प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.5.9.1 TS 6.5.9.1
इन्द्रो॑ वृ॒त्रम॑ह॒न् तस्य॑ शीर्.षकपा॒ल-मुदौ᳚ब्ज॒थ् स द्रो॑णक॒लशो॑ऽभव॒त् तस्मा॒थ् सोमः॒ सम॑स्रव॒थ् स हा॑रियोज॒नो॑ऽभव॒त् तं ॅव्य॑चिकिथ्स-ज्जु॒हवा॒नी(3) मा हौ॒षा(3)मिति॒ सो॑ऽमन्यत॒ यद्धो॒ष्याम्या॒मꣳ हो᳚ष्यामि॒ यन्न हो॒ष्यामि॑ यज्ञ्वेश॒सं क॑रिष्या॒मीति॒ तम॑द्ध्रियत॒ होतुꣳ॒॒ सो᳚ऽग्निर॑ब्रवी॒न्न मय्या॒मꣳ हो᳚ष्य॒सीति॒ तं धा॒नाभि॑रश्रीणा॒त्- [ ]
पदपाठः (Word-by-word)
इन्द्रः॑ । वृ॒त्रम् । अ॒ह॒न्न् । तस्य॑ । शी॒र्॒.ष॒क॒पा॒लमिति॑ शीर्.ष-क॒पा॒लम् । उदिति॑ । औ॒ब्ज॒त् । सः । द्रो॒ण॒क॒ल॒श इति॑ द्रोण-क॒ल॒शः । अ॒भ॒व॒त् । तस्मा᳚त् । सोमः॑ । समिति॑ । अ॒स्र॒व॒त् । सः । हा॒रि॒यो॒ज॒न इति॑ हारि - यो॒ज॒नः । अ॒भ॒व॒त् । तम् । वीति॑ । अ॒चि॒कि॒थ्स॒त् । जु॒हवा॒नी(3) । मा । हौ॒षा(3)म् । इति॑ । सः । अ॒म॒न्य॒त॒ । यत् । हो॒ष्यामि॑ । आ॒मम् । हो॒ष्या॒मि॒ । यत् । न । हो॒ष्यामि॑ । य॒ज्ञ्॒वे॒श॒समिति॑ यज्ञ् - वे॒श॒सम् । क॒रि॒ष्या॒मि॒ । इति॑ । तम् । अ॒द्ध्रि॒य॒त॒ । होतु᳚म् । सः । अ॒ग्निः । अ॒ब्र॒वी॒त् । न । मयि॑ । आ॒मम् । हो॒ष्य॒सि॒ । इति॑ । तम् । धा॒नाभिः॑ । अ॒श्री॒णा॒त् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

हारियोजनग्रहविधिमर्थवादेनोन्नयति —

“इन्द्रो वृत्रमहन्तस्य शीर्षकपालमुदौब्जत्स द्रोणकलशोऽभवत्तस्मात्सोमः सम-स्रवत्स हारियोजनोऽभवत्” (सं. का. ६ प्र. ५ अ. ९) इति।

उदौब्जदुत्तानमभवत्। तस्माद्वृत्रशिरसो निष्पन्नाद्द्रोणकलशात्सृतः सोमरसो हारियोजनोऽभवत्। तस्माद्द्रोणकलशेन हारियोजनं गृह्णीयात्।

धानामेलनं विधत्ते —

“तं व्यचिकित्सज्जुहवानी३ मा हौषा३मिति सोऽमन्यत यद्धोष्याम्यामहोष्यामि यन्न होष्यामि यज्ञवेशसं करिष्यामीति तमध्रियत होतु सोऽग्निरब्र-वीन्न मय्याम होष्यसीति तं धानाभिरश्रीणात्त शृतं भूतमजुहोद्यद्धानाभिर्हारि योजन श्रीणाति शृतत्वाय शृतमेवैनं भूतं जुहोति” (सं. का. ६ प्र. ५ अ. ९) इति।

तं हारियोजनं ग्रहं प्रति। आममपक्वम्। यज्ञवेशसं यज्ञविघातम्। स इन्द्रस्तं ग्रहं होतुमध्रियत निश्चयमकरोत्। न होष्यसि मा हौषीः। शृतं भूतं पक्वं जातम्।

धानानां बाहुल्यं विधत्ते —

“बह्वीभिः श्रीणात्येतावतीभिरेवास्यमुष्मिँल्लोके कामदुघा भवन्त्यथो खल्वा-हुरेता वा इन्द्रस्य पृश्नयः कामदुघा यद्धारियोजनीरिति तस्माद्बह्वीभिः श्रीणी-यात्” (सं. का. ६ प्र. ५ अ. ९) इति।

संख्यया यावत्यो धानास्तावत्यो यजमानस्य स्वर्गे कामधेनवो भवन्ति। किंच हारियोजनीर्धाना इन्द्रस्य कामधेनवः। पृश्नयोऽल्पतनवः।

सवनीयस्य पशोः परिधिषु प्रहृतेषु हारियोजनकाल इत्येतद्विधत्ते —

“ऋक्सामे वा इन्द्रस्य हरी सोमपानौ तयोः परिधय आधनं यदप्रहृत्य परि-धीञ्जुहुयादन्तराधानाभ्यां घासं प्र यच्छेत्प्रहृत्य परिधीञ्जुहोति निराधानाभ्यामेव घासं प्र यच्छति” (सं. का. ६ प्र. ५ अ. ९) इति।

ऋक्सामवेदात्मकाविन्द्रस्याश्वौ। तावप्यत्र सोमं पिबतः। अत एव हर्योर्धाना इत्युक्तम्। सवनीयपश्वङ्गभूता ये परिधयोऽग्निं परित आवृत्य तिष्ठन्ति ते तयो-रश्वयोराधानम्। आधीयते मुखे प्रक्षिप्यतेऽश्वं नियन्तुमित्याधानं खलीनम्। मुखस्यान्तः स्थितमाधानं ययोरश्वयोस्ताभ्यामन्तराधानाभ्याम्। परिधिप्रहरणादूर्ध्वं होमे निराधानत्वात्सुखेनैव घासमत्तुं शक्यते।

नात्राध्वर्योर्होमः किंतून्नेतुरित्यमुमर्थं विधत्ते —

“उन्नेता जुहोति यातयामेव ह्येतर्ह्यध्वर्युः स्वगाकृतो यदध्वर्युर्जुहुयाद्यथा विमुक्तं पुनर्युनक्ति तादृगेव तत्” (सं. का. ६ प्र. ५ अ. ९) इति।

एतस्मिन्कालेऽध्वर्युर्यस्मात्स्वगाकृतः स्वाधीनगतिः कृतः प्रधानग्रहाणां समाप्तत्वेन पारतन्त्र्याभावात्तस्मादयं गतसाररूप इव। तथा सत्यध्वर्योर्होमे विमुक्तस्य बलीवर्दस्य श्रान्तस्य पुनः शकटे योग इव भवति।

गृहीतस्य हारियोजनस्य होमात्पूर्वं शिरसि धारणं विधत्ते —

“शीर्षन्नधिनिधाय जुहोति शीर्षतो हि स समभवत्” (सं. का. ६ प्र. ५ अ. ९) इति।

होमकालेष्वाश्रावणदेशादीषत्पुरतो वलनं कृत्वा होतव्यमिति विधत्ते —

“विक्रम्य जुहोति विक्रम्य हीन्द्रो वृत्रमहन्त्समृद्ध्यै” (सं. का. ६ प्र. ५ अ. ९) इति।

भक्षणकाले हारियोजनधानानां मानसं चर्वणं विधत्ते —

“पशवो वै हारियोजनीर्यत्संभिन्द्यादल्पा एनं, पशवो भुञ्जन्त उप तिष्ठेरन्यन्न संभिन्द्याद्बहव एनं पशवोऽभुञ्जन्त उप तिष्ठेरन्मनसा सं बाधत उभयं करोति बहव एवैनं पशवो भुञ्जन्त उप तिष्ठन्ते” (सं. का. ६ प्र. ५ अ. ९) इति।

पशुप्राप्तिहेतुत्वाद्धानाः पशवः। संभिन्द्याद्दन्तैः खण्डयेत्। तथा सति कतिचिदेव पशव एनं यजमानं क्षीरदानादिभिः पालयन्ति। मानसचर्वणे तु संभेदनमसंभेदनं चेत्युभयस्य कृतत्वात्पशूनां नाल्पत्वं नापि क्षीरादिराहित्यम्।

उन्नेतृहस्तगतं हुतशेषं सर्वे भक्षयितुमुन्नेतुरनुज्ञामपेक्षेरन्निति विधत्ते –

“उन्नेतर्युपहवमिच्छन्ते य एव तत्र सोमपीथस्तमेवाव रुन्धते” (सं. का. ६ प्र. ५ अ. ९) इति।

सर्वभक्षितावशेषाणां द्रोणकलशगतसोमानां निनयनं विधत्ते —

“उत्तरवेद्यां नि वपति पशवो वा उत्तरवेदिः पशवो हारियोजनीः पशुष्वेव पशून्प्रति ष्ठापयन्ति” (सं. का. ६ प्र. ५ अ. ९) इति।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 इन्द्रो वृत्रमहन्नित्यादि ।। शीर्षकपालं शिरःकपालमुदौब्जत् उत्तानं व्यवर्तत । तस्माद्द्रोणकलशभूतात् संस्रुतस्सोमो हारियोजनो ग्रहोभवत् । हरयो युज्यन्ते यस्य रथे स हरियोजनः, तद्देवत्यो हारियोजनः ।।
2 तमित्यादि ।। व्यचिकित्सत् विचारितवान् इमं किं जुहवानि मा हौषमिति । 'विचार्यमाणानाम्' इत्युदात्तः प्लुतः । कुतः पुनस्संशय इत्याह - सोमन्यतेत्यादि । यदि होष्यामि आममपक्वं असंस्कृतं हविर्हुतं स्यात् । अथ यदि न होष्यामि यज्ञवेशसं करिष्यामि यज्ञविनाशकारी स्याम् । 'अनसन्तान्नपुंसकात्' इत्यच्समासान्तः । यज्ञार्थं गृहीतस्याविनियोगो यज्ञविनाशः । प्रवृत्तयज्ञस्येन्द्रस्य हारियोजनार्थिनो हतवृत्रशिरसः स्रुतस्सोमो हारियोजनात्मा समवस्थित इति कृत्वा अथ तं सोमं होतुमेवाध्रियत अवातिष्ठत होष्याम्येवेति कृतावधारणोभवत् । धृङ् अवस्थाने, तौदादिकः, 'रिङ्शयग्लिङ्क्षु' ।।
3 अथ सोग्निरब्रवीत् - मा मय्यामं अपक्वं हौषीरिति । अथ तं ग्रहं धानाभिरश्रीणात् पक्वमकरोत् । अथ तं शृतं भूतं पक्षं संजातं अजुहोत् । यदित्यादि । गतम् ।।
4 बह्वीभिरित्यादि ।। 'बह्वादिभ्यश्च' 'नित्यं छन्दसि' इति ङीष् । बह्वीभिर्धानाभिः श्रयणादेतावत्यः बह्व्यः पृश्नयः अस्य अमुष्मिन् भोगभूमौ कामदुघा भवन्ति । 'दुहः कब्धश्च' इति कप् । अथो इत्यादि । गतम् । हारियोजनसंबन्धिन्यो धाना हारियोजन्यः । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् ।।
5 ऋक्सामे वा इत्यादि ।। ऋक्सामे वा इन्द्रस्याश्वौ सोमपानौ सोमस्य पाता याभ्यामिन्द्रः । करणे ल्युट् । तयोः हर्योः परिधयः आधानं आधानस्थानीया अस्य गतखलीनकल्पाः । तस्माद्यदि परिधीत् अप्रहृत्य हारियोजनं जुहुयात् अथान्तराधानाभ्यां आस्यान्तर्गताधानाभ्यां घासप्रदानतुल्यं स्यात् । अदनीयस्तृणादिर्घासः । प्रहृत्येत्यादि । परिधीन् प्रहृत्य हारियोजनहोमः निर्गताधानाभ्यां घासप्रदानसमं भवति ।।
6 उन्नेतेति ।। गतसार इवाध्वर्युरस्मिन् काले स्वगाकृतत्वात् अनुज्ञातस्वैरगतित्वात् । तस्माद्यदध्वर्युर्जुहुयात् विमुक्तस्य पुनर्योगसम तत्स्यात् । शीर्षन्नित्यादि । गतम् । वृत्रस्य शिरसः हारियोजनस्संभूतः । 'हि च' इति निघाताभावः । विक्रम्येति । अवष्टभ्यैव जुहोति, विक्रम्य खल्विन्द्रः वृत्रं हतवान् तस्मात्समृद्धचै भवति ।

पूर्ववन्निघाताभावः ।।

7 पशवो वा इत्यादि ।। तद्धेतुत्वात्ताच्छब्द्यम् । ताः धाना भक्षणकाले यदि संभिन्द्यात् दन्तैः स्पृशेत् कुट्टयेद्वा अल्पाः पशवः क्षीरादिना एनं भुञ्जन्तः पालयन्तः उपतिष्ठेरन् संगच्छेयुः । संगतिकरण आत्मनेपदम् । असंभेदने बहवः पशवः अभुञ्जन्तः क्षीरादिशून्या उपतिष्ठेरन् । मनसेत्यादि । संबाधते संपीडयति । तथा कुर्वन् उभयं करोति संभेदनमसंभेदनं च । ततश्च बहवः पशव एनं भुञ्जन्त एवोपतिष्ठन्ते । उन्नेतरीत्यादि । उपहवोनुज्ञा । गतमन्यत् ।।
इति षष्ठे पञ्चमे नवमोवाकः ॥