।। गतम् । अस्मदनुसारेण स्वर्गमागमिष्यन्तीति । अथ ते संवत्सरेण योपयित्वा मोहयित्वा मनुष्यान् स्वर्गं गताः । संवत्सरमहिमाक्षिप्तचेतसो मनुष्याः स्वर्गं नाद्रियन्ते । युप विमोहने । अथ ऋषयः तं स्वर्गं ऋतुग्रहैरेवानुप्राजानम् प्रज्ञातवन्तः । तस्मादृतुग्रहाणां ग्रहणं स्वर्गस्य प्रज्ञात्यै भवति । द्वादशानां ग्रहणं द्वादशमासात्मकसंवत्सरस्य प्रज्ञात्यै भवति । संवत्सरस्य हि प्रज्ञानेन मोहनिवृत्त्या स्वर्गः प्रज्ञातो भवति । प्रथमौ उत्तमौ च सह गृह्येते । सामर्थ्यादन्ये भेदेन गृह्यन्ते इति गम्यते । तस्माद्द्वौ द्वौ ऋतू ऋत्ववयवौ द्वौ मासौ एक ऋतुरिति यावत् । उभयत इत्यादि । को नाम तद्वेद । किम्? यतः प्रभृति ऋतूनां मुखमुपक्रमः ऋतुधर्माणां प्रवृत्त्यारम्भः केन चिदपि न ज्ञायते अत्रैव मुखं स्यादिति । तस्य च दुर्ज्ञानत्वादुभयतो मुखे ऋतुपात्रे भवतः ।।
2 ऋतुनेत्यादि ।। ऋतुना प्रेष्येति आद्येषु त्रिषु अध्वर्युराह । एवं त्रिषु प्रतिप्रस्थाता । एवं षट्कृत्व आह । षड्वा इत्यादि । गतम् । ऋतुभिरित्यादि । पात्रयोर्मुखे अवाङ्मुखमपर्यावृत्य ऋतुभिः प्रेष्येति सप्तमादिषु द्वयोरध्वर्युराह । एवं द्वयोः प्रतिप्रस्थाता । एवं चतुराह । चतुष्पदः पशून् गवादीन् प्रीणाति । द्विः पुनरित्यादि । पुनः पात्रयोर्मुखे पर्यावृत्य ऋतुना प्रेष्येति सकृदध्वर्युराह । एवं सकृत्प्रतिप्रस्थाता । एवं द्विराह । द्विपदः पशून् मनुष्यादीन् प्रीणाति ।।
3 एवं षण्णां चतुर्णां द्वयोश्च पृथक्पृथक् स्तुतिः कृता । इदानीं संघातं स्तोतुमाह - ऋतुनेत्यादि ।। यस्मादेवं षट्कृत्वः चतुष्कृत्वश्चाह तस्माच्चतुष्पादः पशवः गवादयः ऋतूनुपजीवन्ति ऋतुधर्मान् शीतोष्णादीनुपजीवन्ति । ततः पुनश्च यस्मात् 'ऋतुना' इति द्विराह तस्माद्द्विपादः पशवः चतुष्पदश्च पशून् क्षीरादिभोगेनोपजीवन्ति ।।
4 इदानीं संघातस्य स्तुत्यन्तरं क्रियते - ऋतुनेत्यादि ।। ऋतुना ऋतुभिः ऋतुनेति षट्कृत्वः चतुः द्विश्च यद्वचनं तदाक्रमणं सोपानं सेतुं गमनमार्गं यजमानः कुरुते स्वर्गस्य समष्टवै प्राप्त्यर्थम् ।।
5 नान्योन्यमित्यादि ।। परस्परस्यानुप्रवृत्तिं न कुर्यातामध्वर्युप्रतिप्रस्थातारौ । यदैको हविर्धानान्निष्क्रामति नेतरस्तदा निष्क्रामेत् । अपितु प्रविशेत् । यदैकः प्रविशति नेतरस्तदा प्रविशेत्, अपितु निष्क्रामेत् । द्वार्येव संभवति ततः प्रविशन्तमेवाध्वर्युं प्रतिप्रस्थाता ग्रहेण परिगृह्णाति । निष्क्रामन्तमध्वर्युं पात्रेण परिगृह्णाति । यदान्योन्यमनुमपद्येत तदा ऋतुः ऋत्वन्तरमनुप्रपद्येत एकप्रवृत्ते इतरः प्रवर्तेत । ततश्च ऋतवो मोहुका मोहनशीलाः संकीर्णस्वभावास्स्युः । छान्दस उकञ् ।।
6 प्रसिद्धमेवेत्यादि ।। गमनसिद्धेरारम्भः प्रसिद्धं उपक्रमतः प्रभृति अव्यवधानेन दक्षिणेन प्रतिपद्यते अध्वर्युः । अतः प्रभृति प्रतिप्रस्थाता च उत्तरेण प्रसिद्धमेव प्रतिपद्यते । यद्वा - प्रसिद्धं प्रथमसिद्धं मार्गं दक्षिणेनोत्तरं उत्तरमार्गं प्रतिपद्यते दक्षिणतोपक्रम्य गच्छेत् ।।
7 तस्मादिति ।। आदित्यः आषाढादीन् षण्मासान् दक्षिणेनैति दक्षिणस्यां दिशि गच्छति । 'एनबन्यतरस्याम्' इत्येनप्प्रत्ययः । अथ तैषादीत् षण्मासान् उत्तरेणादित्यो गच्छति । स एव प्रत्ययः । उपयामगृहीतोसीत्यादि । गतम् । तद्ग्रहणं योधिकमासस्तमेव मासं प्रीणाति प्रीणयति त्रयोदशेन ग्रहणेन ।।
इति षष्ठे पञ्चमे तृतीयोनुवाकः ॥