घा॒सं प्र य॑च्छेत् प्र॒हृत्य॑ परि॒धीञ्जु॑होति॒ निरा॑धानाभ्यामे॒व घा॒सं प्र य॑च्छत्युन्ने॒ता जु॑होति या॒तया॑मेव॒ ह्ये॑तर्ह्य॑द्ध्व॒र्युः स्व॒गाकृ॑तो॒ यद॑द्ध्व॒र्युर्जु॑हु॒याद्-यथा॒ विमु॑क्तं॒ पुन॑र्यु॒नक्ति॑ ता॒दृगे॒व तच्छी॒र्॒.ष-न्न॑धिनि॒धाय॑ जुहोति शीर्.ष॒तो हि स स॒मभ॑वद्-वि॒क्रम्य॑ जुहोति वि॒क्रम्य॒ हीन्द्रो॑ वृ॒त्रमह॒न्थ् समृ॑द्ध्यै प॒शवो॒ वै हा॑रियोज॒नीर्यथ् स॑भिं॒न्द्यादल्पा॑- [ ]
पदपाठः (Word-by-word)
घा॒सम् । प्रेति॑ । य॒च्छे॒त् । प्र॒हृत्येति॑ प्र - हृत्य॑ । प॒रि॒धीनिति॑ परि - धीन् । जु॒हो॒ति॒ । निरा॑धानाभ्या॒मिति॒ निः - आ॒धा॒ना॒भ्या॒म् । ए॒व । घा॒सम् । प्रेति॑ । य॒च्छ॒ति॒ । उ॒न्ने॒तेत्यु॑त् - ने॒ता । जु॒हो॒ति॒ । या॒तया॒मेति॑ या॒त - या॒मा॒ । इ॒व॒ । हि । ए॒तर्.हि॑ । अ॒द्ध्व॒र्युः । स्व॒गाकृ॑त॒ इति॑ स्व॒गा-कृ॒तः॒ । यत् । अ॒द्ध्व॒र्युः । जु॒हु॒यात् । यथा᳚ । विमु॑क्त॒मित्॒ वि - मु॒क्त॒म् । पुनः॑ । यु॒नक्ति॑ । ता॒दृक् । ए॒व । तत् । शी॒र्॒.षन्न् । अ॒धि॒नि॒धायेत्य॑धि - नि॒धाय॑ । जु॒हो॒ति॒ । शी॒र्॒.ष॒तः । हि । सः । स॒मभ॑व॒दिति॑ सं - अभ॑वत् । वि॒क्रम्येति॑ वि-क्रम्य॑ । जु॒हो॒ति॒ । वि॒क्रम्येति॑ वि - क्रम्य॑ । हि । इन्द्रः॑ । वृ॒त्रम् । अहन्न्॑ । समृ॑द्ध्या॒ इति॒ सम्-ऋ॒द्ध्यै॒ । प॒शवः॑ । वै । हा॒रि॒यो॒ज॒नीरिति॑ हारि-यो॒ज॒नीः । यत् । स॒भिं॒न्द्यादिति॑ सं - भि॒न्द्यात् । अल्पाः᳚ ।