प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.5.8.1 TS 6.5.8.1
प्रा॒णो वा ए॒ष यदु॑पाꣳ॒॒शु-र्यदु॑पाꣳशुपा॒त्रेण॑ प्रथ॒मश्चो᳚त्त॒मश्च॒ ग्रहौ॑ गृ॒ह्येते᳚ प्रा॒णमे॒वानु॑ प्र॒यन्ति॑ प्रा॒णमनूद्य॑न्ति प्र॒जाप॑ति॒र्वा ए॒ष यदा᳚ग्रय॒णः प्रा॒ण उ॑पाꣳ॒॒शुः पत्नीः᳚ प्र॒जाः प्र ज॑नयन्ति॒ यदु॑पाꣳशुपा॒त्रेण॑ पात्नीव॒तमा᳚ग्रय॒णाद्-गृ॒ह्णाति॑ प्र॒जानां᳚ प्र॒जन॑नाय॒ तस्मा᳚त् प्रा॒णं प्र॒जा अनु॒ प्र जा॑यन्ते दे॒वा वा इ॒त इ॑तः॒ पत्नीः᳚ सुव॒र्गं- [ ]
पदपाठः (Word-by-word)
प्रा॒ण इति॑ प्र - अ॒नः । वै । ए॒षः । यत् । उ॒पाꣳ॒॒शुरित्यु॑प-अꣳ॒॒शुः । यत् । उ॒पाꣳ॒॒शु॒पा॒त्रेणेत्यु॑पाꣳशु - पा॒त्रेण॑ । प्र॒थ॒मः । च॒ । उ॒त्त॒म इत्यु॑त् - त॒मः । च॒ । ग्रहौ᳚ । गृ॒ह्येते॒ इति॑ । प्रा॒णमिति॑ प्र - अ॒नम् । ए॒व । अन्विति॑ । प्र॒यन्तीति॑ प्र - यन्ति॑ । प्रा॒णमिति॑ प्र - अ॒नम् । अनु॑ । उदिति॑ । य॒न्ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वै । ए॒षः । यत् । आ॒ग्र॒य॒णः । प्रा॒ण इति॑ प्र - अ॒नः । उ॒पाꣳ॒॒शुरित्यु॑प-अꣳ॒॒शुः । पत्नीः᳚ । प्र॒जा इति॑ प्र - जाः । प्रेति॑ । ज॒न॒य॒न्ति॒ । यत् । उ॒पाꣳ॒॒शु॒पा॒त्रेणेत्यु॑पाꣳशु - पा॒त्रेण॑ । पा॒त्नी॒व॒तमिति॑ पात्नी - व॒तम् । आ॒ग्र॒य॒णात् । गृ॒ह्णाति॑ । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । तस्मा᳚त् । प्रा॒णमिति॑ प्र - अ॒नम् । प्र॒जा इति॑ प्र-जाः । अनु॑ । प्रेति॑ । जा॒य॒न्ते॒ । दे॒वाः । वै । इ॒त इ॑त॒ इती॒तः - इ॒तः॒ । पत्नीः᳚ । सु॒व॒र्गमिति॑ सुवः-गम् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

पात्नीवतस्य ग्रहस्य पात्रं विधत्ते —

“प्राणो वा एष यदुपांशुर्यदुपांशुपात्रेण प्रथमश्चोत्तमश्च ग्रहौ गृह्येते प्राणमेवानु प्रयन्ति प्राणमनूद्यन्ति” (सं. का. ६ प्र. ५ अ. ८) इति।

उपांशोः प्राणत्वं पूर्वमुक्तम्। वाचस्पतये पवस्वेत्यनेन गृहीतः प्रथमो ग्रहः। बृहस्पतिसुतस्येति गृह्यमाणश्चोत्तमो ग्रहः। यद्यपि दधिग्रहः पूर्वभावो तथाऽपि नासौ सोमग्रहः। अदाभ्यांशू सोमग्रहावपि न तौ नित्यौ। तस्मान्नित्येषु सामग्रहेषूपांशुरेव प्रथमः। हारियोजनस्य पश्चाद्भावित्वेऽप्यग्निष्टोमसाम्नि समाप्ते सति यज्ञशेषत्वेनानुष्ठानम्। तस्मादग्निष्टोमापेक्षया पात्नीवतस्योत्तमत्वम्।तयोः प्रथमोत्तमयोरुपांशुपात्रेण ग्रहणं कुर्यात्। तथा सति प्राणमेवानुसृत्य प्रयन्ति प्रारभन्ते। उद्यन्ति समापयन्ति।

पात्नीवतग्रहं विधत्ते —

“प्रजापतिर्वा एष यदाग्रयणः प्राण उपांशुः पत्नीः प्रजाः प्र जनयन्ति यदुपांशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति प्रजानां प्रजननाय तस्मात्प्राणं प्रजा अनु प्र जायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।

पत्नीरिति प्रथमा। प्राणमनु प्राणयुक्ताः प्रजा उत्पद्यन्ते।

विहितं ग्रहं प्रशंसति —

“देवा वा इतइतः पत्नीः सुवर्गं लोकमाजिगांसन्ते सुवर्गं लोकं प्राजानन्त एतं पात्नीवतमपश्यन्तमगृह्णत ततो वै ते सुवर्गं लोकं प्राजानन्यत्पात्नीवतो गृह्यते सुवर्गस्य लोकस्य प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ८) इति।

(देवाः) पत्नीरित इतः पात्नीवतग्रहमुपेक्ष्यान्यस्माद्ग्रहात् (स्वर्गं ज्ञातिमिच्छन्तोऽपि न प्रज्ञातवन्तः। पात्नीवतग्रहणेन तु प्रज्ञातवन्तः।) इत्येतद्ग्रहो गृह्यते।

एतद्गृहे घृतमेलनं विधत्ते —

“स सोमो नातिष्ठत स्त्रीभ्यो गृह्यमाणस्तं घृतं वज्रं कृत्वाऽघ्नन्तं निरिन्द्रियं भूतमगृह्णन्तस्मात्स्त्रियो निरिन्द्रिया अदायादीरपि पापात्पुस उपस्तितरं वदन्ति यद्घृतेन पात्नीवत श्रीणाति वज्रेणैवैनं वशे कृत्वा गृह्णाति”(सं. का. ६ प्र. ५ अ. ८) इति।

नातिष्ठत स्त्रीदेवताकत्वमसहमानः स्वात्मानं न प्रकाशितवान्। अघ्नन्नताड-यन्। निरिन्द्रियं भूतं निर्वीर्यं जातम्। यस्मात्स्त्रीदेवताभ्यो गृह्यमाणः सोमो निःसामर्थ्यस्तस्माल्लोके स्त्रियः सामर्थ्यरहिता अपत्येषु दायभाजो न भवन्ति। पापात्पतितादपि पुंसोऽप्युपस्तितरं क्षीणतरं स्त्रीस्वरूपं वदन्ति।

आम्नातस्य बृहस्पतिसुतस्येति मन्त्रस्य शेषं पूरयित्वा व्याचष्टे —

“उपयामगृहीतोऽसीत्याहेयं वा उपयामस्तस्मादिमां प्रजा अनु प्र जायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।

उपेताः प्रजा यच्छति उत्पादधारणादिना व्यवस्थापयतीत्युपयामो भूभागविशेषः।

बृहस्पतिशब्दस्यैव प्रयोगेऽभिप्रायमाह —

“बृहस्पतिसुतस्य त इत्याह ब्रह्म वै देवानां बृहस्पतिब्रर्ह्मणैवास्मै प्रजाः प्र जनयति” (सं. का. ६ प्र. ५ अ. ८) इति।

इन्दुशब्दो द्रवत्वसाम्येन रेत उपलक्षयतीत्याह —

“इन्दो इत्याह रेतो वा इन्दू रेत एव तद्दधाति” (सं. का. ६ प्र. ५ अ. ८) इति।

इन्द्रियशब्देन तत्कार्यभूताः प्रजा उपलक्षन्त इत्याह —

“इन्द्रियाव इत्याह प्रजा वा इन्द्रियं प्रजा एवास्मै प्र जनयति” (सं. का. ६ प्र. ५ अ. ८) इति।

अग्निशब्दपत्नीवच्छब्दयोरभिप्रायं दर्शयति —

“अग्ना३ इत्याहाग्निर्वै रेतोधाः पत्नीव इत्याह मिथुनत्वाय” (सं. का. ६ प्र. ५ अ. ८) इति।

त्वष्टृशब्दप्रयोजनमाह —

“सजूर्देवेन त्वष्ट्रा सोमं पिबेत्याह त्वष्टा वै पशूनां मिथुनाना रूपकृद्रूपमेव पशुषु दधाति” (सं. का. ६ प्र. ५ अ. ८) इति।

पात्नीवतग्रहस्य होममन्त्रे त्वष्टुः परामर्शो न युक्त इति शङ्कां वारयति —

“देवा वै त्वष्टारमजिघासन्त्स पत्नीः प्रापद्यत तं न प्रति प्रायच्छन्तस्मादपि वध्यं प्रपन्नं न प्रति प्र यच्छन्ति तस्मात्पात्नीवते त्वष्ट्रेऽपि गृह्यते”(सं. का. ६ प्र. ५ अ. ८) इति।

यस्मात्पत्नीः शरणं गतस्तस्मात्त्वष्टा पत्नीरनुभागी भवति।

सादनस्य प्रसक्तौ तद्वारयति —

“न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।

अनुवषट्कारे तूपांशुत्वगुणं विधत्ते —

“नानु वषट्करोति यदनुवषट्कुर्याद्रुद्रं प्रजा अन्ववसृजेद्यन्नानुवषट्कुर्यादशा-न्तमग्नीत्सोमं भक्षयेदुपाश्वनु वषट्करोति न रुद्रं प्रजा अन्ववसृजति शान्तम-ग्नीत्सोमं भक्षयति” (सं. का. ६ प्र. ५ अ. ८) इति।

अन्ववसृजेदनुप्राप्य सृष्टिं वारयेत्। अशान्तमनिष्टकरम्।

अग्नीन्नेष्ट्रोरध्वर्योः प्रैषमन्त्रमुत्पादयति —

“अग्नीन्नेष्टुरुपस्थमा सीद नेष्टः पत्नीमुदानयेत्याहाग्नीदेव नेष्टरि रेतो दधाति नेष्टा पत्नियाम्” (सं. का. ६ प्र. ५ अ. ८) इति।

हे आग्नीध्र नेष्टुः समीपमागत्योपविश। हे नेष्टः पत्नीमुत्थाप्येहाऽऽनय। अनेन प्रैषद्वयेन रेतः प्रजोत्पादनसामर्थ्योपेतं स्थापितं भवति।

नेष्टुकारयितृकमुद्गातृकर्तृकं पत्नीविषयं दर्शनं विधत्ते —

“उद्गात्रा सं ख्यापयति प्रजापतिर्वा एष यदुद्गाता प्रजानां प्रजननाय” (सं. का. ६ प्र. ५ अ. ८) इति।

पत्नीकर्तृकं पन्नेजनीसंज्ञकजलस्य प्रवर्तनं विधत्ते —

“अप उप प्र वर्तयति रेत एव तत्सिञ्चति” (सं. का. ६ प्र. ५ अ. ८) इति।

प्रवर्तनाय तज्जलप्रक्षेपस्य स्थानं विधत्ते –

“ऊरुणोप प्र वर्तयत्यूरुणा हि रेतः सिच्यते” (सं. का. ६ प्र. ५ अ. ८) इति।

ऊरुप्रदेशे वस्त्रापनयनं विधत्ते —

“नग्नंकृत्योरुमुप प्र वर्तयति यदा हि नग्न ऊरुर्भवत्यथ मिथुनी भवतोऽथ रेतः सिच्यतेऽथ प्रजाः प्र जायन्ते” (सं. का. ६ प्र. ४अ. ८) इति।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 प्राणो वा एष इत्यादि ।। प्राणापानाभ्यामेवोपांश्वन्तर्यामावित्युक्तत्वात् । प्रथमः उपांशुरुत्तमः पात्नीवतः । अग्निष्टोमं प्रकृत्योच्यते । प्राणमेवेत्यादि । प्राणमनु प्राणेन सह प्रयन्ति प्रारभन्ते, प्राणेन सहोद्यन्ति समापयन्ति । 'तृतीयार्थे' इत्यनोः कर्मप्रवचनीयत्वम् । प्रजापतिर्वा इत्यादि । गतम् । तस्मादिति । प्राणमनु प्राणेन सहैव प्रजा जायन्ते ।।
2 देवा वा इत्यादि ।। इतइतः स्थापयित्वा पत्नीस्ता अनादृत्य स्वर्गं गन्तुमैच्छन्, सामर्थ्यलभ्यार्थात् । यद्वा - वर्जयित्वेत्यस्यार्थे इतइत इति वर्तते । गमेस्सनि 'अज्झनगमां सनि' इति दीर्घत्वम्, छान्दस इडभावः । ते स्वर्गं न प्राजानन् न प्रज्ञातवन्तः । त एतमित्यादि । गतम् ।।
3 स सोम इत्यादि ।। स स्त्रीभ्यो गृह्यमाणस्सोमः नातिष्ठत नात्मानं प्रकाशितवान् स्त्रीभ्यो ग्रहणमसहमानः । प्रकाशने आत्मनेपदम् । घृतं वज्रं कृत्वा तेन तमघ्नन् । ततस्तेन घृतवधेन निरिन्द्रियं गतसारं भूतं संजातमगृह्णन् ग्रहत्वेन संपादितवन्तः पत्नीभ्यः । तस्मात् स्त्रियो निरिन्द्रियाः निरिन्द्रियसोमसंबन्धात् अदायादो अदायाद्यः अदायभुजः । निरिन्द्रियत्वादेव पापात्पतितादेः पुंसोपि उपस्तितरं वदन्ति निरिन्द्रियं सोमम् । तस्मात्तादृशसोमसंबन्धात् स्त्रियो दायभाजो न भवन्ति । उप भवति गुणभावेन वर्तते इति उपस्तिः, उपपूर्वादस्तेः 'क्तिच्क्तौ च' इति क्तिच्, 'छन्दस्युभयथा' इति तस्य सार्वधातुकत्वाद्भूभावाभावः, अल्लोपश्च । यद्घृतेनेत्यादि । गतम् ।
4 इयं वा इति ।। पृथिव्यात्मकेनोपयामेन प्रजात्मकस्य पात्नीवतस्य ग्रहणादिमां पृथिवीमनु प्रजाः प्रजायन्ते । बृहस्पतिसुतस्येत्यादि । ग्रहणमन्त्रस्य व्याख्या । पत्नीव इति । प्रथमेनामन्त्रितेन दूराद्धूतत्वस्य गतत्वात् इदमप्लुतमेवोपादीयते ।।
5 देवा वा इत्यादि ।। त्वष्टारं हन्तुमैच्छन् देवाः । स च त्वष्टा पत्नीः प्रापद्यत शराणं गतः । तमित्यादि । व्याख्यातप्रायम् । तस्मात्पात्नीवते त्वष्ट्रेऽपिगृह्यते 'त्वष्ट्रा सोमं पिब' इति मन्त्रलिङ्गात् । न सादयतीत्यादि । गतम्11 ।।
6 अशान्तमिति ।। अनिष्टकारणमशान्तमभक्षितं स्यात्; तस्मादुपांश्विति विधिः । न रुद्रमित्यादि । गतम् ।।
7 अग्रीदित्यादिः प्रैषः, तदेकदेशं व्याचष्टे - नेष्टरि रेतो दधात्याग्नीघ्रः तदुपस्थानेन, नेष्टा च पत्न्यां रेतो दधाति तदुदानयनेन ।।
8 उद्गात्रेत्यादि ।। गतम् । स्वयं प्रजापतिरेवोद्गाता, तस्मात्तेन संख्यापनाप्रदर्शनं प्रजानां प्रजननाय भवति । उपप्रवर्तयतीति । समीपे तस्यास्स्रावयति रेतस्सेकस्थानीयं तत् भवति ।।
9 ऊरुणेति विधिः ।। ऊरुत्वोपलक्षिते देशे उपप्रवर्तयति । ऊरुणा हीति । ऊरूपबृंहितेन प्रजननेनेत्यर्थः । नग्नंकृत्य वास उद्घाट्य । ऊर्यादिर्मकारान्तो द्रष्टव्यः । ल्यपि गतित्वात्कृदुत्तरपदप्रकृतिस्वरत्वम् । यदा हीत्यादि । ऊरुः ऊरुमान् प्रजननप्रदेशो यदा नग्नो भवति उद्घाटितवसनः क्रियते अथानन्तरमेव स्त्रीपुंसौ मिथुनीभवतः मैथुनं गच्छतः, अथानन्तरमेव रेतस्सिच्यते, अथ ततः पतितं निषिक्तं रेतः प्रजात्वेन परिणतं भवति । तस्मान्महाफलत्वान्नग्नकरणस्य नग्नंकृत्योरुमुपप्रवर्तयतीति ।।
इति षष्ठे पञ्चमे अष्टमोनुवाकः ॥