प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.5.9.2 TS 6.5.9.2
तꣳ शृ॒तं भू॒तम॑जुहो॒द्-यद्धा॒नाभि॑र्. हारियोज॒नꣳ श्री॒णाति॑ शृत॒त्वाय॑ शृ॒तमे॒वैनं॑ भू॒तं जु॑होति ब॒ह्वीभिः॑ श्रीणात्ये॒ताव॑ती-रे॒वास्या॒-मुष्मि॑न् ॅलो॒के का॑म॒दुघा॑ भव॒न्त्यथो॒ खल्वा॑हुरे॒ता वा इन्द्र॑स्य॒ पृश्न॑यः काम॒दुघा॒ यद्धा॑रियोज॒नीरिति॒ तस्मा᳚द्-ब॒ह्वीभिः॑ श्रीणीयादृख्सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ॒ तयोः᳚ परि॒धय॑ आ॒धानं॒ ॅयदप्र॑हृत्य परि॒धी-ञ्जु॑हु॒या-द॒न्तरा॑धानाभ्यां- [ ]
पदपाठः (Word-by-word)
तम् । शृ॒तम् । भू॒तम् । अ॒जु॒हो॒त् । यत् । धा॒नाभिः॑ । हा॒रि॒यो॒ज॒नमिति॑ हारि - यो॒ज॒नम् । श्री॒णाति॑ । शृ॒त॒त्वायेति॑ शृत - त्वाय॑ । शृ॒तम् । ए॒व । ए॒न॒म् । भू॒तम् । जु॒हो॒ति॒ । ब॒ह्वीभिः॑ । श्री॒णा॒ति॒ । ए॒ताव॑तीः । ए॒व । अ॒स्य॒ । अ॒मुष्मिन्न्॑ । लो॒के । का॒म॒दुघा॒ इति॑ काम - दुघाः᳚ । भ॒व॒न्ति॒ । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । ए॒ताः । वै । इन्द्र॑स्य । पृश्न॑यः । का॒म॒दुघा॒ इति॑ काम - दुघाः᳚ । यत् । हा॒रि॒यो॒ज॒नीरिति॑ हारि - यो॒ज॒नीः । इति॑ । तस्मा᳚त् । ब॒ह्वीभिः॑ । श्री॒णी॒या॒त् । ऋ॒ख्सा॒मे इत्यृ॑क् - सा॒मे । वै । इन्द्र॑स्य । हरी॒ इति॑ । सो॒म॒पाना॒विति॑ सोम - पानौ᳚ । तयोः᳚ । प॒रि॒धय॒ इति॑ परि - धयः॑ । आ॒धान॒मित्या᳚ - धान᳚म् । यत् । अप्र॑हृ॒त्येत्यप्र॑ - हृ॒त्य॒ । प॒रि॒धीनिति॑ परि - धीन् । जु॒हु॒यात् । अ॒न्तरा॑धानाभ्या॒मित्य॒न्तः-आ॒धा॒ना॒भ्या॒म् ।
पदसंख्या: 50