प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.5.3.2 TS 6.5.3.2
हि तद्-वेद॒ यत॑ ऋतू॒नां मुख॑मृ॒तुना॒ प्रेष्येति॒ षट् कृत्व॑ आह॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णात्यृ॒तुभि॒रिति॑ च॒तुश्चतु॑ष्पद ए॒व प॒शून् प्री॑णाति॒ द्विः पुन॑र्.ऋ॒तुना॑ऽऽह द्वि॒पद॑ ए॒व प्री॑णात्यृ॒तुना॒ प्रेष्येति॒ षट् कृत्व॑ आह॒र्तुभि॒रिति॑ च॒तुस्तस्मा॒-च्चतु॑ष्पादः प॒शव॑ ऋ॒तूनुप॑ जीवन्ति॒ द्विः- [ ]
पदपाठः (Word-by-word)
हि । तत् । वेद॑ । यतः॑ । ऋ॒तू॒नाम् । मुख᳚म् । ऋ॒तुना᳚ । प्रेति॑ । इ॒ष्य॒ । इति॑ । षट् । कृत्वः॑ । आ॒ह॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तून् । ए॒व । प्री॒णा॒ति॒ । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । इति॑ । च॒तुः । चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दः॒ । ए॒व । प॒शून् । प्री॒णा॒ति॒ । द्विः । पुनः॑ । ऋ॒तुना᳚ । आ॒ह॒ । द्वि॒पद॒ इति॑ द्वि - पदः॑ । ए॒व । प्री॒णा॒ति॒ । ऋ॒तुना᳚ । प्रेति॑ । इ॒ष्य॒ । इति॑ । षट् । कृत्वः॑ । आ॒ह॒ । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । इति॑ । च॒तुः । तस्मा᳚त् । चतु॑ष्पाद॒ इति॒ चतुः॑ - पा॒दः॒ । प॒शवः॑ । ऋ॒तून् । उपेति॑ । जी॒व॒न्ति॒ । द्विः ।
पदसंख्या: 50