प्रसि॑द्धमे॒वा-द्ध्व॒र्युर्दक्षि॑णेन॒ प्रप॑द्यते॒ प्रसि॑द्धं प्रतिप्रस्था॒तोत्त॑रेण॒ तस्मा॑दादि॒त्यः षण्मा॒सो दक्षि॑णेनैति॒ षडुत्त॑रेणो-पया॒मगृ॑हीतोऽसि सꣳ॒॒ सर्पो᳚ऽस्यꣳहस्प॒त्याय॒ त्वेत्या॒हास्ति॑ त्रयोद॒शो मास॒ इत्या॑हु॒स्तमे॒व तत् प्री॑णाति ॥
पदपाठः (Word-by-word)
प्रसि॑द्ध॒मिति॒ प्र - सि॒द्ध॒म् । ए॒व । अ॒द्ध्व॒र्युः । दक्षि॑णेन । प्रेति॑ । प॒द्य॒ते॒ । प्रसि॑द्ध॒मिति॒ प्र - सि॒द्ध॒म् । प्र॒ति॒प्र॒स्था॒तेति॑ प्रति-प्र॒स्था॒ता । उत्त॑रे॒णेत्युत्-त॒रे॒ण॒ । तस्मा᳚त् । आ॒दि॒त्यः । षट् । मा॒सः । दक्षि॑णेन । ए॒ति॒ । षट् । उत्त॑रे॒णेत्युत्-त॒रे॒ण॒ । उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म-गृ॒ही॒तः॒ । अ॒सि॒ । सꣳ॒॒सर्प॒ इति॑ सं - सर्पः॑ । अ॒सि॒ । अꣳ॒॒ह॒स्प॒त्यायेत्यꣳ॑हः - प॒त्याय॑ । त्वा॒ । इति॑ । आ॒ह॒ । अस्ति॑ । त्र॒यो॒द॒श इति॑ त्रयः - द॒शः । मासः॑ । इति॑ । आ॒हुः॒ । तम् । ए॒व । तत् । प्री॒णा॒ति॒ ॥