प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.5.9.4 TS 6.5.9.4
एनं प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठेर॒न्॒. यन्न स॑भिं॒न्द्याद्-ब॒हव॑ एनं प॒शवोऽभु॑ञ्जन्त॒ उप॑ तिष्ठेर॒न् मन॑सा॒ सं बा॑धत उ॒भयं॑ करोति ब॒हव॑ ए॒वैनं॑ प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठन्त उन्ने॒तर्यु॑पह॒वमि॑च्छन्ते॒ य ए॒व तत्र॑ सोमपी॒थस्तमे॒वाव॑ रुन्धत उत्तरवे॒द्यां निव॑पति प॒शवो॒ वा उ॑त्तरवे॒दिः प॒शवो॑ हारियोज॒नीः प॒शुष्वे॒व प॒शून् प्रति॑ ष्ठापयन्ति ( ) ॥
पदपाठः (Word-by-word)
ए॒न॒म् । प॒शवः॑ । भु॒ञ्जन्तः॑ । उपेति॑ । ति॒ष्ठे॒र॒न्न् । यत् । न । स॒भिं॒न्द्यादिति॑ सं - भि॒न्द्यात् । ब॒हवः॑ । ए॒न॒म् । प॒शवः॑ । अभु॑ञ्जन्तः । उपेति॑ । ति॒ष्ठे॒र॒न्न् । मन॑सा । समिति॑ । बा॒ध॒ते॒ । उ॒भय᳚म् । क॒रो॒ति॒ । ब॒हवः॑ । ए॒व । ए॒न॒म् । प॒शवः॑ । भु॒ञ्जन्तः॑ । उपेति॑ । ति॒ष्ठ॒न्ते॒ । उ॒न्ने॒तरीत्यु॑त् - ने॒तरि॑ । उ॒प॒ह॒वमित्यु॑प - ह॒वम् । इ॒च्छ॒न्ते॒ । यः । ए॒व । तत्र॑ । सो॒म॒पी॒थ इति॑ सोम - पी॒थः । तम् । ए॒व । अवेति॑ । रु॒न्ध॒ते॒ । उ॒त्त॒र॒वे॒द्यामित्यु॑त्तर - वे॒द्याम् । नीति॑ । व॒प॒ति॒ । प॒शवः॑ । वै । उ॒त्त॒र॒वे॒दिरित्यु॑त्तर - वे॒दिः । प॒शवः॑ । हा॒रि॒यो॒ज॒नीरिति॑ हारि - यो॒ज॒नीः । प॒शुषु॑ । ए॒व । प॒शून् । प्रतीति॑ । स्था॒प॒य॒न्ति॒ ( ) ॥
पदसंख्या: 50